१३ पर्यङ्कासनम्

शायनादि

तत्रोपविष्टे अर्घ्य-पाद्याचमनानि दत्त्वा
सर्व-माल्यानि भूषणानि वासश् च विष्वक्सेनाय दत्त्वा
सुख-शयनोचितं सुख-स्पर्शं वासस्,
तद्-उचित-भूषणानि उपवीतम् आचमनञ् च दत्त्वा

गन्ध–पुष्प–धूप–दीपाचमन–मुख-वास–ताम्बूलादिभिर् अभ्यर्च्य
श्रुति-सुखैस् स्तोत्रैः स्तुत्वा

सात्त्विक-त्यागः

भगवान् एव
स्व-नियाम्य– स्व-रूप–स्थिति–प्रवृत्ति–
स्व-शेषतैक-रसेनानेनात्मना
स्वकीयैश् च देहेन्द्रियान्तः-करणैः
स्वकीय-कल्याणतम-द्रव्यमयान्
औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान्
अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त-भक्ति-कृतान्
अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये
स्वयम् एव प्रतिपादितवान्

इत्य् अनुसन्धाय

विष्वक्सेनाद्य्-अर्चना

“भगवन् विष्वक्सेनार्चनाय माम् अनुजानीहि”

इत्य् अनुज्ञाप्य
भगवन् निवेदिताद् +धविषो
विष्वक्सेनाय किञ्चिद् +++(←तुर्यांशं)+++ उद्धृत्य निधाय

अन्यत् सर्वम् अनन्ताय गरुत्मते स्वाचार्य-प्रमुखेभ्यो वैष्णवेभ्यश् च प्रदाय

भगवद्-याग-शिष्टैर् जलादिभिर् विष्वक्सेनम् अभ्यर्च्य
पूर्वोद्धृतं हविश् च दत्त्वा

तद्-अर्चनं परिसमाप्य

उद्वासनम्

भगवन्तं

[[219]]

मनो–बुद्ध्य्-अभिमानेन
सह न्यस्य धरा-तले।
कूर्मवच् चतुरः पादान्
शिरस् तत्रैव पञ्चमम्॥

इत्य् उक्ताष्टाङ्गेन द्विः प्रणम्य
पूर्ववच् छरणम् उपगच्छेत्।

अथार्घ्यं दत्वा

“ॐ भगवन् मन्त्र-मूर्ते
स्व-पदम् आसादय क्षमस्व क्षमस्व नमो नम”

इति स्व-हृदय उद्वास्य

क्षमा-याचनम्

उपचारापदेशेन
स्वयैव विहितान् विभो।
अपचारान् अशेषेण
क्षमस्व पुरुषोत्तम॥
अज्ञानाद् अथवा ज्ञानाद्
अशुभं यत् कृतं मया।
क्षन्तुम् अर्हसि तत् सर्वं
दास्येन च गृहाण माम्॥
ज्ञानतो ऽज्ञानतो वापि
यथोक्तं न कृतं मया।
तत् सर्वं पूर्णम् एवास्तु
तृप्तो भवतु सर्वदा॥
ओम् अच्युत जगन्-नाथ
मन्त्र-मूर्ते जनार्दन।
रक्ष मां पुण्डरीकाक्ष
क्षमस्वाद्य प्रसीद मे॥

रक्षा-विधानम्

पन्नगाधीश पर्यङ्के
रमा-हस्तोपधानके।
सुखं शेष्व जगन्-नाथ
सुदर्शन-सु-रक्षित

इत्य् अनुसन्धाय

तीर्थं स्वीकृत्य,

शङ्ख–चक्र–गदा-मुख्या
दिव्यायुध-गणास् सदा।
श्रीश-रक्षा-विधानाय
शक्त्या जाग्रत जाग्रत

इति कवाटं बध्वा
अस्त्रेण दिग्-बन्धनं कृत्वा