अर्घ्य–पाद्याचमन–गन्ध–पुष्पाणि दत्त्वा
कर्पूरादि-वासितम् अर्हण-जलं दत्त्वा
मधु-पर्कः
गुडं माक्षिकं सर्पिर् दधि क्षीरञ् चेति पात्रे निक्षिप्य
शोषणादिभिर् विशोध्यार्घ्य-जलेन प्रोक्ष्यास्त्रेण रक्षां कृत्वा
सुरभि-मुद्रां प्रदर्श्य
मधु-पर्कम् अवनत-शिरा हृष्ट-मना दत्त्वा
शीतलोदकं तर्पणम् आचमनञ् च दद्यात्।
मधु-पर्काख्य-योगेन
यन् मया कल्पितं प्रभो।
यद् यन् न्यूनातिरिक्तं तत्
क्षम्यतां प्रीतये प्रभो॥
यत् किञ्चिद् द्रव्यं भगवते दीयते
तत्-सर्वं शोषणादिभिर् विशोध्य
+अर्घ्य-जलेन प्रोक्ष्य
+अस्त्र-मन्त्रेण रक्षां कृत्वा
सुरभि-मुद्रां प्रदर्श्य दद्यात्।+++(5)+++
ततश् च गां सुवर्ण-रत्नादिकं च यथा-शक्ति दद्यात्।
भोग-निवेदनम्
ततः सुसंस्कृतान्नम् आज्याढ्यं
दधि-क्षीर-मधूनि च फल-मूल-व्यञ्जनानि मोदकांश्
चान्यानि शास्त्राविरुद्धानि आत्मनश् चेष्टानि सम्भृत्य
शोषणादि कृत्वा
ऽर्घ्येण प्रोक्ष्यास्त्र-मन्त्रेण रक्षां कृत्वा सुरभि-मुद्रां प्रदर्श्य
परिषिच्यार्हणं दत्त्वा
[[218]]
प्रभूतम् अथ नैवेद्यं
भक्ष्य-भोज्यान्य् अनेकशः।
मधुराद्या रसास् सर्वे
शाकाद्या बहु-मूलकाः॥
मोदकानि विचित्राणि
चापूप-व्यञ्जनानि च।
अ-सत्यम् अ-शुचिं नीचम्
अपराधैक-भाजनम्॥
अल्प-शक्तिम् अ-चैतन्यम्
अनर्हं तत्-क्रियास्व् अपि।
माम् अनादृत्य दुर्बुद्धिं
स्वीयया कृपया विभो॥
अति प्रभूतम् अत्यन्त-
भक्ति-स्नेहोपपादितम्।
शुद्धं सर्व-गुणोपेतं
सर्व-दोष–विवर्जितम्॥
स्वानुरूपं विशेषेण
स्व-देव्योस् स-दृशं गुणैः।
त्वम् एवेदं हविः प्रीत्या
स्वीकुरुष्व सुरेश्वर॥
इति प्रार्थ्य
पुष्पार्घ्यं हविषि विन्यस्य
सव्य-हस्त-स्पृष्टेन कुञ्चिताग्रेण दक्षिणेन पाणिना
अन्न-सूक्तम् उच्चरन्
मूल-मन्त्रेण हविर् निवेद्य
पयः-प्रभृत्य्–अनुपान-शीतलोदकार्हणाचमनानि
शोधनादि
माष-चूर्णेन हस्त-प्रक्षालन–
गण्डूष–मुख-प्रक्षालन–हस्त-प्रक्षालन–चन्दन–
मुख-वास-ताम्बूलादीनि दत्त्वा प्रणम्य
अनेनान्नेन यागेन
सम्यग् आराधितेन च।
पद्म-नाभो ऽरविन्दाक्षः
प्रीतिम् अभ्येतु मे ऽच्युत॥
इति विज्ञाप्य
निर्गतिः
पुनर्-मन्त्रासनं कूर्चेन मार्जयित्वा
“ॐ मन्त्रासनाय नम” इति गन्धादिभिर् अभ्यर्च्यन्
“भगवन्न् इमे पादुके” इत्य् अर्चिते पादुके दत्त्वा
द्विः प्रदक्षिणी-कृत्य द्विर् दण्डवत् प्रणम्य।