अलङ्कारः
पूर्ववत् स्नानीय-वर्जम् अर्घ्य-पाद्याचमनानि परिकल्प्य
अर्घ्य–पाद्याचमन–गन्धपुष्पाणि भगवते दत्त्वा
गन्ध-सम्मर्दनं कृत्वा
वस्त्र-भूषणोपवीतोत्तरीयाचमनानि दत्त्वा,
अथ सर्व-परिवाराणां स्नान-वस्त्र–भूषणान्तं कृत्वा
ततो भगवन्तं
गन्ध–पुष्प-माल्यालङ्काराञ्जनोर्ध्व-पुण्ड्रादर्श–
धूप-दीपाचमन-ध्वज–छत्र–चामर–वाहन–
शङ्ख–चक्र–मृदङ्ग–काहल–भेर्यादि-सकल-वाद्य-नृत्त-गीतादिभिर् अभ्यर्च्य
पुष्पादि
मन्त्रेण पुष्पं प्रदाय
प्रत्येकं पुष्पं प्रदाय
द्वादशाक्षरेण विष्णु-गायत्र्या पञ्चोपनिषदैः पुरुष-सूक्त-ऋग्भिश् च
प्रत्येकं पुष्पं प्रदाय
अन्यैश् च भगवन्-मन्त्रैः शक्तश् चेत् पुष्पं प्रदाय
देव्यादि-पारिषदां तं तत्-तन्-मन्त्रेण पुष्पं प्रदाय
ततस् सर्व-परिवारान् गन्धादिभिर् अभ्यर्च्य प्रणम्य
प्रतिदिशं प्रदक्षिण-प्रणाम-पूर्वकं पुष्पं दत्त्वा
भगवते पुष्पाञ्जलिं दद्यात्।
प्रदक्षिणम्
प्रथमे प्रदक्षिणे “जितन्त” इति मन्त्रस्थैश् चतुर्भिः पादैः
प्रतिदिशं प्रदक्षिण-प्रणाम-पूर्वकं पुष्पं दत्त्वा
द्वितीये प्रदक्षिणे
जितं ते पुण्डरीकाक्ष
वासुदेवामितद्युते।
रागादि-दोष-निर्मुक्त-
समग्र-गुण-मूर्तये॥ नाथ ज्ञान-बलोत्कृष्ट
नमस् ते विश्व-भावन।
सङ्कर्षण विशालाक्ष
सर्वज्ञ परमेश्वर॥
देव ऐश्वर्य-वीर्यात्मन्
प्रद्युम्न जगतां पते।
नमस् ते ऽस्तु हृषीकेश
जगन्-मूर्ते जगन्-मय॥
स्थित्य्-उत्पत्ति-लय-त्राण-
हेतवे शक्ति-तेजसे।
जयी निरुद्ध भगवन्
महा-पुरुष पूर्वज॥
इति प्रणामादि कृत्वा
स्तोत्रादि
पुरतः प्रणम्य
श्रुति-सुखैः स्तोत्रैः स्तुत्वा -
स्वात्मानम् आत्मीयम् इति नित्य-किङ्-करतया निवेद्य
तथैव ध्यात्वा
यथा-शक्ति मूल-मन्त्रं जपित्वा
मात्रा-दानादि
[[217]]
भोगापवर्ग-फलदान्
भुंक्ष्व भोगान् जगद्-गुरो।
सताम् अप्य् असतां तेषाम्
अस्तु ते परिपूर्णता॥
इति सर्व-भोग-पूरणीं मात्रां दत्त्वा
मुख-वास-ताम्बूले प्रदाय॥
ऐश्वर्येणोपचारेण
विविधेन विशेषतः।
भोग-योगेन भगवान्
प्रियतां मे वर-प्रद
इति विज्ञाप्य
निर्गतिः
प्राप्तं तु प्रापणे काले
भवता नीत एष ते॥
मृष्ट-मेध्य-स्थिरान्नानि
भक्ष्य-भोज्यान्य् अनेकशः।
सम्पन्नानि जगन्-नाथ
भोज्यासनम् उपाश्रय॥
इति विज्ञप्य
“ॐ भोज्यासनाय नमः”
गन्धादिभिर् अभ्यर्च्य
“ॐ भगवन्न् इमे पादुके”
इति गन्धाद्यर्चिते दत्त्वा