०९ स्नानासनम्

निवेदनम्

स्व-मूर्ध्न्य् अञ्जलिं कृत्वा -

[[215]]

स्नान-कालस् त्व् अयं प्राप्तः
तवेच्छा वर्तते यदि।
अभ्यञ्जयित्वा देवेश
सु-स्नानं कर्तुम् अर्हसि॥
स्फुटी-कृतं मया देव
इदं स्नानासनं त्वयि।
स-पाद-पीठं परमं
शुभं स्नानासनं महत्॥
आसादयाशु स्नानार्थं
मद्-अनुग्रह-काम्यया॥

इति प्रार्थ्य
“ॐ भगवन्निमे पादुके” इति पादुके प्रदाय

वस्त्रादि-निष्कासनम्

तत्रोपविष्टे अर्घ्य–पाद्याचमन–गन्ध–पुष्पाणि दत्त्वा
माल्य–भूषण–वस्त्राणि अस्त्र-मन्त्रेणापनीय
विष्वक्सेनाय दत्त्वा

उपकरणानि

स्नान-शाटिकोत्तरीय–पाद्याचमन–पाद-पीठ–
दन्त-काष्ठ–जिह्वा-निर्लेखन–गण्डूष–
मुखारविन्द-प्रक्षालनाचमनादर्श-मुख-वास–ताम्बूल–तैलाभ्यङ्गानि
माष-चूर्णेन विग्रह-सम्मर्दनं
शिरस्य् उष्णोदकं, स्नान–केश-वेष्टनामलक-तोय-प्रदान–कङ्क-प्लोत–
देह-शोधन–शाटिका-प्रदान–हरिद्रा-लेपन–
प्रक्षालन-वस्त्रोत्तरीयोपवीत-पाद्याचमन–
गन्ध–पुष्प–धूप–दीपाचमन–
नृत्त-गीत-वाद्यादि–
सर्व-मङ्गल-संयुक्ताभिषेकानि च दत्त्वा;

देव देव सुरास् सिद्धास्
तीर्थानि च महर्षयः।
त्वत्-सेवार्थम् इहायाताः
स्नानेनैतान् कृतार्थय॥

स्नानम्

सर्व-मङ्गल-स्नानार्थं पुरुष-सूक्तादिभिर् वाद्य–घोष-पूर्वकं
सहस्र-धाराभिषेक-प्रदान–नीराजनानि
बल-पवित्राभ्यां स्नान–देह-शोधन–प्लोत-वस्त्रोत्तरीयोपवीताचमन–कूर्च-प्रसारणं कुर्यात्।

सुस्नातं भवता देव
मन्त्र-सम्भाविताम्बुभिः।
वयं व्यपगत-क्लेशा
जातास् स्म विगतांहसः॥

इति विज्ञापयेत्।

निर्गतिः

[[216]]

सम्पन्नं देव सद्-वस्त्र–
भूषा–स्रक्–चन्दनादिकम्।
अलङ्कारासनं भद्रम्
अधितिष्ठ तृतीयकम्॥

इत्य् अनुज्ञाप्य -

“ॐ अलङ्कारापनाय नमः” गन्धादिभिर् अभ्यर्च्य
“भगवन्न् इमे पादुके” इत्य् अर्चिते पादुके दत्त्वा
तत्रोपविष्टे भगवति