०८ मन्त्रासनम्

आसन-कल्पनम्

“ॐ मन्त्रासनाय नम”

इति मन्त्रासनं समर्प्य
“मन्त्रासनम् अलङ्कुरुष्वे"ति प्रार्थ्य
पादुके प्रदाय
तत्रोपविष्टे
भगवति उद्धरण्या शुद्ध-जलम् आदाय
“आसनम्” इत्य् आसनार्थं प्रक्षिपेत्।

[[214]]

अर्घ्यम्

उद्धरण्या ऽर्घ्य-जलम् आदाय
पाणिभ्यां घ्राण-समम् उद्धृत्य
“ॐ भगवन् मत्-पूजां प्रतिग्रह्णीष्व” इति चिन्तयन्
भगवन्-मुखे दर्शयित्वा
दक्षिण-हस्ते किञ्चिद् दत्त्वा
शेषम् अर्घ्य-प्रतिग्रह-पात्रे प्रक्षिपेत्।

अर्घ्य-प्रतिग्रहार्थं
प्रत्य् अर्घ्यं “ॐ भगवन्न् अर्घ्येणार्चयिष्यामि” इति सङ्कल्प्य
मूल-मन्त्रेण प्रदाय
“भगवन्न् अर्घ्यं क्षमस्वे"ति क्षामयित्वा
“भगवन् सन्तुष्ये"ति प्रीणनं कर्तव्यम्।

एवम् एव पाद्यादेर् अप्य्
आसन-व्यतिरिक्तं कर्तव्यम्।

पाद्यम्

हस्त-शाटिकां प्रदाय
पादयोः पुष्पाणि समर्प्य

अ-कृत्रिम–प्रेम-रस–
निर्भरैस् स्व-कराम्बुजैः।
शुद्धैः स्वभाव-सुभगैः
सुख-स्पर्शैस् सुगन्धिभिः॥
संवाह्यमानम् अनिशं
शेष-शेषाशनादिभिः।
असत्यस्याति नीचस्य
भक्ति-हीनस्य दुर्मतेः॥
ममापि करयोर् अद्य
स्वयैव कृपया हरे।
निधेहि चरण-द्वन्द्वं
त्वाम् अस्मि शरणं गतः॥

इति प्रार्थ्य
पाद्य-जलम् आदाय
पादयोः किञ्चित् प्रदाय
मनसा पादौ प्रक्षालयन्
शेषं पाद्य-प्रतिग्रह-पात्रे प्रक्षिपेत्।

आचमनीयम्

आचमनीय-पात्राज् जलम् आदाय
पूर्ववत् कृत्वा
भगवद्-दक्षिण-हस्ते किञ्चित् प्रदाय
आचामन्तं भगवन्तं ध्यात्वा
शेषं आचमनीय-प्रतिग्रह-पात्रे प्रक्षिपेत्।

समापनम्

ततो गन्ध–पुष्प–धूप–दीपाचमनानि
[[??]]रजाती मातुलङ्ग-समुदाय-रूप–मुख-वास–ताम्बूलञ् च दत्त्वा प्रणम्य -

आत्मात्मीयञ् च यत् किञ्चिद्
दुर्भरं दुस्त्यजं मम।
तत् सर्वं तव विन्यस्तं
शुभयोः पादयोर् हरे॥

इति निवेद्य स्नानासनम् आनीय
“ॐ स्नानासनाय नम” इति समर्प्य।

अग्रे नयनम्

गन्धादिभिर् अभ्यर्च्य
“भगवत्-पादुकाभ्यां नम” इति पादुके समर्प्य
गन्धादिभिर् अभ्यर्च्य
भगवन्तं प्रणम्य