०७ निवेदनम्

एवं सपरिवारं भगवन्तं ध्यात्वा प्रणम्य
मूल-मन्त्रेण स्वात्मानं निवेद्य अनुज्ञाप्य पूजाम् आरभेत।

इज्या-कालस् तृतीयो ऽयम्
अह्नोंशस् समुपागतः
सम्भृताश् चैव सम्भाराः
कल्पितान्य् आसनान्य् अपि॥
स्नानाद्यर्थानि देवेश
तवेच्छा वर्तते यदि।
अवलोकन-दानेन
तत् सर्वं स-फलं कुरु
तद्-अर्थं सह-देवीभ्यां
सानुगैस् सचिवैस् सह।
मद्-अनुग्रहाय कृपया
अत्रागन्तुं त्वम् अर्हसि॥

इति प्रार्थ्य -

यावद् आद्य्-आसनं मन्त्रासनान्तं पूज्यसे मया।
तावत् सान्निध्यम् अत्रैव कुरुष्व पुरुषोत्तम॥

इत्य् अनुसन्धाय

“ॐ त्वद् आराधनाय माम् अनुजानीहि”

इत्य् अनुज्ञाप्य