अथ भगवन्तम् आवाहयेत् तत्रायं क्रमः।
मन्त्र-योगस् समाह्वानं कर-पुष्पोपदर्शनम्।
बिम्बोपवेशनञ् चैव योग-विग्रह–चिन्तनम्॥
प्रणामश् च समुत्थानं स्वागतं पुष्पम् एव च।
सान्निध्य-याचनञ् चेति तत्राह्वानस्य सत्-क्रिया॥
[[211]]
मन्त्र-न्यासः
मन्त्र-योगो नाम -
उद्धरण्या ऽर्घ्य-जलम् आदाय
तत्र पुष्प-द्वयं निधाय
उरस् समं कृत्वा
कर-द्वयेन धारण-विधारणे कृत्वा
मूल-मन्त्रं चतुर्-आवर्त्य
“ॐ भगवन्न् आगच्छागच्छ” इत्य् आवाह्य
भगवद्-विग्रह-ध्यानम्।
समाह्वानम्
समाह्वानन् तु –
परम-धामावस्थित–मद्-अनुग्रहाभियोगोद्यतावतार
इहाभिमत-सिद्धिद-मन्त्र-शरीर
“ॐ नमो नम” इति।
“ओं षौम्” इत्यादिना उद्योग-ध्यानम्
“ॐ याम्” इत्यादिना दक्षिण-नासया निर्गमय्य
कर-स्थ-जले प्रवेशभावना च।
“ॐ राम्” इत्य्-आदिना भगवन्-मुखे तद् दर्शयित्वा,
कर-पुष्पोपदर्शनम्
पुरतो निधाय -
एकं पुष्पम् जल-सहितं तेजो-रूपम् अञ्जलिना ऽऽदाय
भगवन्मुखे दर्शनं कर-पुष्पोपदर्शनम्।
बिम्बोपवेशनम्
इज्या-कालस् तृतीयो ऽयम्
अह्नो ऽंशस् समुपागतः।
सम्भृताश् चैव सम्भाराः
कल्पितान्य् आसनानि च॥आयातु भगवान् देवस्
सर्व-सम्पत्-करः प्रभुः।
अच्युतो मद्-गृहार्चायां
मद्-अनुग्रह-काम्यया॥आवाहयामि लक्ष्मीशं
परमात्मानम् अव्ययम्।
आतिष्ठताम् इमां मूर्तिं
मद्-अनुग्रह-काम्यया॥
श्रिया सार्धं जगन्-नाथो
दिव्यो नारायणः प्रभुः॥
इति “ॐ वाम्” इत्यादिना च भगवन्-मूर्ध-प्रभृति-पादान्तं पुष्प-जलाभ्याम् अभिषिच्य
प्रवेश-ध्यानं बिम्बोपवेशनम्।
योग-विग्रह–चिन्तनम्
अन्यत् पुष्पम् आदाय
“ॐ लाम्” इत्यादिना ब्रह्म-रन्ध्रं पिधाय
शेषं प्रक्षिप्य
मूल-मन्त्रेण सकली-करणं
योग-विग्रह–चिन्तनम्।
[[212]]
सकली-करणं नाम - पञ्चोपनिषन्-न्यासः।+++(4)+++
प्रणामोत्थान-स्वागतादि
मूल-मन्त्रेण प्रणामोत्थाने,
ब्रह्माद्यास् सकला देवा
यं न स्मर्तुम् अनीश्वराः।
स एष भगवान् अद्य
मम प्रत्यक्षतां गतः॥
स्वागतं भगवान् अद्य
मां तारयितुम् आगतः।
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि
कृतार्थो ऽस्मि कृपानिधे॥ +++(5)+++
स्वागतं भगवते
इति निवेदनम्।
अथ पादयोर् मूल-मन्त्रेण पुष्प-प्रदानम्।
सान्निध्य-याचनम्
सान्निध्य-याचनं तु -
“ॐ ॐ ज्ञानाय हृदयाय नमः”
“सन्निधत्स्वेह भगवन्न्”
इति भगवन्-मूर्ध्न्य् अर्घ्य-जलं पुष्पेण प्रदाय
शेषं निरस्य
ॐ नां बलाय कवचाय हुं
सन्निधत्स्व विग्रहे
इति पुष्पेणार्घ्य-जलं मूर्ध्नि प्रदाय
शेषं निरस्य
ॐ यं तेजसे नेत्राभ्यां वौषट्
भगवन् यावद् आराधन-परिसमाप्ति-साम्मुख्यं भजस्व
इति पुनर् अपि पुष्पेणार्घ्य-जलं भगवन्-मूर्ध्नि प्रदाय
शेष-निरसन-पर्यन्तम् एव
+आवाहनाङ्गम् अर्घ्य-त्रयम् उच्यते।
श्री-भू-नीलाः
भगवद्–दक्षिण–वक्षसि “ॐ श्रीं श्रियै नमः”
वाम-वक्षसि “ॐ भूं भूम्यै नमः”
तत्रैव “ॐ नीं नीलायै नमः”
मन्त्र-न्यासः
भगवन्–मूर्ध–नासाग्र–हृदय–गुह्य–पाद-प्रदेशेषु पञ्चोपनिषन्-न्यासः।
विग्रहे तत्-तत्-स्थाने स्थिति-न्यास-प्रक्रियया प्रणव-सम्पुटित-मूल-मन्त्राक्षर-न्यासः,
दक्षिणेतर-हस्तयोः पद्म–गदा–चक्र–शङ्खानां प्रणवादि-नमोन्त-न्यासः,
एवं किरीट–श्री-वत्स–कौस्तुभ–वन-मालानां
शिरो-वक्षो–दक्षिण-भागोरो-मध्योभय-पार्श्वेषु न्यासः,
श्री-पुष्टि–सरस्वती–निद्रा–कान्ति–पृथिवी–गरुडानां तत्-तन्-मन्त्रेण तत्-तत्-स्थानेषु +++(=??-)+++ न्यासः,
एवं न्यस्तानां गन्धादिभिर् अर्चनं
मुद्राः
आवाहिनी–स्थापिनी–सन्निधीकरणी–स
न्निरोधिनी–सम्मुखीकरणी–अवकुण्ठना–
प्रार्थना–योनि-मुद्रा–महा-योनि-मुद्रा–चक्र-मुद्रा–मुसल-मुद्राश् च दर्शयेत्।
[[213]]
श्री-भू-नीलाः
श्री-भू-नीलानां प्रत्येकं तत्-तन्-मन्त्रं चतुर्-आवर्त्य
“भगवत्यागच्छागच्छे"ति भगवतो वक्षस्-स्थलात्
तत्-तत्-स्थानेषु पूर्ववद् आवाहयेत्।
तत्-तन्-मुद्राः देवीनाम् आवाहनानन्तरम्।
“ॐ श्रां ज्ञानाय हृदयाय नमः”,
“ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा”,
“ॐ श्रूं शक्त्यै शिखायै वौषट्”,
“ॐ श्रैं बलाय कवचाय हुम्”,
“ॐ श्रौं तेजसे नेत्राभ्यां वौषट्”,
“ॐ श्रः वीर्यायास्त्राय फट्”
एवं भूम्याः “भां भीम्” इत्यादिना
तथैव नीलायाः “नां नीम्” इत्यादिना तत्-तत्-स्थानेषु न्यसेत्।
परिजनाः
अथ किरीटाय “मकुटाधिपतये नम” इत्यादिभिर् विष्वक्सेन-परिजनान्तं परिकल्प्य
चण्डादीन् पूर्वादि-द्वार-पार्श्वेषु
प्राग्-आदिषु कुमुदादीन् परिकल्प्य
अथ “सर्वेभ्यो भगवत्-पारिषदेभ्यो नम”
इति सर्वस्माद् बहिः परिकल्प्य तान् सर्वान् प्रणमेत्।