योग-पीठस्य पश्चिमोत्तर-दिग्-भागे भगवत्-पाद-समीपे
उद्धरण्या सर्वार्थ-जलम् आदाय
घ्राणसमम् उद्धृत्य
“ॐ अस्मद्-गुरुभ्यो नमः”,
“ॐ अस्मत्-परम-गुरुभ्यो नमः”,
“ॐ अस्मत्-सर्व-गुरुभ्यो नमः” इति चतुर्-आवर्त्य
“ॐ भगवन्त आगच्छत अगच्छत” इत्य् आवाह्य व्यापक-न्यासं कृत्वा गन्धादिभिर् अभ्यर्च्य
ॐ
गुरवस् तदीयगुरवो दिशन्तु मम साध्व् अनुग्रहम्।
युष्मद्-उपजनित-शक्ति–मतिर् हरिम् अर्चयामि गत-भीः प्रसीदत॥
इति विज्ञाप्य