“ॐ आधार-शक्त्यै नम” इत्यादिभिर्
आधार-शक्त्यादीन् क्रमात् परिकल्प्य
आस्तरणोपर्य्-आग्नेयादिषु धर्मादीन् प्रागादि-स्व-धर्मादीन्
मध्ये नाग-राजं
तद् उपरि पद्म-दल–केसर-कर्णिकासु सूर्य-मण्डलादीन्
प्रागादि दलेषु विमलादीन्, कर्णिका-पूर्व-भागे अनुग्रहां
मध्ये योग-पीठादीन्
पुरतः पाद-पीठञ् च
प्रणवादिनमोन्तैः परिकल्प्य
आधार-शक्त्यादिपीठान्तानि गन्धादिभिर् अभ्यर्च्य
अनन्त–गरुड–विष्वक्सेनानां सपीठकानि पद्मासनानि परिकल्प्य
अन्येषाञ् च परिवाराणां सपीठ-पद्मासनानि परिकल्प्य
सर्वतः पुष्पाक्षतान् विकीर्य