अथोद्धरण्या ऽर्घ्य-जलम् आदाय
मुख-समम् उद्धृत्य “ॐ विं विरजायै नम” इति विरजा-मन्त्रं चतुर्-आवर्त्य
विरजाम् आवाह्य
अर्घ्यादिषु कुम्भे च किञ्चित् किञ्चित् प्रक्षिप्य
शेषेण भगवद्-विग्रहं याग-भूमिं पूजा-द्रव्याणि स्वात्मानञ् च
मूल-पवित्राभ्यां प्रोक्ष्य
आसनं परिकल्पयेत्।