अन्यानि पूजा-द्रव्याणि दक्षिणतो निधाय
आत्मनः पुरतः स्वास्तीर्णे क्रमेणाग्नेयादिषु कोणेषु अर्घ्यादि-पात्राणि
मध्ये शुद्धोदक–पात्रञ् च निधाय
अस्त्र-मन्त्रेण प्रक्षाल्य
शोषणादि कृत्वा
तानि कुम्भ-स्थ-तोयेन हृदय-मन्त्रेण पूरयित्वा
तेषु हृदयेन एला–चन्दन–कर्पूर–कोष्ठ–लामञ्चानि[[??]] विन्यसेत्।
अथवा तुलसीं पात्रेषु निक्षिप्य
सुरभि-मुद्रया अमृत-पूर्णानि ध्यात्वा
अर्घ्यञ् च पवित्र-मूलाभ्याम् अभिमन्त्र्य
“ॐ नमो भगवते अर्घ्यं परिकल्पयामि”
इत्य् अर्घ्यं परिकल्प्य
अन्यानि मूलेनाभिमन्त्र्य
स्व-स्व-नाम्ना परिकल्प्य
तानि गन्धादिभिर् अभ्यर्चयेत्।
[[210]]
आदि-शब्देन पुष्प-दीपा उच्यन्ते, सर्वत्रैवम्।+++(4)+++