आत्मनो वाम-पार्श्वे जल-भाजने
हृन्-मन्त्रेण +++(=ॐ ज्ञानाय हृदयाय नमः??)+++ तुलसी–गन्ध–पुष्पाणि निक्षिप्य
शोषणादि कृत्वा
“यं वायवे नमः शोषयामि”
“रं अग्नये नमः दाहयामि”
“वं अमृताय नमः प्लावयामि”॥
सर्वे समुद्रास् सरितस्
तीर्थानि च सरांसि च।
आयान्तु विष्णु–पूजार्थं
कलशाम्बु-समाश्रिताः॥
इत्य्-अनेन सकृत्,
सप्तकृत्वो मूल-मन्त्रेण चाभिमन्त्र्य
अस्त्र-मन्त्रेण दिक्षु रक्षां कृत्वा
“ॐ स्वीं सुरभ्यै नम” इति सुरभि-मुद्रां प्रदर्श्य