०३ हृद्-यागः

(हृद्-यागं कृत्वा),

… तत्-क्रमः -

हृन्-नालीके विभान्तं हृदय-ग-शिखिनो मध्य-गे भद्र-पीठे
शङ्खं चक्रं गदाञ् चाभयम् अपि दधतं पाणि-पद्मैश् चतुर्भिः।
मौलि–श्री-वत्स–पीताम्बर–मणि–तुलसी-हार–केयूर-मुख्यैः
कान्तं भूषा-विशेषैर् मम हृदि कलये मेघ-रम्यं रमेशम्॥

सौवर्णे स्थालि-वर्ये मणि-गण-खचिते गो-घृताक्तान् सु-पक्वान्
भक्ष्यान् भोज्यांश् च लेह्यान् परमम् अथ हविश्-चोष्यम् अन्नं निधाय
नाना शाकैर् उपेतं स-दधि–मधु–घृत–क्षीर–पानीय-युक्तं
ताम्बूलं चात्मने ऽस्मै प्रतिदिवसम् अहं मानसे कल्पयामि

इति हृद्-यागं प्रार्थ्य॥

भगवन् पुण्डरीकाक्ष
हृद्-यागन् तु मया कृतम्।
आत्मसात् कुरु देवेश
बाह्ये त्वां सम्यग् अर्चये

इति बहिर्-यागं प्रार्थ्य,