०८ सात्त्विक-त्यागान्तम्

अथ

भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवन्तम् अर्चयिष्यामि

भगवान् एव स्व-नियाम्य स्व-रूप–स्थिति–प्रवृत्ति–स्व-शेषतैक-रसेनानेनात्मना स्व-कीयैश् च देहेन्द्रियान्तः-करणैः
स्वकीय-कल्याणतम–द्रव्यमयान्
औपचारिक-सांस्पर्शिक-सान्दृष्टिकाभ्यवहारिकादि-समस्त-भोगान्
अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त-भक्तिकृतान् अखिल–परिजन–परिच्छदान्विताय स्वस्मै
स्व-प्रीतये
स्वयम् एव कारयति

इत्य् अनुसन्धाय।

[[209]]