मूलेन पूर्ववत् प्राणायाम-त्रयं कृत्वा ऋष्यादि-पूर्वकं “सव्यं पादम्” इति ध्यात्वा
स्व-देहं भगवद्-विग्रहं ध्यात्वा
यथा-शक्ति मूल-मन्त्रं जपित्वा …
तत्-क्रमः - भगवन्तं प्रणम्य
मूल-मन्त्रेण पञ्च-विंशति-कृत्वो ऽभ्यस्तेन त्रिः प्राणानायम्य
श्री-भगवद्-आज्ञया श्रीमन्नारायण-प्रीत्यर्थम्
इज्यायां श्रीमदष्टाक्षर-महा-मन्त्र-जपं करिष्य
इति सङ्कल्प्य।
अस्य श्रीमदष्टाक्षर-महा-मन्त्रस्याऽन्तर्यामि-नारायण ऋषिः
(बदरिकाश्रम-वासी श्रीमन्नारायण-ऋषिर् इति वा)
देवी गायत्री च्छन्दः
परमात्मा श्रीमन्नारायणो देवता,
श्रीर् अधिष्ठान-देवता,
आं बीजं
आय शक्तिः
मं कीलकं
श्रीं कवचं
ह्रीम् अस्त्रं
शुक्लो वर्णः
उदात्तादिस् स्वरः
विष्णुस् (बुद्धिस्) तत्त्वं;
वैकुण्ठं क्षेत्रं
जीवात्म–परमात्मनोस् स्व-स्वामिभावस् सम्बन्धः
श्रीमन्नारायण-प्रसाद-सिद्ध्यर्थे जपे विनियोगः।
मूल-मन्त्रेण
आ-कूर्परम् अङ्गुल्य्-अग्र-पर्यन्तं स्व-हस्तौ परस्परं त्रिः परामृश्य
ततः शुद्धयोर् हस्तयोर् मन्त्रस्य व्यापक-न्यासं कृत्वा
“ॐ ओम्” इति दक्षिण–हस्त–तर्जनी–मध्यम-पर्वणि न्यस्याद्यन्त-पर्वणोः “ॐ ओम्” इति प्रणवं न्यसेत्।
[[205]]
एवम् “ॐ नम्” इति मध्यमा-मध्यम-पर्वणि “ॐ ओम्” इति प्रणवम् आद्य-अन्त-पर्वणोर् न्यसेत्। एवम् “ॐ मोम्” इति अनामिका-मध्यम-पर्वणि “ॐ ओम्” इत्य् आद्य्-अन्तयोः; “ॐ नाम्” इति कनिष्ठिका-मध्यम-पर्वणि “ॐ ओम्” इत्य् आद्य्-अन्तयोः, “ॐ राम् ॐ ओम्” इति वाम-तर्जन्यां पूर्ववत्, “ॐ यम् ओम् ओम्” इति वाम-मध्यमायाम् “ॐ शाम् ओम् ओम्” इति वामानामिकायाम् “ॐ यम् ओम् ओम्” इति वाम-कनिष्ठिकायाञ् च पूर्ववन् मध्यमाद्य्-अन्तपर्वसु क्रमेण न्यसेत्। एष स्थिति-न्यासो गृहस्थस्य। वाम-तर्जन्यादि-दक्षिण-तर्जन्य्-अन्तम् अष्टानाम् अङ्गुलीनां मध्यम-पर्वसु प्रणवेनोपेतस्य नादान्तस्य मन्त्राक्षरस्याद्य्-अन्त-पर्वणोः प्रणवस्य च क्रमेण न्यासस् संहाराख्यो यतीनां वन-स्थानाञ् च। दक्षिण-तर्जन्यादि-वाम-तर्जन्य् अन्तं सृष्टि-न्यासो ब्रह्म-चारिणाम् अयम्। “ॐ ॐ ज्ञानाय हृदयाय नम” इति हृदये दक्षिण-तर्जन्या दक्षिणाङ्गुष्ठे न्यस्य,
ॐ नं ऐश्वर्याय शिरसे स्वाहा, ॐ मों शक्त्यै शिखायै वौषट्, ॐ नां बलाय कवचाय हुम्, ॐ रां वीर्यायास्त्राय पड्
इति क्रमेण दक्षिणाङ्गुष्ठेन दक्षिण-तर्जन्यादि-तत्-कनिष्ठिकां तास्व् अङ्गुलीषु न्यस्य, “ॐ यं तेजसे नेत्राभ्यां नम” इति वाम-तर्जन्या वामाङ्गुष्ठे न्यस्य,
ॐ णां तेजसे उदराय नमः, ॐ यं तेजसे पृष्टाभ्यां नमः, ॐ यं तेजसे बाहुभ्यां नमः, ॐ यं तेजसे ऊरुभ्यां नमः
इति क्रमेण वामाङ्गुष्ठेन तत् तर्जन्यादि-कनिष्ठिकां तास्व् अङ्गुलीषु न्यस्य, “ॐ यं तेजसे जानुभ्यां नम” इति दक्षिणाङ्गुष्ठेन तद् इतराङ्गुलि-नख-मुखेषु न्यसेत्, “ॐ यं तेजसे पादाभ्यां नम” इति वामाङ्गुष्ठेन तद् इतराङ्गुलि-नख-मुखेषु न्यसेत् ; एष स्थिति-न्यासः।
वामाङ्गुष्ठादि-दक्षिणाङ्गुष्ठान्तं तथैव नख-मुखे ऽपि न्यासस् संहारः। दक्षिणाङ्गुष्ठादि-वामाङ्गुष्ठान्तं तथैव नख-मुखे च न्यासस् सृष्टि-न्यासः।
[[206]]
अथाङ्ग-न्यासः - मूल-मन्त्रेण पाणिभ्यां शिरः प्रभृति पादान्तं पद्म-वेष्टनवत्-पार्श्वयोः….[[??]] व्यापक-न्यासं कृत्वा; “ओम् ओम्” इति दक्षिणाङ्गुष्ठ-कनिष्ठिका ….[[??]] भ्यां विन्यस्य, “ॐ नम् मोम्” इत्य् अक्षर-द्वयम् अङ्गुष्ठाभिर् अङ्गुलीभिर् गुह्ये जान्वोश् च क्रमेण न्यस्य “ॐ नाम् ओम्” इति साङ्गुष्ठाभिर् [[??]] अङ्गुलीभिः पादयोः पृष्ठतो न्यस्य “ॐ राम्” इति मध्यमाङ्गुल्या शिरसि न्यस्य “ओं यम्” इति तर्जनी-मध्यमाभ्यां नेत्र-द्वये, “ॐ णाम्” इति साङ्गुष्ठानामिकया मुख-मध्ये, घ्राणस्य पुरतः “ॐ यम्” इति साङ्गुष्ठ-तर्जन्य्-अग्रेण न्यसेत्। अयं स्थिति-न्यासः।
अत्रापि शिरः प्रभृति पादान्त-न्यासस् सृष्टि-न्यासः, पादादि-शिरोन्तस् संहार, “ओम् ओं ज्ञानाय हृदयाय नम” इत्य् अङ्गुष्ठ-युक्त–तर्जन्या हृदये, “ओं नं ऐश्वर्याय शिरसे स्वाहा” इत्य् अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके, “ॐ मों शक्त्यै शिखायै वषड् इत्य् अङ्गुष्ठ-नालेन मुष्टिना शिखा-मध्ये, “ॐ नां बलाय कवचाय हुम्” इति कण्ठादि-कट्यन्तां तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा, “ॐ रां वीर्यायास्त्रायफड्” इति साङ्गुष्ठ-तर्जन्या असंयोः[[??]] क्रमेण शब्दयेत्, “ॐ यं तेजसे नेत्राभ्यां नम” इति मध्यमा-तर्जनीभ्यां युगपन् नेत्र-द्वये, “ॐ णां तेजसे उदराय नम” इति नाभ्याम् अङ्गुलीर् न्यस्य, “ॐ यं तेजसे पृष्ठाभ्यां नम” इति पृष्ठयोः, “ॐ यं तेजसे बाहुभ्यां नम” इति बाह्वोः, “ॐ यं तेजसे ऊरुभ्यां नम” इत्य् ऊर्वोः, “ओं यं तेजसे जानुभ्यां नम” इति जान्वोः, “ॐ यं तेजसे पादाभ्यां नम” इति पादयोर् अङ्गुलीभिर् न्यसेत्।
[[207]]
ततस् सास्त्रच्छोटेन साङ्गुष्ठ–तर्जन्यग्रेण पूर्वाद्य् आदिशः पूर्वं पश्चाद् वह्न्य्-आद्य् आदिशश् च बध्नीयात्। सास्त्रच्छोटेन साङ्गुष्ठ–तर्जन्य्-अग्रेण भ्रामयन् सन्नात्मनः प्राकारं कुर्यात्, “ॐ बलाय कवचाय हुम्” इति देहावगुण्ठनं कुर्यात्। ततः -
इदं गुरुभ्यस् सर्वेभ्यः क्रियये शिरसा नमः।
मन्त्र–ज्ञान–प्रदातृभ्यस् तद्-गुरुभ्यो ऽपि साम्प्रतम्॥
नमस्ते मन्त्र-राजाय नमस्ते ऽष्टाक्षरात्मने।
नमस्ते चेतनाधार–पर-ब्रह्माभिदायिने॥
स्थित्वा ऽन्तर् हृदये सर्वान् आत्मनस् सन्नियच्छते।
ऋषये ऽष्टाक्षरस्यान्तर्यामिणे हरये नमः॥
अष्टाक्षर–महा-मन्त्र–वर्ण–सङ्ख्याभिधायिनीम्।
छन्दश् च देवीं गायत्रीं शिरसा प्रणमाम्य् अहम्॥
मन्त्रस्य दैवतं चापि परमात्मानम् अव्ययम्।
नारायणं परं ब्रह्म नतो ऽस्मि शिरसा हरिम्॥
मन्त्र-शक्ति-स्थिता यस्मिन्नाश्रितेष्टार्थ-साधिनि।
पदं नारायणायेति शक्तिं तां प्रणमाम्य् अहम्॥
अकाराद् उत्थिताद् बीजाद् वासुदेवाभिधायिनः।
तद्-बीजम् अस्य प्रभवं प्रणवं प्रणतो ऽस्म्य् अहम्॥
इति गुर्वादीन् प्रणम्य मनसा गन्धाद्यैर् अभिपूज्य;
सव्यं पादं प्रसार्य श्रित-दुरित-हरं दक्षिणं कुञ्चयित्वा
जानुन्य् आधाय सव्येतरम् इतर-भुजं नाग भोगे निधाय।
पश्चाद् बाहु-द्वयेन प्रतिभट-शमने धारयन् शङ्ख-चक्रे
देवी-भूषादि-जुष्टो जनयतु जगतां शर्म वैकुण्ठ-नाथः॥
इति ध्यात्वा
[[208]]
ओम् अर्थाय नमो नारायणायेत्य् एक-वाक्यता।
न्यासो ऽत्र नमसो ऽर्थस् स्यात् तेनोपायपरो मनुः॥
ओम् अर्थ-नारायणाय शेष-वृत्तिं नमो गिरा।
उपलक्ष्य तथैकात्मा कृत्स्नः फल-परो मनुः॥
अर्थ-नारायणस्यैव स्वम् अहं नास्म्य् अहं मम।
इति द्वि-वाक्यो जीवेश-स्व-रूपे तत् परो मनुः॥
आर्थ-नारायणस्याहं भरत्वेनार्पितो न मे।
भरो ऽस्मीति द्वि-वाक्यस् सन्न् उपायैकपरो मनुः॥
आर्थ-नारायणस्याहं किङ्करस् तद्-विरोधि मे।
न स्याद् इति द्विवाक्यस् सन् पुम्-अर्थैकपरो मनुः॥
आयैवाहं नमो नारायण-कैङ्कर्यम् अस्तु मे।
इति त्रि-वाक्यो जीवेश स्व-रूप–फल–तत्-परः॥
आयैवास्मीत्य् एक-वाक्यात् स्व-रूपं शेष-वाक्ययोः।
अनिष्टं नश्यताद् इष्टं स्याद् इत्याह त्रि-वाक्यतः।
स्व-रूपं तार-नमसोर् अर्थो गोप्तृत्व-याचनम्।
शेषस् स्याद् अस्त्रि-वाक्यो ऽसौ स्व-रूपोपाय-तत्-परः॥
केचित् तु चरम-श्लोके द्वये चोक्त-क्रमाद् इह।
भर-न्यासपरं तारं शेषं फलपरं विदुः॥
तारे स्व-रूपं नमसि न्यासं शेष-फलार्थनाम्।
प्राह त्रि-वाक्यो मन्त्रो ऽयं माहत्यार्था दशेरिताः॥
वाक्यैकत्वे योजने द्वे तिस्रो वाक्य-त्रये तथा।
वाक्य-त्रये पञ्चतयस् ताः पृथक् पृथग् ईरिताः॥
इति कारिका-दर्पणोक्त–सङ्ग्रह-क्रमेण श्री-निगमान्त-देशिकोक्तं मन्त्रार्थम् अपि चिन्तयन् यथा-शक्ति मूल-मन्त्रं जपेत्