०३ मातृका-न्यासः

वर्ण-न्यासः

“ॐ अं नमः ॐ आं नम” इत्यादिभिः भ्रू–नेत्र–श्रोत्र–नासा–कपोलोष्ठ–दन्त-जिह्वा–मूलाग्रेषु न्यसेत्।

विश्वास-टिप्पनी

(अ इ उ ऋ ऌ)*२ ए ऐ ओ औ अं अः इति १६।
भ्रू–नेत्र–श्रोत्र–नासा–कपोलोष्ठ–दन्त-जिह्वा–मूलाग्रा अपि १६।

“ॐ कं नमः खं नमः” इत्यादिभिः दोः-पत्-सन्ध्य्-अङ्गुल्य्-अग्रेषु क-च-ट-त-वर्गाः
पार्श्व-द्वय-पृष्ठोदर-नाभिषु पवर्गः,

यरौ नाभिस्थ-वायु-जाठराग्न्योः,
लवौ हार-कटि-सूत्रयोः,
शषौ कुण्डलयोः,
सहौ हृत्-पद्म–(जीव)परमात्मनोः
लक्षौ देह-प्रभायां

“रङ्गाय+++(=ँ)+++ नमः” नासिकाग्रे
“यमाय+++(←पलिक्क्ँनीः चख्ख्ँनतुः जग्ग्ँमतुः, जघ्घ्ँनतुः)+++ नमः” हृदये
“जिह्वा-मूलीयाय नमः” जिह्वा-मूले
“उपध्मानीयाय नमः” ओष्ठयोः

सदेवताक-न्यासः

[[202]]

ॐ अं वासुदेवाय नमः लक्ष्म्यै नमः,
ॐ आं सङ्कर्षणाय नमः कीर्त्यै नमः,
ॐ इं प्रद्युम्नाय नमः जायायै नमः,
ॐ ईम् अनिरुद्धाय नमः मायायै नमः,
ॐ उं केशवाय नमः प्रियायै नमः,
ॐ ऊं नारायणाय नमः वागीश्वर्यै नमः,
ॐ ऋं माधवाय नमः का[[??]]नमः,
ॐ ॠं ऋं गोविन्दाय नमः क्रियायै नमः,
ॐ ऌंॠं वैश्णवे नमः शक्त्यै नमः,
ॐ ॡंह्रूं मधुसूदनाय नमः भूत्त्यै नमः,
ॐ एं त्रिविक्रमाय नमः, [[??]] यै नमः,
ॐ ऐं वामनाय नमः प्रीत्त्यै नमः,
ॐ ॐ श्री-धराय नमः [[??]] नमः,
ॐ औं हृषीकेशाय नमः मायायै नमः,
ॐ अं पद्मनाभाय नमः धिये नमः,
ॐ आः दामोदराय नमः महिम्ने नमः,

ॐ कं पद्मनाभाय नमः धिये नमः,
ॐ खं ध्रुवाय नमः तारायै नमः,
ॐ गं अनन्ताय नमः वारुण्यै नमः,
ॐ घं शक्त्यात्मने नमः शक्त्यै नमः,
ॐ ङंजं मधुसूदनाय नमः पद्मायै नमः,

ॐ चं विद्याधिदेवतायै नमः विद्यायै नमः,
ॐ छं कपिलाय नमः सङ्ख्यायै नमः
ॐ जं विश्व-रूपाय नमः विश्वायै नमः,
ॐ झं हंसाय नमः खड्गायै नमः,
ॐ ञं क्रोडात्मने नमः भुवे नमः,

ॐ टं बडबावक्त्राय[[??]] नमः गवे नमः,
ॐ ठं धर्माय नमः लक्ष्म्यै नमः,
ॐ डं वागीश्वराय नमः वागीश्वर्यै नमः,
ॐ ढं एकार्णव-शयनाय नमः अमृतायै नमः,
ॐ णं कूर्माय नमः धारिण्यै नमः,

ॐ तं वराहाय नमः छायायै नमः,
ॐ थं नारसिंहाय नमः नारसिंह्म्यै नमः,
ॐ दं अमृताहरणाय नमः सुधायै नमः,
ॐ धं श्रियः पतये नमः श्रियै नमः,
ॐ नं कान्त्यात्मने नमः कान्त्यै नमः,

ॐ पं राहुजिते नमः विश्वायै नमः,
ॐ फं काल-नेमिघ्नाय नमः रामायै नमः,
ॐ बं पारिजात-हरणाय नमः सत्यायै नमः,
ॐ भं शान्त्यात्मने नमः शान्त्यै नमः,
ॐ मं दत्तात्रेयाय नमः सरोरुहायै नमः,

ॐ यं न्यग्रोध-शायिने नमः मायायै नमः, ॐ रं एक-शृङ्गाय नमः पद्मासनायै नमः,
ॐ लं वामनाय नमः खर्वायै नमः,
ॐ वं त्रिविक्रमाय नमः विक्रान्त्यै नमः,
ॐ शं नाराय नमः सत्यायै नमः,
ॐ षं नारायणाय नमः नारायण्यै नमः,
ॐ सं हरये नमः हरि-प्रीत्यै नमः,
ॐ हं कृष्णाय नमः गान्धार्यै नमः,
ॐ क्षं परशुरामाय नमः काश्यप्यै नमः,

[[203]]

सर्वत्र (प्रणव–नमश् शब्दौ योज्यौ)

ॐ रङ्गाय+++(=ँ)+++ नमः
रामाय नमः
ॐ वैदेह्यै नमः,

ॐ यमाय+++(←पलिक्क्ँनीः चख्ख्ँनतुः जग्ग्ँमतुः, जघ्घ्ँनतुः)+++ नमः"
वेद-विदे नमः
वेद-विद्यायै नमः,

ॐ जिह्वामूलीयाय नमः
कल्किने नमः
ॐ पद्मिन्यै नमः,

ॐ उपध्मानीयाय नमः
पाताल-शयनाय नमः
नाग-शायिन्यै नमः

इति पूर्वोक्त-स्थानेषु न्यसेत्।