०२ भूत-शुद्धिः


[[197]]

प्राणायामाः

मूल-मन्त्रस्य कुम्भके अष्टा-विंशति-वारं जपः
पूरके तद्-अर्धं
रेचके चतुर्-विंशतिः -
एवं प्राणायाम-त्रयं कृत्वा

प्रथमे प्राणायामे दक्षिण-नासया तूष्णीं वायुं विसृज्य -
वाम-नासया वायुम् आपूर्य
कुम्भकं कृत्वा
रेचक-समये नाभि-देशस्थं भगवन्तं सुषुम्नया हृदयम् आगम्य
जीवस्य कल्मषं गृहीत्वा
तूष्णीं वायुं सह दक्षिण-नासया निर्गमय्य
द्वादशाङ्गुल्यन्त-स्थित–शत-दल-पद्मे स्थित्वा
जीवस्य कल्मषं क्षिपन्तं ध्यायेत्

द्वितीये प्राणायामे वाम-नासया तूष्णीं वायुं विसृज्य
दक्षिण-नासया वायुना सह भगवन्तं हृदये स्थापयित्वा
कुम्भकं कृत्वा
वाम-नासया वायुं विसृजेत्।

तृतीये प्राणायामे वाम-नासया वायुम् आपूर्य
कुम्भकं कृत्वा
दक्षिण-नासया रेचक-समये
वायुना सह भगवन्तं निर्गमय्य
द्वादशाङ्गुल्य्-अन्त-स्थित–शत-दल-पद्मे स्थापयेत्

पञ्चोपनिषदां संहार-न्यासः

अथ “लां नम” इत्य् आदिना
पाद–गुह्य–हृदय–नासाग्र–शिरस्सु
अधः क्रमेण पञ्चोपनिषदो न्यस्य -

तत्त्व-सङ्क्षयः

ॐ कं पृथ्व्यै नमः
ॐ चं गन्ध-तन्-मात्रात्मने नम

इति पादयोः -

खम् अद्भ्यो नमः
छं रस-तन्-मात्रात्मने नमः

इति गुह्ये -

गं तेजसे नमः
जं रूप-तन्-मात्रात्मने नमः

इति हृदये,

घं वायवे नमः
झं स्पर्श-तन्-मात्रात्मने नमः

इति मुखे।

मं ङं आकाशाय नमः
तं ञं शब्द-तन्-मात्रात्मने नम

इति शिरसि।

[[198]]

टं वायवे नमः
डं उपस्थाय नमः
ठं पादाभ्यां नमः
ढं पाणिभ्यां नमः
णं वाचे नमः

तं प्राणाय नमः
थं जिह्वायै नमः
दं चक्षुर्भ्यां नमः
धं त्वचे नमः
नं श्रोत्राभ्यां नमः

पं मनसे नमः
भम् अहङ्काराय नमः
बं बुद्ध्यै नमः
भं प्रकृत्यै नमः
मं जीवाय नमः
मं जीवेभ्यो नमः
मं देवेभ्यो नम

इति हृदये-

आत्म-स्नपनम्

मूल-मन्त्रेण भगवद्-दक्षिण-पादाङ्गुष्ठाधस्ताद् आत्मानं निवेश्य
तत्र-स्थेनाग्निना भगवत्-कैङ्कर्य-भोग्यताम् आपाद्य
मूलेन भगवद्-वाम-पादाङ्गुष्ठाधस्तान् निवेश्य
तस्माद् विनिस्सृतामृत-धारया ऽऽत्मानम् अभिषिच्य

शोषणम्

नाभि-देशे दक्षिणेन पाणिना
“ओं यं” इत्य् अष्टकृत्व उच्चार्य
“वायवे नम” इति मूल-मन्त्र-शिरस्कं विन्यस्य

मन्त्रोद्भूत–चण्ड-वायु-व्यापित–नाभि-देश-स्थ–वायुना
शरीरम् अन्तर् बहिश् च सर्वं तत्त्व-क्रमेण शोषयामि

दक्षिण-नासया वायुं विसृज्य
“ॐ यम्” इति षोडश-वारम् उच्चरन् वायुम् आपूर्य
द्वा-त्रिंशद्-वारं जपन् कुम्भकं कृत्वा
अष्ट-वारं जपन् रेचयेत्।

दाहनम्

हृदये “ओम्” इत्य् अष्टकृत्व उच्चार्य
“अग्नये नम” इति मूल-मन्त्र-शिरस्कं विन्यस्य

मन्त्रोद्भूत–चक्राग्नि–ज्वालोपबृंहित–जाठराग्निना
तत्-तत्-समष्टि-प्रलीन-सर्व-तत्त्व–सर्व-किल्बिष–
सर्व-ज्ञान–तद्-वासना–सहितं शरीरं दाहयामि

वाम-नासया वायुं विसृज्य
दक्षिण-नासया “ॐ रम्” इति षोडश-वारं जपन्
वायुम् आपूर्य
द्वा-त्रिंशद्-वारं कुम्भकं कृत्वा
अष्ट-वारं जपन् वाम-नासया रेचयेत्

देह-ज्वालां भगवति लीनां ध्यात्वा
भगवतो विनिस्सृतेन वायुना भस्मनि राजस-तामसांशाव् अपोह्य

अभिषेकः

शिरसि “ॐ वम्” इत्य् अष्ट-वारं जपन्
“अमृताय नम” इति मूल-मन्त्र-शिरस्कं विन्यस्य

भगवद्–वाम–पादाङ्गुष्ठ–नख–शीतांशु-मण्डल-निर्गलद्–
दिव्यामृत-धारया ऽभिषेचयामि,

[[199]]

दक्षिण-नासया वायुं विसृज्य
वाम-नासया “ॐ वम्” इति षोडश-वारं जपन्
वायुम् आपूर्य
द्वा-त्रिंशद्-वारं जपन् कुम्भकं कृत्वा
ऽष्ट-वारं जपन् दक्षिण-नासया रेचयेत्

सात्त्विक-पकृत्य्-आसनम्

भगवद्-वाम-पादाङ्गुष्ठ-नख–
शीतांशु-मण्डल-निर्गलद्–दिव्यामृत-धारया
तद्-भस्म-संप्लाव्यामृत-मयं तटाकं ध्यात्वा -

तत

“आधार-शक्त्यै नमः पद्माय नम”

इत्य् आधार-शक्तौ पद्मं,
तस्मिन् “वम् अमृताय नम” इति पिण्डी-भूतम् अमृतं ध्यात्वा
भगवद्-वाम-पादाङ्गुष्ठाधस्ताज् जीवात् सात्त्विकीं सूक्ष्मां प्रकृतिं विविच्य
तत्र प्रवेश्य ततो महद्-आदि-क्रमेण सावयवं देहम् उत्पादयेत्

तत्त्वेत्पत्तिः

शिरो-मध्ये, पुरः-प्रभृति चतुर्-दिक्षु

ॐ क्षं सत्यायै नमः
हं वासुदेवाय नमः
सं सङ्कर्षणाय नमः
षं प्रद्युम्नाय नमः
शम् अनिरुद्धाय नमः

हृदये ऊर्ध्व-भागम् आरभ्य अधः क्रमेण

वं राकायै नमः
लं मायायै नमः
रं नित्यायै नमः
यं क्रियायै नमः;

ललाटे ऊर्ध्व-भागम् आरभ्य

सं देवेभ्यो नमः
मं जीवेभ्यो नमः
मं जीवाय नमः
भं प्रकृत्यै नमः,

हृदये ऊर्ध्व-देशम् आरभ्य

बं बुद्ध्यै नमः
फम् अहङ्काराय नमः
पं मनसे नमः

इति विन्यस्य

नं श्रोत्राभ्यां नमः
धं त्वचे नमः
दं चक्षुर्भ्यां नमः
थं जिह्वायै नमः
तं घ्राणाभ्यां नमः

णं वाचे नमः
ढं पाणिभ्यां नमः
डं पादाभ्यां नमः
ठं उपस्थाय नमः
टं पायवे नमः

तं ञं शब्द-तन्-मात्रात्मने नम जं ङं आकाशाय नमः

शिरसि,

झं स्पर्श-तन्-मात्रात्मने नमः
घं वायवे नमः

मुखे,

जं रूप-तन्-मात्रात्मने नमः
गं तेजसे नमः

हृदये,

छं रस-तन्-मात्रात्मने नमः
खम् अद्भ्यो नमः

गुह्ये,

चं गन्ध-तन्-मात्रात्मने नमः
कं पृथ्व्यै नमः

पादयोः,

पञ्चोपनिषदां सृष्टि-न्यासः

ॐ षौं नमः पराय परमेष्ठ्य्-आत्मने वासु-देवाय नमः

शिरसि,

ॐ यां नमः पराय पुरुषात्मने सङ्कर्षणाय नमः

नासाग्रे,

रां नमः पराय विश्वात्मने प्रद्युम्नाय नमः

हृदये,

ॐ वां नमः पराय निवृत्त्य्-आत्मने अनिरुद्धाय नमः

गुह्ये,

लां नमः पराय सर्वात्मने नारायणाय नमः

पादयोः॥

[[200]]

आत्मनोः प्रवेशः

अथ पूर्ववच् छिरस्य् अमृत-बीजं+++(=वम्)+++ विन्यस्य
प्राणायामेन शरीर-विशिष्टात्मानम् अभिषेचयेत्

अथ मूल-मन्त्रेण परमात्मानं हृदये प्रवेश्य
ततः प्राण-प्रतिष्ठां कुर्यात्

प्राण-प्रतिष्ठा

अस्य प्राण-प्रतिष्ठा-मन्त्रस्य
ब्रह्म–विष्णु–महेश्वरा ऋषयः
ऋग्–यजुस्–सामाथर्वणानि छन्दांसि -
जगत्–सृष्टि-कारिणी–प्राण-प्रतिष्ठात्मिका–शक्तिर् नारायणी देवता;
आं बीजं
ह्रीं शक्तिः
क्रों कीलकं
प्राण-प्रतिष्ठार्थे विनियोगः ॥

ॐ अं कं खं गं घं ङं पृथव्य्-अप्-तेजो-वाय्व्-आकाशात्मने
आं हृदयाय नमः,

ॐ इं छं जं झं ञं
शब्द–स्पर्श–रूप–रस–गन्धात्मने नमः,
ईं शिरसे स्वाहा

ॐ उं टं ठं डं ढं णं
श्रोत्र–त्वक्–चक्षु–जिह्वा–घ्राणात्मने
ऊं शिखायै वषट्,

ॐ एं तं थं दं थं नं
वाक्–पाणि–पाद–पायूपस्थात्मने
ऐं कवचाय हुम्,

ॐ ॐ पं फं बं भं मं
मनो–बुद्द्य्–अहङ्कार–चित्तात्मने +++(←४ एव तत्त्वानि)+++
औं नेत्र-त्रयाय वौषट्,

ॐ अं यं रं लं वं शं षं सं हं लं क्षं
वचनादान-गमनाकुञ्चनानन्द-विसर्गात्मने अः अस्त्राय फट्।

आं ह्रीं क्रों ऐं क्लीं यरलवशषसहों,
हंसस् सोहम्
अमुष्य-प्राणा इह प्राणो
अमुष्य जीव इह स्थितः

अमुष्य सर्वेन्द्रियाणि
वाङ्–मनश्–
चक्षु–श्रोत्र–जिह्वा–घ्राण–(त्वग्)– वाक्–पाणि–पाद–पायूपस्थ–
असृङ्–मांस–मेदो–ऽस्थि–मज्जा–शुक्लानीह यान्तु
सुखं चिरं तिष्ठन्तु
सो ऽहं स्वाहा।

[[201]]

ध्यानं-

रक्ताम्भो-धि-स्थ-पाथो-लसद्–अरुण-सरो-जाऽधिरूढा-कराब्जैः
पाशं कोदण्डम् इक्षूद्भव-मणि-गुणम् अप्य् अङ्कुशं पञ्च-बाणान्।
बिभ्राणा ऽसृक्-कपालं त्रि-नयन-लसिता पीन-वक्षो-रुहाढ्या
देवी बालार्क-वर्णा भवतु सुख-करी प्राण-शक्तिः परा नः॥+++(4)+++

पूर्ववत् पुनर् अपि शिरस्य् अमृत-बीजं विन्यस्य
प्राणायामे स-शरीर-विशिष्टात्मानम् अभिषेचयेत्

आभरणास्त्र-कल्पनम्

“किरीटाय नमः” शिरसि,
“श्री-वत्साय नमः” दक्षिणोरसि,
“श्री-कौस्तुभाय नमः” उरो-मध्ये,
“वन-मालायै नमः” पार्श्वयोः,
“सुदर्शनाय हेति-राजाय नमः” दक्षिणे भुजे,
“पाञ्च-जन्याय शङ्खाधिपतये नमः” वाम-भुजे,
“कौमोदक्त्यै गदाधिपतये नमः” ललाटे,
“शार्ङाय चापाधिपतये नमः” शिरसि,
“नन्दकाय खड्गाधिपतये नमः” हृदये।

अथ पूर्ववद् ऊर्ध्व-पुण्ड्राणि धृत्वा अञ्जलिं कुर्यात्।