०१ सङ्कल्पः

ॐ कृतञ् च - इज्यया - करिष्यामि

देवस्य॥

ॐ भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति–प्रवृत्ति–स्व-शेष-भूतैक-रसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः करणैः स्वकीय-कल्याणतम-द्रव्यमयान् औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिप्रियतमान् आतिसमग्रान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादयितुम् उपक्रमत

इत्य् अनुसन्धायाथ भगवद्-आराधनं कुर्यात्।