स च शठकोपस् साक्षाद् भगवान् एव,
तथा ब्राह्मे पुराणे कुरुका-माहात्म्ये प्रथमे ऽध्याये
ब्रह्माणं प्रति श्री-भगवान् –
द्वितीये तु परार्धे तु
दिने त्व् आद्ये तु सप्तमे।
मन्वन्तरे वर्तमाने
आष्टाविंशे चतुर्-युगे॥
कलेर् आदौ जन्म-योगी
शठ-कोप इति श्रुतिः।
मद्-भक्तो ऽहं भविष्यामि
नेतुं द्राविडतां श्रुतिम्॥
ततः क्षेत्रे जन्म-भाजा
शठ-कोपेन योगिना।
मुक्तिं भुवि जनास् सर्वे
गमिष्यन्ति कलाव् अपि॥
ब्रह्माण्ड-पुराणे उत्तर-भागे अशीतितमे ऽध्याये
मार्कण्डेयार्जुन-तीर्थ-यात्रायां ताम्र-पर्णि-माहात्म्ये –
तस्मिन् क्षेत्रे महा-पुण्ये
विष्णोस् सान्निध्य-निर्मले।
क्रूरे कलि-युगे प्राप्ते
नास्तिके कलुषी-कृते॥
विष्णोर् अंशांश-सम्भूतो
वेद-वेदार्थ-तत्त्व-वित्।
स्तोत्रं वेद-मयं कर्तुं
तत्र द्राविड-भाषया॥
जनिष्यति सतां श्रेष्ठा
लोकानां हित-काम्यया।
न पुमान् सर्व-शास्त्र-ज्ञो
ह्य् अनन्तं वेदम् अव्ययम्॥
सर्वाधिकारं धर्मात्मा
कीर्तयिष्यति वै मुनिः।
क्रूरे कलि-युगे प्राप्ते
विष्णोः कीर्तनम् एव हि॥
कथितं सर्व-शास्त्रज्ञैर्
मुनिभिर् वेद-पारगैः।
तस्मात् स पुरुष-श्रेष्ठो
भक्तानाम् अ-मृतोपमम्॥
स्त्री-युगत्वाच् च विप्रेन्द्रा
विष्णुर् अ-व्यक्त-मूर्तिमान्।
कलेर् दोषाभितप्तानां
प्रजानां पालनाय वै॥
धारयिष्यति तद्-रूपं
कृपया पुरुषोत्तमः।
प्रयास्यति पुनस् सो ऽपि
सायुज्यं परमात्मनः॥
अध्येतव्यं द्विज-श्रेष्ठैर्
वेद-रूपम् इदं कृतम्।
स्त्रीभिश् शूद्रादिभिश् चैव
तेषां मुक्तिः करे स्थिता॥
इति।
[[223]]