१२ महा-भागवतार्चा

नारायण-संहितायाम् –

मद्-भक्तान् शठ-कोपादीन्
पूजयेद् वैष्णवोत्तमः।
मन्त्र-रत्न-विधानेन
उपचारैश् च सर्वशः॥
मत्-सान्निध्यं सदा तत्र
मम प्रीति-करं शुभम्।
मयि पूजाधिकं विद्धि
मत्-सायुज्यम् आवाप्नुयात्

विष्णु-तत्त्वे –

शठारि–पर-कालादि-
भक्तान् सम्पूजयेद् द्विजः।
वैष्णवांश् च विशेषेण
मन्त्र-रत्न-विधानतः॥

शाण्डील्य-संहितायाम् –

शठ-कोपादि-भक्तानां
पूजां कुर्याद् विशेषतः।
पुरुष-सूक्तेन मार्गेण
श्रीमद्-अष्टाक्षरेण वा॥
मन्त्र-द्वयेन वा कुर्यान्
मूर्ति-मन्त्रेण वा द्विजः॥

वराह-संहितायाम् –

मद्-भक्त–शठ-कोपादि-
भक्तानां पूजने सदा।
मम पूजा-शताधिक्यं
सर्वथा नात्र संशयः॥
सहस्र-वार्षिकी पूजा
विष्णोर् भगवतो हरेः।
सकृद्-भागवतार्चायाः
कोटि-भागेन नो समा॥

शठारि–पर-कालादि–
भक्तानान् तु विशेषतः।
मूर्ति-प्रतिकृतिं कुर्याल्
लोह-शैल-मृद्-आदिषु॥
तत्-तद्-वर्णाकृतिं कृत्वा
हस्त-मुद्रासनानि च।
पूर्वोक्तेन विधानेन
प्रतिष्ठा-प्रोक्षणादिकम्॥
कृत्वा सम्पूजयेन् नित्यं
त्रि-कालं वैष्णवोत्तमः॥

[[222]]

अत्र शठारि–पर-कालादि-भक्तानां
घण्टा-मूलादीनाञ् च प्रतिष्ठा
प्रोक्षणादिवत् कर्तव्यम्।+++(5)+++