११ यम-नियमाः, भागवतार्चा

शाण्डिल्यः –

न शब्दयन् पात्र-सङ्घम्
अम्बुना नार्द्रयन् महीम्।
नाहङ्कारं न जल्पं च
शुद्ध-मौनी भवेद् वशी
इज्या मध्ये तथा होमे
यागे च जप-कर्मणि।
आगतं पञ्च-काल-ज्ञं
सम्पूज्यैवार्चयेत् परम्॥