१० घण्टा

सङ्ग्रहे –

उद्घाटने कवाटस्य
प्रस्तुते पूजने तथा।
आवाहने ऽर्घ्ये स्नपने
पुष्पे धूपे च दित्सिते
नीराजने यवनिका-
समुद्धारे निवेदने
होमे भूत-बलौ कर्मण्य्
उद्वाहे चालनं मणेः॥
उत्सादनं पिशाचादेः
प्रीणनञ् च हरेः परम्।
सन्निधानम् अ-मर्त्यानां
घण्टायाश् चालने भवेत्॥

अ-संस्कृतायाश् चलने
ग्रामादेश् चलनं भवेत्।
निष्फला चापि पूजा स्यात्
परस्य परमात्मनः॥

असंस्कृता - अप्रतिष्ठिता,
वङ्गीश्वरः –

घण्टा-नाद-सनाथौ द्वौ
धूप-दीपौ निवेदयेत्
तन्-नाद-संयुताव् एतौ
दुष्ट-सत्त्व-निबर्हणौ
भगवत्-प्रीति-जनकौ
शृण्वतां पाप-नाशनौ

भट्टाचार्याः –

अर्घ्य-धूप-प्रदीपेषु
घण्टां भोज्ये निनादयेत्॥

[[221]]