०९ अर्घ्यादि-दान-स्थान-क्रमे

तत्रैव -

अर्घ्यं शिरसि विन्यस्य
पाद्यं पाद-तले न्यसेत्
हस्ते चाचमनञ् चैव
गन्धं कायानुलेपनम्॥
पुष्पं मूर्ध्नि तु विन्यस्य
भोज्यं हस्त-तले न्यसेत्
दीपन् तु नेत्रयोर् दद्याद्
धूपं नासान्तरे न्यसेत्
अन्यथा विपरीतश् चेत्
कुल-क्षय-करं भवेत्

दीपन् तु सात्त्विकं ज्ञेयं
तामसं धूपम् आसुरम्॥
दद्यान् मुमुक्षुर् धूपादि -
वर्धन्ते ?? ब्राह्मणा नृपाः।
स्वर्गे फले च धूपादि -
वर्धन्ते ?? वैश्य-शूद्रकाः॥

दीपं प्रथमतो दद्यात्
पश्चाद् धूपं समाचरेत्
वाम-नासा-पुटे धूपं
दीपम् अक्षिणि दक्षिणे॥

रत्नाकरे –

अर्घ्यम् आचमनञ् चैव
हविस् ताम्बूलम् एव च।
दक्षिणे देव-देवस्य
हस्ते दद्याद् विचक्षणः॥