…
अत्र श्री-पाञ्चरात्रे –
सिद्धार्थम् अक्षतं चैव
कुशाग्रं तिलम् एव च।
एला-गन्धं फलं पुष्पम्
अर्घ्य-द्रव्याणि निक्षिपेत्॥
पाद्ये दूर्वां विष्णु-पर्णीं
श्यामाकं पद्मम् एव च।
एला-लवङ्ग-तक्कोल-
जातीर् आचमनीयके॥
कोष्ठ-मौञ्जी-हरिद्रे द्वे
मुरा-शैलेय-चम्पकान्।
वचाखर्जूर-लामज्जान्
स्नानीये ह्य् औषधीः क्षिपेत्॥