०७ गृहार्चा-सम्प्रोक्षण-विधिः

चोदनम्

पराशर-संहितायाम् –

क्षत्रियादि-स्पर्शने च
विप्रार्चित-हरेस् सदा।
सम्प्रोक्षणं तदा कृत्वा
पश्चाद् विप्रस् तु पूजयेत्

शौनकीय-संहितायाम् –

पूर्व-स्थापित-बिम्बस्य
पुनः स्थापनं स्मृतम्।
स्थापने तु महान् दोषस्
तस्य सम्प्रोक्षणं स्मृतम्
अङ्ग-भङ्गादि-संस्थाने
प्रतिष्ठां पुनर् आचरेत्
जलाधिवास-रहितं
नेत्रोन्मीलन-वर्जितम्
खनने चाग्नि-दहने
चिर-लुप्तेपूजने
चण्डाल-सूतिकोदक्य्-आ+
शव-पातकि-दूषिते॥
विण्–मूत्र–श्लेष्म-संस्पर्शे
सम्प्रोक्ष्यैव समर्चयेत्।
अन्यथा निष्फला पूजा
महान् दोषश् च जायते
सम्प्रोक्षण-विधानस्य
काल-नियमः स्मृतः।
निमित्ते समनुप्राप्ते
सद्यः कृत्वा समर्चयेत्
पुण्य-र्क्ष–तिथि–वारेषु
पञ्चमे सप्तमे ऽह्नि वा॥

सङ्कल्पादि

स्व-सूत्रोक्त-विधिना अङ्कुरार्पणं कृत्वा
प्राणान् आयम्य
सङ्कल्प्य
ब्राह्मणैः पुण्याहं वाचयित्वा

बिम्ब-मार्जनम्

बिम्बम् “अश्व-क्रान्ते"ति मृद्भिर् अद्भिश् च विमृज्य
विष्णु-गायत्र्या सित-सूत्रं हरिद्रयोन्मृज्य
“इदं विष्णुर्” इति बद्ध्वा
मूलेन संस्पृश्य
पञ्च-गव्येन पञ्चामृतेन वा “देवो वस् सवितोत्पुनात्व्” इति स्नाप्य
गन्धाद्भिश् च प्रक्षाल्य

अतीत-दिन–पूजा-द्रव्याणि यथा-शक्ति श्रोत्रियाय दत्त्वा

आवाहनम्

अर्घ्य-पाद्याचमनीय-स्नानीयानि परिकल्प्य

विष्णु-गायत्रीम् उच्चार्य
पूर्ववत् सवितृ-मण्डलाद् भगवन्तम् आवाह्य
“गन्ध-द्वारां॥ महीं देवीम्” इति श्रियं भुवं चावाह्य

[[196]]

आसनादि-सर्व-भोगैर् अभ्यर्च्य
[[??]] अर्घ्यादि परिकल्प्य

कुम्भाः

अग्रतो धान्य-राशौ द्वादश-कलशान् विन्यस्य - इन्द्रादीशान्तम् अष्टौ,
मध्ये आग्नेयादिषु चतुरः

इन्द्रादिषु पयो दधि घृतं मधु उष्णाम्भो नारिकेलाम्भः गन्धाम्भः पुष्पाम्भः
आग्नेयादिषु फलाम्भः हेमाम्भः रत्नाम्भः तीर्थाम्भः इति तत्-तन्-मन्त्रेण सम्भृत्य

तेषु गन्ध–पुष्प–कुश–कूर्चादिकं निक्षिप्य
मूल-मन्त्रेण मन्त्र-रन्त्नेन चाभिमन्त्र्य

अभिषेकः

“विष्णोर्नुकम्” इति द्वादश-मन्त्रैः
क्षीरादिभिर् देवम् अभिषिञ्चेत् - “विष्णोर् नुकम्-” “इदं विष्णुः-” “तद्विष्णोः-” “त्रिर्देवः-”
“विचक्रमे-” “तद्विप्रासः-” “प्रतद्विष्णुः-” “अतो देवाः-”
“तदस्य प्रियं-” “उरुक्रमस्य-” “त्रीणिपदा-” +++(१२-तमः कः??)+++ एतैर् मन्त्रैः;

ततो हरीद्रा-चूर्णैः श्री-सूक्तेनाभिलिप्य
नारिकेलोदकैश् शुद्धाद्भिश् चाभिषिच्य

महा-कुम्भं पश्चिमे प्रतिष्ठाप्य
ब्राह्मणैस् सह
“आपोहिष्ठा-” “हिरण्य-वर्णाः-” “पवमानः-” “तच्छंयोर् आ-” “देवस्य त्वा-” इत्य् एतैः महा-नाम्नीभिश्[[??]] च
तं कुम्भं संस्पृश्याभिमन्त्र्य
तत् समुद्धृत्य
देवं पुं-सूक्त–श्री-सूक्त–विष्णु-सूक्त–विष्णु-गायत्र्य्-आदिभिर् अभिषिञ्चेत्

उपचारः

ततो वस्त्रम् अर्घ्यं भूषणम् उपवीतं ऊर्ध्व-पुण्ड्रम् आचमनं गन्धं पुष्पं
धूपं दीपम् आचमनं मधु-पर्कं च प्रदाय
महा-हविः परमान्नादिकञ् च निवेद्य
ताम्बूलं दत्त्वा

होमः

देवस्य पश्चिमे भागे स्व-गृह्योक्त-प्रकारेण कर्तुर् औपासनाग्निं प्रतिष्ठाप्य
मुखान्तं वैष्णवाग्निञ् च कृत्वा
पुं-सूक्तेन प्रत्य्-ऋचं हुत्वा
मूलेन मन्त्र-रत्नेन मूर्ति-मन्त्रेण च शतं शतं प्रत्य्-एकं
श्री-भू-सूक्ताभ्यां प्रत्यृचं
ततो जयादि-परिषेचनान्तं कृत्वा

समाप्तिः

विष्वक्सेनं प्रपूज्य गुरून् अभ्यर्चयेत्।
ततो ब्राह्मणान् भोजयित्वा
आचार्यं वस्त्र-भूषणादिभिर् अभ्यर्च्य
यथा-पूर्वं समर्चयेत्।