वसिष्ठः –
चक्र-चिह्न-विहीनेन
स्थापिते तत्र विग्रहे।
न सान्निध्यं हरिर् याति
क्रिया–कोटि-शतैर् अपि॥
पराशर-संहितायाम् –
गृहार्चन-विधौ विष्णुं
प्रतिष्ठाप्य समर्चयेत्।
भोग–कैवल्य-सिद्ध्यर्थं
स्व-कुलोद्धारणाय च॥अ-प्रतिष्ठित-बिम्बस्य
पूजनं सिद्धि-हानि-कृत्।
बिम्बं मन्त्र-मयं कृत्वा
तस्मिन् देवं समर्चयेत्॥उत्तरायणकाले तु
शुक्ल-पक्षे विधीयते।
स्थापनं देव-देवस्य
स्व-गृहालययोर् अपि॥पुण्य-र्क्ष–तिथि–वारेषु
पुण्य-लग्ने सु-शोभने।
संवृत्तौ सर्व-भोगानां
प्रतिष्ठोत्सवम् आचरेत्॥
श्रोत्रियैर् भगवद्-भक्तैश्
चतुर्भिर् ब्राह्मणैस् सह॥
श्रोत्रियो विष्णु-भक्तश् च
ग्रहस्थश् शास्त्र-वित्तमः॥
चक्र–लिङ्ग-धरो विप्रः
प्रतिष्ठां कर्तुम् अर्हति।तेन प्रतिष्ठितस् तत्र
सन्निधत्ते सदा हरिः॥
देवतान्तर-भक्तो वा
सम-दृष्टिर् अथापि वा।
नास्तिको वेद-हीनो वा
न प्रतिष्ठां समाचरेत्॥
[[190]]
प्रतिष्ठा-दिवसात् पूर्वं
पञ्चमे सप्तमे ऽह्नि वा
ब्राह्मणैस् सह [[??]] त्रोक्त-विधानेन
[[??]] सुलक्षणां मनः [[??]] प्रतिमां
मृत्-तोयैः [[??]] इत्य् आद्यैः [[??]] प्रक्षाल्य॥
नम [[??]] नारायण [[??]] ॥ इति [[??]] प्रार्थ्य [[??]] निवेश्य
पुण्याहं वाचयित्वा
[[??]] त्रोक्त-विधिना प्रति[[??]] बद्ध्वा,
सर्वस्य यद् यत् कृतं देवस्य [[??]]
तत् तद् देव्यो [[??]]रेत्।
ततः [[??]] सपत्नीकं कुशान्तरे शाययित्वा[[??]]
पृथिव्यादीनि परमात्मनि संहृत्य
[[??]] इति पलाशोदुम्बर-शाखा कुश [[??]] सर्वतः परिवीय
स्वस्ति-सूक्तम् उदीरयन्
तीर्थ-देशं[[??]] गत्वा
धान्य-सञ्चयोपरि-स्थिते कटाहादौ नद्यादौ वा पुण्यतीर्थे [[??]] समन्विते
क्षीरार्णवं ध्यात्वा
तन्-मध्ये ऽनन्तम् अर्चयित्वा
तस्मिन् विष्णु-गायत्र्या ऽवतार्य
प्रतिष्ठा ऽसि प्रतिष्ठावन्तो भूयास्म
- शिवानश्शन्तम[[??]] [[TODO: परिष्कार्यम्]]
इति च प्राक्-शिरसं शाययित्वा
रक्षार्थं प्रागादिषु चण्डादीन् कुमुदादींश् च विन्यस्य
अनिर्वाण[[??]]दीपं ध्यात्वा
प्रभात-समये ब्राह्मणैस् सह तीर्थ-देशं गत्वा
“उत्तिष्ठ-ब्रह्मणस्पते” इत्य् उत्थाप्य
“भद्रं कर्णेभिर्” इति पूर्ववच् छाययित्वा
कर-कङ्कणम् उत्सृज्य
ततो नेत्रोन्मीलनं कुर्यात्।
प्रक्षालितां सकुशां घृतेनाक्तां हिरण्मयीं शलाकाम् आदाय
“चित्रं देवानाम्” इति दक्षिणाक्ष्य् उन्मील्य
ततः पूर्ववत् कृतां शलाकाम्[??] आदाय
“तच्चक्षु"रिति वामाक्ष्य्-उन्मील्य
तच्चक्षुषी घृतेनाक्त्वा
“वयस्सुवर्णाः॥ उद्वयं तदुसस्परी"ति द्वाभ्यां विमृज्य
ततो “विश्वतश् चक्षु"रित्य् उत्थाप्य
“विष्णो रराटम् असी"ति पीठे प्राङ्मुखं देवं निवेश्य
स्व-देवात् तत्त्व-सृष्टिं विचिन्त्य
मधु–घृत–दर्पण–धान्यादीनि मङ्गल-द्रव्याणि प्रदर्श्य
“आपोहिष्ठा॥ हिरण्यवर्णाः॥ पवमानस् सुवजर्जन”
इत्येतैर् अभिषिच्य
अर्घ्यादि-दीपान्तम् अर्चयित्वा
तत आवाहयेत्।
[[191]]
आवाहनम्
तत्-क्रमः –
उद्धरण्या ऽर्घ्य-जलम् आदाय
तत्र पुष्प-द्वयं निधाय
प्राङ्मुखस् तिष्ठन्
विष्णु-गायत्रीम् उच्चार्य
ना॒रा॒य॒णाय॑ वि॒द्महे॑
वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया॑त् ॥
+++(लक्षणापेता आरण्यकस्वराः।)+++
स्वाञ्जलिस्थे ऽम्बु-पात्रे
“ॐ भूः” इत्य् अन्ते मूर्ति-मन्त्रं सम्बुध्योक्त्वा
पुरुष आगच्छ,
ॐ भूः
ॐ भुवः॒
ॐ सुवः॒
ॐ भूर् भुव॒स् सुवः॑
पुरुष॒ आग॑च्छ
इति सवितृ-मण्डलाद् आवाह्य
भगवन्-मुखे दर्शयित्वा
एकं पुष्पम् आदाय
देव–मूर्ध्नि निधाय
मूर्ति-मन्त्रं बिम्बे प्रविष्टं ध्यात्वा
तत् तोयं पुष्पेण सह देव-मूर्ध्नि अभिषेचयेत्।
ततः कर-न्यासं विना
देव-गात्रेषु मूल-मन्त्राक्षराणि न्यस्य
मूर्धादि-पाद-पर्यन्तं मूलेन संस्पृश्य
सान्निध्यं प्रार्थयेत्।
तत्-पाद-गौ स्व-करौ कृत्वा
सान्निध्यं कुरु देवेश
सर्व-सम्पत्-करो मम।
लक्ष्म्या सह जगद्-धात्र्या
धरण्या च समृद्धया॥
सान्निध्यं कुरु देवेश
सर्वदा सर्व-कामद।
द्रव्य-मन्त्र-क्रिया-भक्ति-
श्रद्धा-हानीस् सह प्रभो॥
इति प्रार्थ्य
अर्घ्यादि-दीपान्तम् अभिपूज्य;
[[192]]
अथ देवस्य दक्षिण-वक्षसि श्रियं
वाम-वक्षसि भुवञ् च
पूर्ववत् तत्-तन्-मन्त्रेणावाह्य,
षड्-अङ्ग-न्यासार्घ्यादि-दीपान्तम् अभ्यर्च्य
“विष्णोरराटमसी"ति देवाय पीठं दत्त्वा;
“आपोहिष्ठे”ति तिसृभिर् अर्घ्यं मूर्ध्नि
“आपः पादे”ति पाद्यं
“शंनोदेवी"र् इत्य् आचमनीयञ् च दत्त्वा
स्नानम्
कलश-स्थापनम्
अग्रतो व्रीहीन् परिस्तीर्य
तद्-उपरि तद्-अर्धं तण्डुलान्
तद्-उपरि तद्-अर्धं तिलांश् च;
ततस् सप्त-दश-कलशान् सूत्र-वेष्टितान् स-कूर्चान् स-फल–पल्लवान् वक्ष्यमाण-क्रमेण स्थापयित्वा;
तत्र स्थापने ऽयं क्रमः -
तिल-मध्ये अष्ट-दलं पद्मं विलिख्य
तत्-कर्णिकायाम् एकं, प्राग्-आदि-दलेष्व् अष्टाव् इति नव [[??]]
तद् बहिश् च इन्द्रादि-सोम-पर्यन्तं [[??]]
ईशान-पर्यन्तं चतुरश् चेत्य् एवं
क्रमेण अष्टौ कलशान् स्थापयित्वा,
अनन्तरं कर्णिकादिस्थेषु सप्त-दशसु कलशेषु
घृतादिकञ् च क्रमेण मूल-मन्त्रेण विन्यसेत्।
तत्रायं क्रमः -
कर्णिका-स्थे घृतं,
प्राग्-आदि-दलस्थेषु कलशेषु
उष्णोदकम् पूर्वे
रत्नोदकम् आग्नेये
फलोदकं याम्ये
लोहोदकं नैर्ऋते
मार्जनोदकं वारुण्यां
गन्धोदकं वायव्याम्
अक्षतोदकं सौम्ये
यवोदकम् ईशान्य
इति क्रमेण विन्यस्य -
पात्र-सादनम्
अथ तद्-बहिर् इन्द्रादि-स्थेषु
पाद्यम् इन्द्रे
अर्घ्यं दक्षिणे
आचामं पश्चिमे
पञ्च-गव्यं सौम्य
इति क्रमेण विन्यस्य -
अथ आग्नेयादि-कोणस्थेषु
आग्नेये दधि
नैर्ऋत्यां क्षीरं
वायव्यां मधु
ईशाने कषायम्
इति क्रमेण विन्यसेत्।
अथ सर्वत्र कलशेषु
हरिद्रा-चूर्णं तुलसी-दलञ् च मूल-मन्त्रेण विन्यस्य,
अथ मूल-मन्त्रेण मन्त्र-रत्नेन+++(=द्वयम्)+++ चाभिमन्त्र्य
गन्धादिभिर् अभ्यर्च्य
वक्ष्यमाण-क्रमेण वक्ष्यमाणैर् मन्त्रैर् मूर्ध्न्य् अभिषेचयेत्।
अभिषेकः
तत्राभिषेकार्थम् उद्धारणे ऽयं क्रमः
पाद्यम् अर्घ्यं तथा ऽऽचामं
पञ्च-गव्यं घृतं दधि।
तथा क्षीरं मधु चैव
कषायोष्णोदकं तथा॥
फलञ् च मार्जनञ् चैव
अक्षतोदकम् एव च।
रत्न-लोहञ् च गन्धञ् च
यव-तोयं तथैव च॥
उद्धारण-क्रमं चैवं
कृत्वा मूर्ध्न्य् अभिषेचयेत्॥
[[193]]
कलशाभावे स्नानार्थं कल्पितेन ह्य् उदकेन वा
ऋचा प्रथमया पाद्यं
द्वितीयया ऽर्घ्यं
तृतीयया ऽऽचामं
चतुर्थ्या पञ्च-गव्यं
पञ्चम्या घृतं
षष्ठ्या दधि
सप्तम्या क्षीरम्
अष्टम्या मधु
नवम्या कषायाम्भः
दशम्या उष्णोदकं
एकादश्या फलाम्भः
द्वादश्या पुष्प-तोयं
त्रयोदश्या हेम-तोयं
चतुर्दश्या रत्न-तोयं
पञ्च-दश्या लोह-तोयं
षोडश्या गन्ध-तोयम्
इति क्रमेण पुं-सूक्त–ऋग्भिर् अभिषिच्य
“इदं विष्णुर्” इति यवोदकेनाभिषेचयेत्।
अनन्तरं नारिकेलोदकेन शुद्धोदकेन च स्नापयित्वा
दीपान्तम् अभिपूज्य
कलशानां पश्चिमे पूर्ववत्-तण्डुल–तिलोपरि
सूत्र-वेष्टितम् अश्वत्थ-पल्लव–नारिकेल–फल–कूर्च–सौवर्ण-प्रतिमादि-युक्तं शुद्धोदक-पूर्णं महा-कुम्भं प्रतिष्ठाप्य
“शन्न” इत्य् अनुवाकेन
“पवमानस् सुवर्जन” इत्य् अनुवाकेन चाभिमन्त्र्य
ब्राह्मणैस् सह पुं-सूक्तेन विष्णु-गायत्र्या श्री-सूक्तेन च
तेनोदकेन स-लक्ष्मीकं देवम् अभिषिच्य
अलङ्कारादि
अर्घ्यादि परिकल्प्य
वस्त्राभरणादिभिर् अलङ्कृत्य
नैवेद्यं ताम्बूलञ् च समर्प्य
मूलेन “विष्णोर्नुकम्” इत्य् एतेन च स्वास्तीर्णे देवं शाययित्वा
अग्नि-क्रिया
देवस्य पश्चिमे भागे कर्तुर् औपासनाग्निं
स्व-सूत्रोक्त-प्रकारेण प्रतिष्ठाप्य
अग्नि-मुखान्तं कृत्वा
वैष्णवाग्निः
तत आधार-शक्त्यादि-पाद-पीठान्तं कल्पयित्वा
अनन्तरं वैष्णवाग्निं कुर्यात्।
[[194]]
तत्-प्रकारस् तु
वैष्णवाग्नेस् तु कर्तव्यं
गर्भादानादिकं क्रमात्।
अग्नौ च कल्पयेद् देवं
योग-पीठादिकं क्रमात्॥वह्नि-मध्ये महा-लक्ष्मीं
सर्वाभरण-भूषिताम्।
सर्वावयव-सम्पूर्णां
ऋतु-स्नातां विचिन्तयेत्॥देवं नारायणं ध्यात्वा
सर्व-लक्षण-लक्षितम्। चतुर्-बाहुं विशालाक्षं
कोमलं पीत-वाससम्॥
शङ्ख–चक्र–गदा–पद्मैश्
चतुर्भिः कृत-लक्षणम्।
पाणि–पाद–तलाम्भोजं
श्री-वत्साङ्कित-वक्षसम्॥
काल-मेघ-निभं शान्तं
चन्द्र-बिम्ब-निभाननम्।
हार–केयूर–वलयं
किरिटेनोपशोभितम्॥एवं ध्यात्वा समभ्यर्च्य
कुण्ड-मध्ये विशेषतः।
ग्राम्य-धर्म-प्रकारेण
चिन्तयेद् देशिकोत्तमः॥ततो ऽग्निं जनयेत् तत्र
अग्नि-बीजेन साधकः।
कुशेन प्रोक्षयेद् अग्निं
कुण्ड-मध्ये तु विष्टरे॥गर्भाधानं पुं-सवनं
सीमन्तोन्नयनं तथा।
जातकं नाम-करणम्
अन्न-प्राशनम् एव च॥
चौलं तथोपनयनं
होतारं शुक्रियं तथा।
वेद-व्रतञ् च गो-दान–
समावर्तन–विवाहकम्॥
एभिश् षोडश-संस्कारैर्
वैष्णवाग्निञ् च कारयेत्।अकारदि-क्षकारान्तं
विष्णु-मन्त्रेण देशिकः॥
त्रीणि त्रीणि च होतव्यं +++(=??-)+++
गर्भाधानादिकान् क्रमात्॥
ओं गर्भाधानं सम्पादयामि,
ओम् अकाराय विष्णवे स्वाहा,
विष्णव इदं न मम
इति होम-प्रकारः।
विस्तारः (द्रष्टुं नोद्यम्)
अकारदि-क्षकारान्तं = २५ वर्गीय-व्यञ्जनानि, यकारादयो ९ (यरलवशषसहक्ष), १६ स्वरादयः (अइउऋऌ*२ एओऐऔअंअः) = ५०
किन्तु, प्रति-संस्कारं ३ इति मानेन १६ संस्काराणां ४८ एव वर्णास् स्युः। कथं सामञ्जस्यं सम्पादनीयम्?
प्रधान-होमः
एवं वैष्णवाग्निं कृत्वा
मूल-मन्त्रेण मन्त्र-रत्नेन च शतं शतम् आज्याहुतीर् हुत्वा
उत्थापनादि
“उत्तिष्ठ ब्रह्मणस्पत” इत्य् उत्थाप्य
परमान्नं+++(=??)+++ निवेद्य
संस्कृते स्थण्डिले आढकं व्रीहीन्
तद्-उपरि तद्-अर्ध-तण्डुलान्
तद्-उपरि तद्-अर्ध-तिलान्
इति क्रमेण निक्षेप्य
तद्-उपरि रत्न–कम्बलं व्याघ्र–चर्म-दुकूलं कृष्णाजिनं कुशा इत्य् उत्तरोत्तरम् आस्तीर्य
तद्-उपरि “भद्रं कर्णेभिर्” इति देवं स-लक्ष्मीकम् अधो-मुखं प्राक्-शिरसं शाययित्वा -
पुनर्-होमः
अथ पुनर् मूल-मन्त्रेण शतं
पुं-सूक्तेन षोडशाहुतीर्
मूर्ति-मन्त्रेण च शतम् आज्याहुतीर् हुत्वा
“ब्रह्म-जज्ञानम्” इत्य् अश्वत्थ-समिधो घृताक्ता षट्-त्रिंशत्
विष्णु-गायत्र्या तावतीर् आज्याहुतीः
पुं-सूक्तेन चरुं षोडशाहुतीर् हुत्वा
उत्तराङ्गादि
जयादि-परिषेचनान्तं कृत्वा देवम् उत्थाप्य
महा-हविर् र्निवेद्य
ताम्बूलं दत्त्वा
ब्राह्मणान् भोजयेत्।
तत आचार्यं वस्त्र-भूषणादिभिर् अभ्यर्च्य
यावज् +जीवं यथा-शक्ति त्रि-कालम् एक-कालं वा समर्चयेत्।
इति गृहार्चन प्रतिष्ठा-विधिः।
[[195]]