०५ अर्चा-विग्रहः

गृहार्चाया मानं द्रव्यं च

पाद्मे क्रिया-पादे त्रिंशे ऽध्याये –

मात्राङ्गुलि-वशेनैव
गृहार्चा-मान-कल्पनम्
नाधिकं हस्त-मानाच् च
न न्यूनं द्वादशाङ्गुलात्॥
कौतुकं भवने ऽभ्यर्चं
शिला-दार्वादिजं ध्रुवम्॥
अङ्गुलैः प्रतिमा-मान-
वर्णनं (पा॥ अङ्गुलैः प्रतिमा-मानं वर्णानाम्) तूच्यते क्रमात्॥
हस्त-मान-मिता ऽर्चा स्याद्
भवने पूर्व-जन्मनः।
अङ्गुलैर् एक-विंशत्या
प्रतिमा वसुधा-पते॥
विशाम् एकोन-विंशत्या
द्वाभ्यां शूद्रस्य हीनया

अर्ध-चित्रं तद्-आभासं
भवने भुक्ति-वर्धनम्

द्वादशाङ्गुल-मानार्चा
लोहजा पूर्व-जन्मनः।
नवाङ्गुला क्षत्रियस्य
विशस् सप्ताङ्गुला मता॥
पञ्चाङ्गुला चतुर्थस्य
प्रतिमा भवने भवेत्

प्रतिमा यन्मयी कॢप्ता
प्रभा-पीठादि-तन्-मयम्।
यद् वा सौवर्ण-बिम्बस्य
राजतं ताम्रम् एव वा॥
लोहेन चेद् उत्तमेन
प्रतिमा निर्मिता भवेत्।
तद् अनन्तर-लोहेन
प्रभा-पीठादि कल्पयेत्
त्रि-लोह-जायाम् अर्चायां
सुवर्णं वा प्रभादिकम्।
रत्न–स्फटिक–जातानां
प्रतिमानां प्रभादिकम्॥
लोह-जं स्मर्यते ब्रह्मन्
रहस्यम् इदम् ईरितम्।

गृहे संहार-शयनौ
नार्चयेत् तु कदाचन॥
भगवन्-मूर्तयस् त्व् अन्यास्
सर्वाः पूज्या यथा-तथम्।

श्री–भूमि-सहितं देवं
श्रिया केवलया ऽपि वा।
सहितं पूजयोद् भुक्ति–
मुक्ति-कामो निकेतने॥

शाण्डिल्यः –

कुटुम्बी वर्जयेन् नित्यं
दार्वं शैलञ् च मृण्मयम्।
गृहेषु भक्ति-संस्थं च
योग–निद्रा-रसोत्सुकम्॥

[[187]]

अत्र दारु-विग्रह-निषेधो निष्काम-विषयः, सकामस्य तु नास्ति।
तथा पाद्मे गृहार्चन-प्रतिष्ठाध्याये –

द्रुम-जाति प्रतिकृतिस्
सभाज्या कामनावशात्।
प्रतिमा चन्दनमयी
भुक्ति–मुक्ति-प्रदा शुभा॥

इत्यादिभिस् तत्-तद्-दारु-विशेषेण तत्-तत्-फल-विशेषस्योक्तत्वात्।

श्री-साहित्यम्

श्री-पाञ्चरात्रे –

श्री-भूभ्यां सहितं देवं
श्रिया केवलया ऽपि वा।
गृहस्थः पूजयेन् नित्यम्
इतरस् तु यथा-रुचि॥

नारदीये –

गृही च गृहिणी चैव
स-लक्ष्मीकं हरिं यजेत्
अन्यथा दोषम् आप्नोति
वसुदेव-सुतं विना॥+++(5)+++
कृष्ण-मूर्तौ स-लक्ष्मीक
नियमो नास्ति भूपते।
लक्ष्म्या युक्तो ऽप्य् अ-युक्तो वा
कृष्णः पूज्यो न संशयः॥

प्रतिमाभावे

श्री-पराशरः –

अलाभे प्रतिमायास् तु
शुचौ देशे मनोरमे।
स्थण्डिले पुरुषं ध्यात्वा
सम्पूज्य मनसैव तु॥
जपेद् वै मन्त्र-रत्नञ् च
ध्यायन् सर्व-गतं हरिम्॥

सालग्रामादि

पाद्मे –

सर्वास् स्वायम्भुवा ज्ञेयाश्
शिलाश् चक्र-सरिद्-भवाः।
नित्यं सन्निधिर् एतासु
परस्य परमात्मनः॥
न प्रतिष्ठा विधातव्या
नैव चावाहनादिकम्।
साल-ग्राम–शिला यत्र
पूज्यते भगवन्-मयैः।
तद्-देशे योजनाद् अर्वाङ्
मृतो निर्वाणम् अश्नुते
द्वारवत्याश् शिलाश् चापि
साल-ग्राम–शिला-समाः॥

हारीतः –

न जपो नाधिवासश् च
न च संस्थापन-क्रिया।
साल-ग्रामार्चने विष्णुस्
तस्मिन् सन्निहितो हरिः॥
मूर्तीनां तु हरेस् तस्य
यस्यां प्रीतिर् अनुत्तमा।
तस्याम् एव तु तां ध्यात्वा
पूजयेत् तद्-विधानतः॥
मूर्त्य्-अन्तरं तु बिम्बे तु
न यष्टव्यं तथैव तत्।
साल-ग्राम–शिलायां तु
यष्टव्यास् सर्वमूर्तयः॥

रत्नाकरे –

साल-ग्राम-शिला यत्र
यत्र द्वारवती शिला।
उभयोस् सङ्गमो यत्र
तत्र मुक्तिर् न संशयः॥

[[188]]

भरद्वाज-संहितायाम् –

विष्ण्व्-अर्चा-रहिते ग्रामे
विष्ण्व्-अर्चा-रहिते गृहे।
कुर्याद् अन्न-पानादि
तत्र दिवसं वसेत्

व्यासः –

स्वर्णादि-संभवा रम्या
प्रतिमा लक्षणान्विता।
साल-ग्राम–शीला चापि
भुक्ति–मुक्ति–फल-प्रदा॥
उत्तरा यतिभिः पूज्या
अपरा ऽपीतरैर् जनैः॥

प्रशस्तिः

सङ्ग्रहे –

अर्चा-विष्णोर् उपादानं
वैष्णवोत्पत्ति-चिन्तनम्।
मातृ–योनि–परीक्षायास्
तुल्यम् आहुर् मनीषिणः॥+++(5)+++

अर्च्ये विष्णौ शिला-धीर्, गुरुषु नर-मतिर्, वैष्णवे जाति-बुद्धिर्,
विष्णोर् वा वैष्णवानां कलि-मल-मथने पाद-तीर्थे ऽम्बु-बुद्धिः।
शुद्धे तन्-नाम्नि मन्त्रे सकल-कलुष-हे शब्द-सामान्य-बुद्धिर्
विष्णौ सर्वेश्वरेशे तद्-इतर-सम-धीर् यस्य वा नारकी सः॥

शाण्डिल्यः –

व्यक्तम् आयतनं वा ऽपि
प्रथमं यत् समाश्रितम्
आ देहपातात् तद् +हित्वा
नान्य-बिम्बं समाश्रयेत्

शौनकः –

सु-रूपां प्रतिमां विष्णोः
प्रसन्न-वदनेक्षणाम्।
कृत्वा ऽऽत्मनः प्रीतिकरीं
सुवर्ण–रजतादिभिः॥
ताम् अर्चयेत् तां प्रणमेत्
तां जपेत् तां विचिन्तयेत्।
विशत्य् अपास्त-दोषस् तु
ताम् एव ब्रह्म-रूपिणीम्॥

आवाहन-कार्यता

प्रतिमा-स्थानेषु प्रत्यहम् आवाहनम् उद्वासनञ् च
अर्घ्याद्य्-उपचारवत् कर्तव्यम् एव।
भृगुः –

प्रातर् आवाहयेद् देवीं
त्रिषु कालेषु चार्चनम्
आचरेद् अन्त्य-वेलायाम्
उद्वासनम् इति स्थितिः॥

रत्नाकरे –

प्रतिमा-स्थानेष्व् अप्स्व् अग्नाव्
आवाहन–विसर्जन–वर्जं सर्वं समानम् इत्य् आह,
तत्र नित्यं सन्निहितत्वाद् आवाहनोद्वासन-वर्जम् इत्य् उक्तम्।

पाद्यादिवद्-उपचाराभिप्राये न विरोधः। तथा श्री-विष्णु-रहस्ये –

लोह–दार्वादि जनिता
प्रतिमा यत्र पूज्यते
तत्राह्वानं विसर्गञ् च
अर्घ्य-पाद्योपचारवत्॥
कर्तव्यं प्रत्यहं ब्रह्मन्
नात्र कार्या विचारणा॥

[[189]]

अत्र यतीन्द्र-देशिकः –

परम-व्योम–वैकुण्ठाद्
देवम् आवाहयेत् ततः।
लक्ष्म्यादि-देविश् चक्रादि-
हेतीर् भूषाञ् च सर्वतः॥

अनेनैवाभिप्रायेण श्री-भाष्य-कारैर् अप्य् उक्तं स्व-नित्ये -
“कल्पिते नाग-भोगे समासीनम्” इत्य् आरभ्य
“यावद् आराधन-परिसमाप्ति-सान्निध्य-याचनं कुर्यात्”
इत्य् अन्तम् उक्त्वा ऽनन्तरं

“अन्यत्र स्वाभिमते पूजा चेद्
एवम् आवाहनम्।

तथा तद्-व्याख्यातृभिश् च,

अन्यत्राभिमत इति - बिम्ब इत्य् अर्थः -

“मन्त्र-योगो नाम” इत्य् आरभ्य आवाहनं प्रतिपाद्यान्ते च

ॐ भगवन्-मन्त्र-मूर्ते स्व-पदम् आसादय क्षमस्व नमो नम

इत्य् उद्वासनञ् च प्रतिपादितम्।
एवम् अन्यैर् अपि वङ्गीश-वरदाचार्यादिभिः स्व-स्व-नित्ये
भगवद्-आवाहनम् उक्तम्।
अतः अर्घ्याद्य्-उपचारवत् प्रत्यहम् आवाहनम् उद्वासनञ् च प्रतिमासु कर्तव्यम्।