…
इदम् आराधनम् अष्टाङ्गं भवति,
तत्-स्व-रूपन् तु श्री-पाञ्चरात्र-रक्षायां नारदः –
श्रुतो मया ऽखिलं पूर्वं
भगवद्-याग उत्तरः।
तस्याङ्गानि विभागेन
ज्ञातुम् इच्छाम्य् अहंं पुनः॥
श्री-भगवान् उवाच –
[[184]]
अन्तः-करण-यागादि
यावद् आत्म-निवेदनम्।
तद्-आद्यम् अङ्गं यागस्य
नाम्ना ऽभिगमनं भवेत्॥पूजनञ् चार्घ्य-पुष्पाद्यैर्
भोगैर् यद् अखिलं मुने।
बाह्योपचारैस् तद् विद्धि
भोग-संज्ञं तु नारद॥मध्व्-आज्याक्तेन दध्ना वै
पूजा च पशुनापि वा।
तत् तृतीयं हि यागाङ्गं
तुर्यम् अन्नेन पूजनम्॥निवेदितस्य यद् दानं
पूर्वोक्त-विधिना मुने।
सम्प्रदानन् तु तन्नाम
यागाङ्गं पञ्चमं स्मृतम्॥वह्नि-सन्तर्पणं षष्ठं
पितृ-यागन् तु सप्तमम्।
प्राणाग्नि-हवनं नाम
त्व् अनुयागं तद् अष्टमम्॥इत्येतत् कथितं सम्यग्
यत् त्वया परिचोदितम्।
प्रदद्याद् अचिराद् यद् वै
तन्-निष्ठानां परं पदम्॥
इति।
अचिराद् इत्य्-अनेनास्य कर्मणः कर्मान्तरेभ्यः स्वभावतः प्राशस्त्यम् उच्यते।