०३ स्थानम्

६ स्थानानि

श्री-पराशर-धर्म-शास्त्रे उत्तर-खण्डे सप्तदशे ऽध्याये श्री-पराशरः –

नित्यम् अभ्यर्चयेद् देवं
पुराण-पुरुषोत्तमम्।
अप्सु व्योम्नि तथा ऽर्चायां
वह्नौ हृदि तथा गुरौ ॥
त्रि-कालम् अर्चयेद् देवं
प्रतिमासु विशेषतः।
स्नान-काले जले सम्यक्
पूजयेज् जल-शायिनम्॥
सन्ध्या-काले तथा व्योम्नि
पूजयेद् रवि-मण्डले।
प्रतिमाम् अर्चयेद् वेद्याम्
अग्नौ होमस् तथैव च॥
प्राणाग्नि-होत्र-समये
हृत्-पद्मे पूजयेद् +धरिम्।
तथैव विप्र-मुख्येषु
चागतेषु गृहं प्रति॥
तेष्व् अर्चयेद् विशेषेण
मधु-पर्कादि-पूजनैः।
एवम् अभ्यर्चयेद् विद्वान्
षट्सु देवं हरिं सदा॥

बिम्बम्

… श्री-विष्णु-धर्मोत्तरे –

हविषा ऽग्नौ जले पुष्पे
ध्याने च हृदये हरिम्।
अर्चन्ति सूरयो नित्यं
जपेन रवि-मण्डले॥

नारदः –

अग्नौ क्रियावतां देवो
दिवि देवो मनीषिणाम्।
प्रतिमा स्वल्प-बुद्धीनां
योगिनां हृदये हरिः॥

पूजा-स्थानम्

… पूजा-स्थानं गृहस्य वायव्य-भागे कल्पयेत्।
तथा पाद्मे क्रिया-पादे द्वा-त्रिंशे ऽध्याये –

पूजा-स्थानं गृहस्योक्तं वायव्यञ् च नान्यथा।[[??]]
अर्चयेद् भवदेष्व् अर्चां यजमानो यथोदितात्।

तथा काल-प्रकाशिकायाम् –

वारुण्यां शयन-स्थानं वायव्यायां देवता-गृहम्।