…
कालत्रये
श्री-विष्णु-मन्दिरे –
हविर् दानं त्रि-कालन् तु
उत्तमोत्तमम् उच्यते।
द्वयोश् च मध्यमं प्रोक्तम्
एक-काले ऽधमं हविः॥
एवं काल-त्रयेष्व् अपि भगवद्-आराधनम् उक्तम्।
काल-नियमः
पराशर-संहितायाम् –
पूजा-कालं परित्यज्य
स्वेच्छा-काले हरिं यजेत्। स याति नरकं घोरं
प्रपन्नस् सन् द्विजोत्तमः॥मध्याह्ने वै विष्णु-पूजां
नैवेद्यं शक्तिमान् यतः।
यः प्रपन्नो न दद्याच् च
स चण्डालो भवेद् ध्रुवम्॥
विष्णु-द्रोही स एव स्यात्
तं त्यजेत् सर्व-कर्मसु॥
अशक्तौ
इदं स्वस्थ-विषयम्, अ-शक्त-विषये श्री-पाञ्चरात्र-रक्षायाम् –
खिन्न-वृत्तेर्, अन्य-परस्यातुरस्य, कलहाद्य्-उपद्रुतस्य च
भोजनात् पूर्वं यदा कदाचिल् लब्धावसरे भवति,
अत्यन्ताशक्तौ तु ऋत्विक्-पुत्र-शिष्यादिभिः स्व-समैर् अन्यैः कार्यते।तत्र त्वयम् अपवादः स्मर्यते –
विधुरो ब्रह्म-चारी च
वान-प्रस्थो ऽअथ भिक्षुकः।
परार्थं कर्म कुर्वाणाः
पातयन्ति पतन्ति च॥
इति।
ईषच्छक्तौ तु सङ्कुचित-यजनम्,
एकोपचारम् आरभ्य
तत्-तच्-छक्त्य्-आद्य्-अनुसारेण सहस्रोपचारान्त-विधानात् " इति। श्री-पराशर-संहितायाम् –
त्रि-कालम् एक-कालं वा
मध्याह्ने च विशेषतः।
द्वि-जातिर् यो यजेद् ब्रह्मन्
विष्णु-सायुज्यम् आप्नुयात्॥
[[183]]