०१ अधिकारादि

कार्यता

अत्र महोपनिषदि-

धृतोर्ध्व-पुण्ड्रः परमेशितारं
नारायणं पूजयति स्म भक्त्या।
अर्घ्यादिभिः पूरुष-सूक्त-मन्त्रैस्
सम्प्राप्नुयाद् विष्णु-पदं महात्मा॥

ऋचि -

प्रवः पान्तमन्धसोधियाय ते महे शूराय विष्णवे चार्चत। [[TODO: परिष्कार्यम्]]

यजुषि -

भवामित्रो न शेव्यो घृतासुतिः। विभूतद्युम्न एनया उसप्रधाः। अथाते विष्णो विदुषा चिदृध्यः। बृहत्ते विष्णो सुमतिं भजामहे॥ [[TODO: परिष्कार्यम्]]

[[182]]

श्री-नारसिंहे –

जल-देवं नमस् कृत्य
ततो गच्छेद् गृहं पुनः।
पौरुषेणैव सूक्तेन
ततो विष्णुं समर्चयेत्
निष्पीड्य स्नान-वस्त्रं वै
द्विर् आचम्यार्चयेद् +हरिम्।
विष्ण्व्-आराधनात् पुण्यं
विद्यते कर्म वैदिकम्॥
तस्माद् अनादि-मध्यान्तं
नित्यम् आराधयेद् +हरिम्।
तद्-विष्णोर् इति मन्त्रेण
सूक्तेन पुरुषेण वा॥

इति।

सर्वाधिकारः

… इदं विष्ण्व्-आराधनं सर्वैर् वर्णैः स्त्रीभिश् च यथा-योग्यं कर्तव्यम् -
तथा प्रतिमा-लक्षण-परिच्छेदे –

ब्राह्मणैः क्षत्रियैर् वैश्यैश्
शूद्रैस् स्त्रीभिस् तथेतरैः।
यथार्हम् इज्यस् सेव्यश्
नित्यं सर्वेश्वरो हरिः॥

भीष्म-पर्वणि –

ब्राह्मणैः क्षत्रियैर् वैश्यैश्
शूद्रैश् च कृत-लक्षणैः।
अर्चनीयश् च सेव्यश् च
भक्ति-युक्तैस् सदा हरिः॥

कृत-लक्षणैः - कृत-तापादि-संस्कारैः।
आश्वमेधिके श्री-वैष्णव-धर्म-शास्त्रे एक-विंशे ऽध्याये –

मृद्-अश्म-मणि-रत्नेन
ताम्रेण रजतेन वा।
कृत्वा प्रतिकृतिं कुर्याद्
अर्चनां
काञ्चनेन वा॥
पुण्यं दश-गुणं दद्याद्
एतेषाम् उत्तरोत्तरम्।
जय-कामो जयेद् राजा
विद्या-कामो द्विजोत्तमः॥
वैश्यो वा धन-कामस् तु
शूद्रः पुण्य-फल–प्रियः।
सर्व-कामा स्त्रीयो वा ऽपि
सर्वान् कामान् अवाप्नुयुः॥

अत्र स्त्री-विषये विशेषतो भरद्वाज-संहितायाम् –

अनुज्ञाताः स्त्रीयश् चैवम्
अर्चयन्त्यो जगद्-गुरुम्।
यथार्हम् अपि शूद्राद्यास्
सर्वे यान्ति परां गतिम्॥

[[185]]

नारदीये –

अनुज्ञाता तु या भर्त्रा
सैव कुर्याद् यथा-विधि।
व्रतोपवास–नियम–
देवताराधनादिकम्॥

इतरा तु न कुर्वीत
जीवमाने स्व-भर्तरि।
अज्ञानाद् अथवा लोभाद्
यदि कुर्यात् प्रमादतः॥
तत् सर्वं निष्फलं तस्या
इति वेद-विदो विदुः॥

अनाराध्य हृषीकेशं
विधवा भोक्तुम् इच्छति।
सा व्रजेन् नरकं घोरं
काल-मात्रम् अधो-मुखी॥

यत् त्व् इदं वचनम्

जपस् तपस् तीर्थ-सेवा
प्रव्रज्या मन्त्र-साधनम्।
देवताराधनं चैव
स्त्री-शूद्र-पतनानि षट्

इति तद्-वैदिकाभिप्रायम् - +++(5)+++ तथा

वैदिकं ब्राह्मणानां स्याद्
राज्ञां वैदिक-तान्त्रिकम्।
तान्त्रिकं वैश्य-शूद्राणां
सर्वेषां तान्त्रिकं तु वा॥

इति स्त्री-शूद्रयोस् तान्त्रिकत्वाभ्यनुज्ञानात् ।

किञ् च श्री-पाञ्चरात्रे विहगेन्द्र-संहितायां मूर्ति-लक्षणे सप्तमे पटले –

अनिमित्तं निमित्तञ् च
लोके बिम्बं द्विधा मतम्।
तत्र द्वारावती-क्षेत्रे
साल-ग्रामे च या शिला॥
अनिमित्तं महा-बेरं
सर्व-वर्णेषु योग्यकम्
अवशिष्टान्त्य-जातीनां
सर्वेषां पूजनीयकम्

भारते –

ब्राह्मणः क्षत्रियो वैश्यः
स्त्री-शूद्रश् च वरानने।
अनाराध्य हृषीकेशं
नाप्नोति परमां गतिम्॥

सङ्ग्रहे –

अनुज्ञाताः स्त्रीयश् चैवम्
अर्चयन्त्यो जगद्-गुरुम्।
यथार्हम् अपि शूद्राद्यास्
सर्वे यान्ति परां गतिम्॥

“यथार्हम् अपि शूद्राद्या” इत्य् आदीनि परश्शतानि वचनानि बहुषु स्थलेषु विद्यन्ते,
तानि सर्वाण्य् अत्र ग्रन्थ-विस्तर-भयान् न लिख्यन्ते।

तस्माद् अनवधिकातिशय-भक्ति-युक्तानाम्
आकार-त्रय-सम्पन्नानाम्
अधिगत-भगवल्-लाञ्छनानाम्
आचार्य–प्रसाद-लब्ध–स्वाधिकारानुरूप–मन्त्र-निष्ठानाम्
अनुगुणाचार-निरतानाम्
अनुचिताचार-विमुखानाम्
अखिल-वर्णानाम् अपि
यथार्हं भगवद्–अर्चन–समाराधनं कर्तव्यं
यथा-शक्ति प्रत्यहम्
इति सिद्धम्।

[[186]]

नित्यता

इदं भगवद्-आराधनं नित्यम्, प्रत्यवाय-स्मृतेः; व्यासः –

यो मोहाद् अथवा ऽऽलस्याद्
अकृत्वा विष्णु-पूजनम्
भुङ्क्तेयाति नरकान्
सूकरेष्व् अभिजायते

श्री-विष्णु-धर्मोत्तरे –

मातृवत् परिरक्षन्तं
सृष्टि-संहार-कारकम्।
यो नार्चयति वै विष्णुं
सो ऽक्षय्यं नरकं व्रजेत्

सङ्ग्रहे –

यद् गृहे नास्ति तुलसी
–साल-ग्राम–शिलार्चना
श्मशान-सदृशं विद्यात्
तद्-गृहं शुभ-वर्जितम्

श्री-भागवते –

गृहं श्मशानं तव बिम्ब-वर्जितं,
कथा-विहीनाश् च गिरश् शिवा-रुतम्।
श्व-पुच्छवद् दास्य-विना-कृतं वपुर्
वदन्ति हि त्वय्य् अनिवेदितं विषम्॥

आत्मीय-निवेदनम्


स +++(=शाण्डिल्यः)+++ एव -

त्रि-सन्ध्यं कारयेद् बालान्
प्रणामं देव-पादयोः।
पुत्रः प्रेष्यस् तथा शिष्य
इत्य् एवञ् च निवेदयेत्