१५ याग-भूमि-प्रवेशः

अथ स्नान-वस्त्रं निष्पीड्य
गृहम् आगत्य
पादौ प्रक्षाल्याचम्य
याग-भूमिं गत्वा
कूर्मादीन् उक्त्वा प्रणम्य
शुचौ देशे निश्शब्दे ऽतिमनोहरे
“ॐ भूं भूम्यै नम” इति भूमिं स्वर्ण-भूमित्वेन सङ्गृह्य
पूर्वोक्त-प्रकारेण वायु-बीजेन दक्षिण-हस्ते न्यस्य शोष्य
पुनर् अग्नि-बीजेन तत्रैव न्यस्य दग्ध्वा
अथामृत-बीजेन वाम-हस्ते न्यस्य प्लावयित्वा
अस्त्र-मन्त्र-युक्तेन ताल-त्रयेण भगवन्तं प्रबोध्य
गन्धाद्य्-अर्चितां घण्टाम् उद्घोष्य
कवाटं[[??]] विघटय्य
द्विः प्रणम्य गुरु-परम्परां द्वयं चानुसन्धाय
भगवद्-आराधनादि–कैङ्कर्य-विरोधि–पाप-निवृत्त्य्-अर्थं सद्-गुरूपदिष्ट–प्रायश्चित्त-प्रपत्ति–बृहद्-गद्य–न्यास-दशकानाम् अन्यतमेन भगवन्तम् शरणम् उपगम्य
दक्षिणतः स्वस्यासन-मन्त्रेणासनं निधाय प्रोक्ष्य तत्रोपविश्य।

ॐ भगवान् एव स्व-नियाम्य - कारितवान्। ॐ कृतं च - उपादानेन - वासुदेव

इत्य् उपादानं समापयेत्।

[[181]]

इति श्री-भारद्वाज-कुल-तिलक-वङ्गीशान्वय-जातस्य श्री-सुन्दरार्य-पुत्रस्य वैकुण्ठ-नाथस्य कृतिषु प्रपन्न-धर्मसार-समुच्चये उपादान-प्रयोगो नाम तृतीयः परिच्छेदः।