अत्र प्रातः काले ब्रह्म-यज्ञाकरणे माध्याह्निकानन्तरं तर्पणात् प्राग् ब्रह्म-यज्ञः कार्यः।
स चार्वाक् तर्पणात् कार्यः पश्चाद् वा प्रातर् आहुतेः।
वैश्वदेवावसाने वा वान्यदेति निमित्ततः
इति स्मृतेः;
अत्र तर्पणीयेषु यथा स्व-शाखं व्यवस्था।
यजुश्-शाखिनान् तु काण्डर्षि-तर्पणं कार्यम्।