१३ पुरुष-सूक्त-जपः

एवं माध्याह्निकं कृत्वा अनन्तरं पुरुष-सूक्तं यथा-शक्ति जपेत्॥

पुरुष-सूक्तस्य ऋषि छन्दो देवतादयः

अस्य श्री-पुरुष-सूक्त-महा-मन्त्रस्य नारायण ऋषिः
अनुष्टुप् छंन्दः
परमात्मा भगवान् श्रीमन्नारायणो देवता।
सकारो बीजं वकारश् शक्तिः शुक्लो वर्णः
उदात्तादिस् स्वरः
श्री-भगवत्-प्रीत्यर्थे जपे विनियोगः।