(मन्त्राणां व्याख्या च।)
अत्र माध्याह्निके प्रातः कालवद् एव जपोपस्थानादि-क्रमः। अर्घ्य-प्रदानोपसंहार-जल-प्राशन- ध्यानोपस्थानेषु विशेषः। स्मृत्य्-अर्थ-सारे –
अर्घ्यम् एकं प्रदातव्यं मध्याह्ने भास्करं प्रति।
उभयोस् सन्ध्ययोश् चैव आप उर्ध्वं त्रिर् उत्क्षिपेत्॥
आपः पुनन्त्व् इत्य् अनुवाकस्य आप ऋषिः अनुष्टुप्-च्छन्दः ब्रह्मणस्पतिर् देवता अपां प्राशने विनियोगः।
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम्। पुनन्तु ब्रह्मणस्पतिर् ब्रह्म पूता पुनातु माम्। यदुच्छिष्टमभोज्यं यद्वादुश्चरितं मम। सर्वं पुनन्तु मामापो ऽसताञ् च प्रतिग्रहग् स्वाहा॥ [[TODO: परिष्कार्यम्]]
आपः पुनन्त्व् इत्य् अनुवाकस्यार्थः - आपः, पृष्ट्या पृथिवीं पुनन्तु - शुद्ध-स्व-रूपत्वाद् अपाम्; एवं पूता पृथिवी मां पुनातु - पृथिवी-गतानाम् अपां प्राशनाद् इति, अपां परमात्मनो विशेषायतनत्वात् पृथिव्याश् च अभिमत-वल्लभत्वाद् उभयोः पावन-करत्वम्। ब्रह्म - प्रणवः, वेदो वा; तस्य पतिः - प्रधान-प्रतिपाद्यतया स्वामी परमात्मा स अस्मान्, पुनन्तु - पुनातु, पुनन्त्व् इति व्यत्ययेन बहु-वचनम्। ब्रह्म पूता पुनातु माम् - ब्रह्मणा परमात्मना, पूता आपः, मां, पुनातु - पुनन्तु, पृथिवी-पावन-करत्वं चापां पूर्वोक्त-ब्रह्म-पूतत्वाकारेण। यद् उच्छिष्टम् अभोज्यम् - यद् उच्छिष्टं पुरुषान्तरस्य मया भुक्तम्, यद् अभोज्यं जातितो निमित्तत आश्रियतश् च मया भुक्तं, यच् च मम दुश्चरितं - त्रि-विध-करणैर् मया कृतं, यद् असतां सम्बन्धी प्रतिग्रहः - तत् सर्वञ् चापः पुनन्तु। एतद् द्वारा मां च पुनन्तु। अत्राप्य् अबादि-शब्दानां भगवत्-परत्वं विज्ञेयम्। स्वाहेत्य् आत्म-निक्षेप-द्योतक-शब्दः।
[[176]]
अस्त्रोपसंहारे विशेषः पूर्वम् एवोक्तः। आथावाहन-पूर्वक-न्यास-मुद्रा-दर्शनानन्तरं ध्यानम् -
मध्याह्ने स्तौमि[[??]] सावित्रीं श्वेत-पद्मासने स्थिताम्।
श्वेताम्बरां श्वेत-वर्णां श्वेत-माल्यानुलेपनाम्॥
युवतीं रुद्र-दैवत्यां पञ्च-वक्त्रां चतुर्-भुजाम्।
यजुर्-वेदं वदन्तीं तां त्रि-नेत्रां वृष-वाहिनीम्॥
शूलं कमण्डलुञ् चापि कपालञ् चाक्ष-मालिकाम्॥
बिभ्रतीं ब्रह्म-कवचां चतुर्-विंशतिकाक्षराम्।
अग्नि-मुखीं रुद्र-शिखां श्री-विष्णु-हृदयां शुभाम्॥
उकार-मूर्तिकां देवीं सर्वाभरण-भूषिताम्॥
अथोपस्थानम् - उत्तमेत्यादि-तुरीयोपस्थानानन्तरं व्योम-मुद्रां प्रदर्श्य - ऊर्ध्व-बाहुस् सूर्यं पश्यन् “आसत्येन-” “उद्वयं-” “चित्रं देवानां-” “तच्चक्षुः-” “हँ सश् शुचिषत्-” “पश्येम-” “मनसा पुनात्व्” इत्य् अन्तं जपित्वा “सन्ध्यायै नम” इत्यादिकं प्रातः कालवत् सर्वं कुर्यात्।
अत्र नारायणः –
आपः पुनन्तु मन्त्रेण आपोहिष्ठेति मन्त्रतः।
प्रक्षिप्य चाञ्जलिं सम्यग् उदुत्यं चित्रम् इत्य् अपि॥
तच्-चक्षुर् देव-हितं हङ्ग् सश् शुचिषद् इत्य् अपि।
एतज् जपेद् ऊर्ध्व-बाहुस् सूर्यं पश्यन् समाहित"
इति।
आसत्येनेति मन्त्रस्य हैरण्य ऋषिः हिरण्य-गर्भ ऋषिर् इति वा; त्रिष्टुप्-छन्दः सविता देवता मध्याह्नोपस्थाने विनियोगः।
[[177]]
आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ् च हिरण्ययेन सविता रथेनादेवोयाति भुवना विपश्यन्। उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्। उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम्। चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः। आप्राद्यावा पृथिवी अन्तरिक्षँ सूर्य आत्मा जगतस्तस्थुषश्च। तच्चक्षुर्देवहितं पुरस्तात् शुक्रमुच्चरत्। पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दामशरदश्शतं मोदामशरदश्शतं भवामशरदश्शतं शृणवामशरदश्शतं प्रब्रवामशरदश्शतं अजीतास्स्यामशरदश्शतं ज्योक्चसूर्यं दृशे य उदगान्महतो ऽर्णवात् विभ्राजमानस्सरिरस्य मध्यात्समावृषभो रोहिताक्षस्सूर्यो विपश्चिन्मनसापुनातु॥
[[TODO: परिष्कार्यम्]]
आसत्येनेत्यादि - सत्येन - अविकारेण, लोकेन - काल-कृत-परिणाम-रहितेन परम-पदाख्य-लोकेन, रजसा - रजश् शब्देन सत्वादिकम् उपलक्ष्यते; तेन तद्-गुण-प्रकृति–कार्य–ब्रह्माण्ड-सहस्रम् उच्यते, सत्येन रजसा विभूति-द्वय-वर्तमानो ऽयं, सविता - परमात्मा, अमृतम् - ब्रह्मानुभवं, मर्त्यम् - पशु-पुत्र-स्वर्ग-कैवल्याद्य्-ऐश्वर्यं नित्य-मुक्तानाम् अमर्त्यानाञ् च, निवेशयन् - प्रयच्छन्, हिरण्ययेन - हिरण्मयेन, स्पृहणीयेनेति यावत्। रथेन - गरुत्मता, यद् वा - हिरण्ययेन - श्लाघ्यतमेन, रथेन - प्रणवेन, आसमन्ताद् याति।
ॐकार-रथम् आस्थाय स्थितः परम-संमत
इत्य् आदि स्मृतेः - भुवना विपश्यन् - उच्चावचाङ् कार्य-वर्गान् स्व-स्व-कर्मानुगुण्येन नियमयितुं विशेषेण पश्यन्। एतादृशम् उपास्वेत्य् अध्याहृत-वाक्य-योजना।
[[178]]
उद्वयमित्यस्य विश्वामित्र ऋषिः अनुष्टुप्-छन्दः परं ज्योतिर्-देवता। उद्वयं तमसस् परि - तमसः - प्रधानात्, परि - उपरि, स्थितं उत्तरम् - उत्कृष्टतमं, ज्योतिः - परं ब्रह्म, उत्पश्यन्तः - उन्मुखाः पश्यन्तः, तद्-विषयं ध्यानं कुर्वाणाः, वयं, देवन् देवत्रा - देवेम, सर्व-वस्तूपलक्षणम् एतत्। तत्र स्थितं देवं, उत्तमम् - उक्कृष्टतमं, ज्योतिः - ज्योती-रूपं, सूर्यं - परमात्मानम्, अगन्म - प्राप्नुवाम, संसार-सागरान् मुक्ता भवामेत्य् अर्थः। उदुत्यमित्यादि = उत् - उत्यं, इति पदच्छेदः। तत्र उ शब्द अवधारणार्थः पाद-पूरणार्थो वा; अमुं जात-वेदस-नामानं देवं सूर्यं - परमात्मानं, केतवः - दिव्यात्म-गुणा ज्ञान-शक्ति-वात्सल्यादयः, दृशे विश्वाय - विश्व-जनानां सर्वत्र दर्शनाय वहन्ति, उद्गमयन्ति - उद्वहन्ति, उद्बोधयन्तीति वा। वैकुण्ठे नित्य-मुक्तैस् सह निरतिशयानन्दम् अनुभवन् परमात्मा लीला-विभूतौ ताप-त्रय-महा-ज्वाला-दह्यमानान् जीवान् आलोक्य निरतिशय-वात्सल्य-कारुण्यादि-परिपूर्णतया राम-कृष्णादि-प्रादुर्-भाव-मुखेन भूम्याम् अवततार तं भजध्वम् इति वाक्य-शेषेण-योजना।
चित्रमित्यादेः कुत्स ऋषिः त्रिष्टुप्-छन्दः सूर्यो देवता चित्रमित्यादि स्तुतौ विनियोगः,
तम् एव परमात्मानं स्तौति चित्रं देवानामित्यादि - देवानां दैत्याद्य्-असुर-वधे चित्रम् अनीकं - बलं, यस्मात् सर्वेश्वराद् उदगात् - स्व-मूर्ति-भेदैस् स्व-परिकरैश् च मत्स्य-कूर्मादि-रूपैर् देवानां साहाय्यम् आचरितं तम् एव भजध्वम् इति पूर्वेणान्वयः। मित्रस्य - सूर्यस्य, वरुणस्याग्नेश् चेति सर्व-देवोपलक्षणम्। एषां चक्षुर् इव चक्षुः - ज्ञान-प्रदः, आप्राद्यावापृथिवी अन्तरिक्षँ सूर्य आत्मा - दीवं च पृथिवीञ्चान्तरिक्षञ्च समस्तं वस्तु-जातम्, आ - समन्तात् आप्राः - स्वात्मना पूरितवान्, अत एव जगतः - जङ्गमस्य, तस्थुषः - स्थावरस्य सर्वस्य च, आत्मा भवति असौ नियमन-पूर्वकं तत्र व्याप्य वर्तत इत्य् अर्थः। एतादृश उपास्य इति वाक्य-शेषः।
[[179]]
तच्-चक्षुर् इत्य् उपस्थान-मन्त्रस्य वसिष्ठ ऋषिः अनुष्टुप्-छन्दः भास्करो देवता तच्-चक्षुर् इति विनियोगः।
तम् एव परमात्मानं पुनस् स्तौति तच्-चक्षुर् इत्यादिना = तच्-छ्रुति-प्रसिद्धं, चक्षुः - सर्वेषां ज्ञान-प्रदं, देवानां हितं, शुक्रं - शुद्ध-स्व-रूपं, उच्छरत्- उद्यद्-रूपं शुद्ध-स्व-रूपत्वात् कदाचिद् अपि न प्रहीणम् इत्य् अर्थः। एतादृशं पुरस्तात् शरदश् शतं पश्येम - बलारोग्यैश्वर्यादि-युक्ताः, पश्येम - साक्षात् कुर्मः, साक्षात्कार-सिद्ध्य्-अर्थञ् जीवेम, नन्दाम - सच्-छिष्य–सत्-पुत्रादिभिर् भगवद्-गुण-चेष्टितान्य् अलोचयन्तस् समृद्धास् स्याम, मोदाम - पूर्वोक्तानन्दस्य चरमावस्था प्रमोदः, भवाम - उत्तरोत्तरम् अभिवृद्धास् स्याम, शृणुवाम - प्रिय-हितालापान् भगवत्-कथाश् च शृणवाम, प्रब्रवाम - बाह्य-कु-दृष्टीन् प्रति प्रकृष्ट-वक्तारः स्याम, अजीतास् स्याम - वेद-विरोध-वादिभिश् शुष्क-तार्किकैश् शरदश् शतं - संवत्सर-शतं, न पराजितास् स्याम, ज्योक् - चिर-कालं, सूर्यं - परमात्मानं, दृशे - द्रष्टुम् आशंसामहे, य उदगान् महतो ऽर्णवात्- यो महतस् समुद्रात्, अनेन तत्वान्तरम् अप्य् उपलक्ष्यते, उपर्य् उदगात् - उद्यद् दृश्यते, श्रुतिभिर् इति शेषः। सरिरस्य - सलिलस्य, मध्यात् - मध्ये, विभ्राजमानः - विशेषेण प्रकाशमानः, सर्वान्तर्यामितया ऽवस्थाने ऽपि तत्-तद्-धेयासंस्पृष्टत्वं प्रकाशमानत्वं, “अनश्नन्नन्यो अभिचाकशीती"ति श्रुतेः; सरिरस्य मध्यात् य उदगान् महतो ऽर्णवात् इति विशेषण द्वयेन भगवतस् सर्वेषां अन्तर्-बहिर्-व्यापित्वम् उक्तं भवति। समावृषभ इत्यादि - वृषभस् सर्वेषां वल्लभः वृषं भावयति वा वृषभः, लोहिताक्षः - पुंडरीकाक्षत्वाद् अक्ष्णोर् लौहित्यं, विपश्चित् - सर्वज्ञः, सूर्यः - परमात्मा, मनसा - सत्य-सङ्कल्पेन, पुनातु - प्रतिबन्धक-निवृत्तिं कृत्वा स्वानुभव-योग्यं करोतु।
[[180]]