दक्षः –
तृतीय-भागे कर्मैवं समाप्य तदनन्तरम्।
भागे चतुर्थे कुर्वीत स्नानम् अम्भस्य कृत्रिमे॥
शाण्डिल्यः –
प्रातस् स्नातो ऽपि विधिवत् स्नानं माध्यन्दिनं चरेत्।
शक्तश् चेद् अन्यतो रोगाच् छाट्या सम्मार्जनञ् चरेत्॥
अनेन प्रातस् स्नातस्य मध्याह्न-स्नानाशक्तौ कापिल-स्नानम् अनुज्ञायते।
[[172]]
भारद्वाजः –
स्नान-मुक्तं[[??]] यतीनां ब्रह्म-चारिणाम्। प्रातर्मध्याह्नयोः स्नानं [[??]] गृहस्थयोः॥
विष्णुः –
ब्रह्म-क्षत्र-विशा[[??]] ष्यते।
तूष्णीम् एव [[??]]
मृत्तिका-स्नानम्
मध्याह्ने [[??]] [[??]] वश्यम् आचरणीयं मृत्तिका-स्नान[[??]],[[??]] [[??]]
बोधायनः –
मध्याह्ने दर्भ-पाणिः पाणी पादौ प्रक्षाल्याचम्य प्राणानायम्य मृत्तिका-स्नानं करिष्य
इति सङ्कल्प्य, एतत् स्नानं ब्रह्म-चारि-गृह-स्थ-वान-प्रस्थ-यतीनाञ् च कर्तव्यम्।
अश्व-क्रान्ते + पदे पदे॥ सहस्र-परमा देवी + दूर्वा दुस्वप्न-नाशिनी [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां भूमि-दूर्वे यथा क्रमम् अभिमन्त्र्य॥
उद्धृतासि वराहेण + त्वयि सर्वं प्रतिष्ठितम् [[TODO: परिष्कार्यम्]]
इति नदी-तीरे लोष्टम् आदाय।
काण्डात् काण्डात् प्ररोहन्ती + शतेन च। या शतेन + हविषा वयम् [[TODO: परिष्कार्यम्]]
इति द्वाभ्यां दूर्वाम् आदाय
मृत्तिके हनमे पापं + शरदश् शतम् [[TODO: परिष्कार्यम्]]
इति दूर्वां लोष्टे प्रतिष्ठाप्य
यत इन्द्रभयामहे + जहि। स्वस्तिदा विशस्पतिः + करः। स्वस्तिन इन्द्रो + द्दधातु। त्रातारमिन्द्रमवितारं + धात्विन्द्रः॥ आपान्तमन्युः - निधेभुः। परं मृत्यो - मोतवीरान् [[TODO: परिष्कार्यम्]]
इति षड्भिः प्रतिमन्त्रं लोष्टम् उत्सृज्य “गन्ध-द्वारां - श्रिय"मिति लोष्टम् आदाय “उदुत्यं जात-वेदसं - सूर्य"मिति लोष्टम् आदित्याय दर्शयित्वा “श्रीर् मे भजत्व् अलक्ष्मीर् मे नश्य"त्व् इति शिरः प्रदक्षिणी-कृत्य “सहस्र-शीर्षा पुरुष - अङ्गुल"मिति शिर आलिप्य “विष्णु-मुखा वै देवाः - क्रमान् क्रमते” इति मुखं “ओजोग्रीवाभिर्निऋऋतिमस्थभि [[??]]“रिति ग्रीवां “महाग् ं इन्द्रो वज्र-बाहुः - द्वेष्टि” इति बाहू “सोमानग् स्वरणं कृणुहि - य औशिजं” इति कक्षौ
[[173]]
“शरीरं यज्ञशमलं कुसीदन्तस्मिंत्सीदतु योस्मान् द्वेष्टि” इति शरीरं “नाभिर्मेचित्तं विज्ञानम्। पायुर्मेऽपचितीर्भसत्” इति नाभिं “आपान्तमन्युः - निदेभुः” इति कटिं “वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसर्जनमसि प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः॥ विष्णोः पृष्ठमसि विष्णवे त्वा” इति पृष्ठं “आनन्दनन्दावाण्डौमे। भगस्सौभाग्यम्पस” इत्य् अण्डे “ऊूर् वोरोजो ऽरिष्टा - मामाहिँ सीः” इत्य् ऊरू “जङ्घाभ्यां पद्भ्यां धर्मोस्मि विशिराजा प्रष्ठितः” इति जङ्घे “चरणं पवित्रं - मरातिं तरेम” इति चरणौ “इदं विष्णुः - पाँ सुरे। त्रीणिपदा विचक्रमे - धारयन्” इति द्वाभ्यां पादौ “सजोषाइन्द्र - विश्वतो नः” इति शेषं दूर्वाभिस् सह लोष्टं शिरसि निधाय हरिर् हरिर् इति त्रिवारम् आवृत्य “हिरण्य-शृङ्ग”मित्यादिना जलावतरणादिकं शेषं पूर्ववत् कुर्यात्॥ “आवहन्ती वितन्वाना - श्रियम् आवह” इति वासः परिधाय द्विर् आचम्य उर्ध्व-पुण्ड्रान् धृत्वा सन्ध्याम् उपास्य उत्क्रामन्तो “भूत-प्रेत-पिशाचा” इति “ये भूता ये निशाचरा” इति “तेषां सर्व-विरोधेन सर्व-कर्म समारभे” इति दर्भासनं प्रतिष्ठाप्य त्रीन् प्राणायामान् धारयित्वा अष्टोत्तर-सहस्रम् अष्टोत्तर-शतं वा गायत्रीं जपेत्।
ब्राह्मणः पूतो भवति ब्रह्म-हत्या–गो-वध–गुरु-तल्प-गमन–स्वर्ण-स्तेय–सुरा-पान–सर्व-पाप-प्रणाशनम् इति विज्ञायते। ध्यायन् नारायणं देवं प्रपद्यत इत्य् आह भगवान् बोधायनः।
[[174]]
परमैकान्ति-मृत्तिका-स्नानम्
अत्र परमैकान्ति-विषये श्री-भाष्य-कार-वङ्गीश्वरादिभिः स्व-स्व-नित्येषु प्रकारान्तरेण मृत्तिका-स्नानम् उक्तम्। तत्-प्रकारस् तु - शुचौ देशे पादौ प्रक्षाल्याचम्य तीरं संशोध्य शुचौ देशे मूल-मन्त्रेण मृत्तिकाम् आदाय द्विधा कृत्य शोधित-तीरे निधाय, एकेनाधिक-भागेन देह-प्रक्षालनं[??] कृत्वा निमज्य आचम्य प्राणायाम-त्रयं कृत्वा आसीनो भगवन्तं ध्यायन् कृत्वा अन्यं मृद्-भागम् आदाय वाम-पाणि-तले त्रिधा कृत्वा मूल-मन्त्रेण पृथक् पृथक् सम्प्रोक्ष्याभिमन्त्र्य एकेन कर-मूलस्थेन दिग्-बन्धनम् अस्त्र-मन्त्रेण कुर्यात्। अन्येन मध्यस्थेन तीर्थ-पीठं
ॐ नमो भगवते [[??]] तीर्थायेति जल-मध्ये निधाय,
इति मृद्-भागम् आदित्य-मण्डलान्तर्वर्ति-पुरुष-तेजसा शिरस उपरि द्वादशाङ्गुल्यन्तः-स्थित-शत-दल-पद्मस्थित-भगवत्-तेजसा वा संताप्य केशनावाद्य्-ऊर्ध्व-पुण्ड्रान् धृत्वा शिष्टेन गात्रानुलेपनं कुर्यात्। ततः पाणी प्रक्षाल्य मूल-मन्त्रेण षड्-अङ्ग-न्यासं कृत्वा चतुर्-अश्रं तीर्थे पीठम् उल्लिख्य तत्र स्वाराध्यं सपत्नीकं ध्यात्वा मानसैर् उपचारैर् अभ्यर्च्य उदकाञ्जलिम् आदाय
आवाहयामि त्वां देवि स्नानार्थम् इह सुन्दरि।
एहि गङ्गे नमस् तुभ्यं सर्व-तीर्थ-समन्विते
इति भगवद्-वाम-पादाङ्गुष्ठ-नख-जां गङ्गाम् आवाह्य
विष्णु-वाम-पदाङ्गुष्ठ-नख-स्रोतो विनिसृते।
तद्-भक्ति-विघ्न-रूपात् त्वं गङ्गे मां मोचयैनसः
इति तीर्थस्यार्घ्यन् दत्त्वा मूल-मन्त्रेणोदकं सप्त-कृत्यो ऽभिमन्त्र्य स्व-मूर्ध्नि सिञ्चेत्। एवं त्रिः; पञ्च-कृत्वस् सप्त-कृत्वो वा; ततो दक्षिणेन पाणिना जलम् आदाय सप्त-कृत्वो ऽभिमन्त्र्य त्रिः पञ्च-कृत्वो वा पीत्वा ऽऽचम्य स्वात्मानं सप्त-कृत्वः प्रोक्ष्य परिषिच्य तीर्थे निमग्नः तत्रस्थ-स्वाराध्य-भगवत्-पादारविन्द-विन्यस्त-शिरस्को अष्टा-विंशति-वारं तद् उपरि यावच्-छक्ति वा मूल-मन्त्रं जपित्वोत्तीर्य शुष्क-वस्त्र-द्वय-कौपीन-धर ऊरु-पर्यन्तं मृज्-जलाभ्यां प्रक्षाल्य आचम्य ऊर्ध्व-पुण्ड्रान् पूर्ववद् धृत्वा स्वाराध्यं ध्यायन् माध्याह्निकं कुर्यात्।
[[175]]
इदं मृत्तिका-स्नानं प्रातः काले मध्याह्नातिक्रमे भौमार्क-वारयोश् च न कार्यम्।
न प्रातर् मृत्तिका-स्नानं न च भौमार्क-वारयोः॥
मध्यन्दिने तु कर्तव्यं नाति मध्यन्दिने रवाव्
इति स्मृतेः;