१० द्रव्य-शुद्धिः

दारु-पात्रं लोहनोल्लिखितं शुध्यति कांस्यं भस्मना ताम्रम् आम्लेन रजसा नारी… (ग्रन्थ-पातः) नदी वेगेन [[??]]य[[??]]दीप्ताग्निना दन्त-शुक्ति-शृङ्ग-रौप्य[[??]]- सौवर्ण-मण्यादि-पात्रं[[??]] शङ्खञ् च जल-प्रक्षालनाच् छुध्यतीति सर्वत्र। इदं निर्लेप-विषयम् - सलेपे तु -

गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च।
शुध्यन्ति दशभिः क्षारैः श्व-ककोपहतानि च॥

[[170]]

क्षारैर् - लवण-मिश्रैस् तोयैर् इत्य् अर्थः।

सुरा-मूत्र-पुरीषैस् तु शुध्यन्ते ऽग्न्य्-उपलेखनैः॥

तन्तु-वल्कल-चीं[[??]] -कार्पास-क्षौमोण - रेत्र-पटादिकं[[??]] प्रोक्षणो [[??]] [[??]] प्रोक्ष [[??]] काष्ठ-रज्ज्वादिकं प्रोक्षणात्। उच्छिष्ट-स्पर्शने ताम्र-कांस्यमयम् अङ्गारेण वस्त्रं जल-शौचेन मृण्मयं परित्यागेन शुध्यतीत्य् अर्थः।

वत्सः प्रस्नवने मेध्यः शकुनिः फल-शातने।
स्त्रियश् च रति-संसर्गे श्वा मृग-ग्रहणे शुचिः॥
त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयत्।
अदृष्टम् अद्भिर् निर्निक्तं यच् च वाचा प्रशस्यते॥

शूद्र-भांड-स्थित-मधु-पयस् तद्-विकाराश् च पात्रात् पात्रान्तर-नयनेन शुद्धाः। देवलः –

दि[[??]] संस्पृष्टं धान्य-मूल-फलानि वा।
प्रक्षालनेन शुध्येत परित्यागेन मृण्मयम्॥

पराशरः –

वापी-कूप-तटाकानं दूषितानां मलादिभिः।
उद्धृत्य शत-कुम्भाम्बु पञ्च-गव्यं विनिक्षिपेत्॥
वापी-कूप-तटाकानाम् एवं शुद्धिर् विधीयते।
अल्पानाम् एव पयसां महत्सु न तु दूषणम्॥

तथा विज्ञानेश्वरे –

मूत्र-पुरीषाद्य् उपहता आपः सोम[[??]]-सूर्यांशु-मरुत्-स्पर्शनेन शुद्धा

इति॥ स्मृत्यन्तरे –

गण्डूष-करणं यस् तु कुर्याद् वैमुक्त-भाजने।
भूमौ निक्षिप्य षड्-रात्रं परिलेखनम् आचरेत्॥

याज्ञवल्क्यः –

सोमश् शौचं ददौ स्त्रीणां गन्धर्वस् तु शुभां गिरम्।
पावकस् सर्व-मेध्यत्वं मेध्या वै योषितो ह्य् अतः॥
विप्रस् तु पादतो मेध्यो गावो मेध्यास् तु पृष्ठतः॥
गजाश्वा मुखतो मेध्याः स्त्रियो मेध्यास् तु सर्वशः॥

वैखानसे –

आतुरे बाले महानसे च सदा शौचं न विचारणीयम्।

स्त्री-शुद्धिर् अर्थ-शुद्धिश् च यस्य नास्त्य् अपि धर्मवान्।
स एव नरकं याति शिरश्-छेदे कुतो भिषक्॥

[[171]]

बोधायनः –

यदैव सोम-संयोगाच् चमसो मेध्य उच्यते।
अपां तथैव संयोगान् नित्यो मेध्यः कमण्डलुः॥
ततश् शौचं ततः पानं सन्ध्योपासनम् एव च।
निर्विशंकेन कर्तव्यं नित्यो मेध्यः कमण्डलुः॥

अत्र कमण्डलु-शब्देन ताम्र-कांस्यादि-पात्रम् उच्यते, न तु नारिकेल-फलम्।

दीर्घ-कालं ब्रह्म-चर्यं धारणञ् च कमण्डलोर्

इति कलौ तस्य निषिद्धत्वात्; नापि मृण्मयं वेणु-दारुमयं वा।

यति-पात्राणि मृद्-वेणु-दार्व्-अलाबुमयानि च

इति तस्य सन्यासि-विषयत्व-स्मरणात्;

प्रायश्चित्तैर् अपैत्येनो[[??]] याजनाध्यापनैः कृतम्।
प्रतिग्रह-निमित्तन् तु त्यागेन तपसैव वा[[??]]

इति। तन् न केवल-तपसा शुद्धि-परम्,

षष्ठांशं कर्म[[??]] दद्यात् पञ्चमांशं तथा वणिक्।
प्रतिगृह्य-चतुर्थांशं दत्त्वा पापैः प्रमुच्यते॥

इत्य् उक्त-तुरीयांश-दानेन तपसा कृच्छ्र-चान्द्रायणादिना शुद्धि-परम्।

यद् गर्हितेनार्जयति कर्मणा ब्राह्मणो धनम्।
तस्योत्सर्गेण शुध्येत जप्ये न तपसैव च

इति स्मृते।

रत्नाकरे –

आसनं शयनं वस्त्रं जाया ऽपत्यं कमण्डलुः।
आत्मनश् शुचिर् एतानि परेषाम् अशुचिर् भवेत्॥