०९ हविष्-पाक-विधिः

माधवीये –

अभक्ष्यस्य निवृत्त्या तु
विशुद्धं हृदयं भवेत्।
अभक्ष्य-भक्षणाच् चित्तम्
अशुद्धं भवति ध्रुवम्॥

मरीचिः –

अथ हविर् विधिं वक्ष्ये
वैणुकान् यवान् षष्टिकान् नीवारान् प्रियङ्गून् शालि-भेदान् अन्यान् व्रीहीन् वा ऽप्य् एकजातीयांश् चातुर्वर्ण्यैर् एवानयेद् एतेषां पूर्वं पूर्वं श्रेष्ठं तस्माद् वरक-कोद्रवादि-कु-धान्यानि[[??]] प्रतिलोमानि तानि च वर्जयेत्।

द्राविड-टिप्पनी

वेणुका - मूङ्गिलरिशी[[??]], षष्टिक- रार् नेल्लु[[??]], नीवार - [[??]] नेल्लु, प्रियङ्गु - त्राङ्गल्[[??]], शालि-भेदान् - राजान्नं दीप-मल्लिकै मुदलान वै[[??]], अन्य-व्रीहि - मळ्ळुळ्ळनेल्लुक्कळ्[[??]], एक-जातीय - ओरु जातीयान नेल्लु[[??]], वरक कोद्रव - वरकु भेदङ्गळ्[[??]], कु-धान्यं - शोल कम्बु मुदलानवै[[??]], प्रतिलोमा हीन-जातीयः।

गोधूम-तिल-शिम्ब-भेद-मरीचि-सर्षप-मुद्ग-कुलुत्थ[[??]]-तिल-माष-मसूरक-जीरकादीनि ग्राह्याणि।

द्राविड-टिप्पनी

शिम्ब-भेद - वेळुत्तवरै मुदलानदु, मुद्गं - पयर् भेदङ्गळ्, कुळुत्थ - वळ्ळैकोळ्ळु, तिल - एळ्ळु, मसूरक - कडलै,

कृष्ण-धान्यानि प्रियङ्गूद्दाल-शिम्ब-कुळुत्थादीनि त्याज्यानि,

द्राविड-टिप्पनी

कृष्ण-धान्यानि - उळुन्दुपयर् व्यतिरिक्तमान करुत्त धान्यङ्गळ्, उद्दाल - शोळं, शिम्ब- करुत्तवरै, कुळुत्थ - करुङ्कोळ्ळु,

आर-नाल-द्वयञ् चैव विशेषेण विवर्जयेत्॥

द्राविड-टिप्पनी

आर-नाल-द्वयं - त्रिफलै योडे कूडिनकाडियुम् वेरुङ्काडियुम्।

यस्याम् अन्तः कुण्डिकायां त्रि-फला निहिता भवेत्।
तस्यास् तु कञ्चिका ग्राह्या नेतरस्याः कदाचन

इति विज्ञानेश्वरोक्तम् आपदि स्वार्थं, न देवतार्हम् इत्य् अर्थः।

पद्म-कन्द-सूरण-कन्द-क्षुद्र-कन्द-महा-कन्द-पल्ली-कन्द-श्रिं गिबेरोत्पल-कन्द-पिण्डीत-कन्द-शकुट-कन्दादीन्य् एक-मूलानि च हिङ्गु च ग्राह्याणि।

[[162]]

द्राविड-टिप्पनी

पद्म-कन्द - तामरैक्मिल्लिङ्गु, क्षुद्र-कन्द - शिरुकिल्लिङ्गु, सूरण-कन्द- करणै, महा-कन्द - पेरुंकिल्लिङ्गु, उत्पल-कन्द - शेङ्गल्लिनीर् किल्लिङ्गु, पिण्डीतक-कन्द - (नास्त्य् अर्थः) शकुट-कन्द- शेम्बु, एक-मूलानि - माकळिक्किल्लिङ्गु, हिङ्गु - वेळुत्तपेरुङ्गायम्,

रक्तन् तु त्याज्यम्, श्रूतिः -

अथो खलु य एव लोहितो यो वा वृश्चनान् निर्येषति
तस्य नाश्यं
कामम् अन्यद्

इति श्रुतेः “लोहित वृश्चनानिचे”ति स्मृतेश् च

सूरण-द्वयं हिङ्गु-लशुन-जाति-सर्वं ह्य् उत्पल-त्रयं कुमुद-द्वयं शृङ्गाटम् इत्यादीन्य् अङ्कुराणि वर्जयेत्।

द्राविड-टिप्पनी

सूरण-द्वयं - काट्टुक्करणै अम्मणन्ताल्, हिङ्गु - शिवन्द पेरुङ्गायं, उत्पल-त्रयं - आम्बल् शेवल्लि, कुमुद-द्वयं - नेय् तल् करीनेय् तल्, शृङ्गाटम् - किट्टिक्किल्लिङ्गु, अङ्कुरं - मूङ्गिल् कुरत्तु, इवैत्तिल् तण्डुं किल्लिङ्गुं त्याज्यम्।

झरस्य्-अरक्त-बाष्प-पिण्डीकृत-जीवन्ती-भाञ्जि-शकुट-दशालर्क-पिण्डीकृतागस्त्य-शत-पर्व-कालशाकादीनि शिम्ब-मुद्ग-तुम्बी-दलादीनि च ग्राह्याणि।

द्राविड-टिप्पनी

झरसि - तुरायि, बाष्पं - कीर्ते, अरक्त-ग्रहणात् शङ्कीरै त्याज्यम्। पिण्डीकृत - माङ्गारै, जीवन्ती - पालै, भाञ्जि - मुशुट्टै, शकुट - शेम्बु, नीर् शेम्बु। अलर्क - तूदुवलै, पिण्डीकृत - मुन्नै, अगस्त्य - वळ्ळैयात्ति, शत-पर्व - नरुट्टै, कालशाक - करुवेपलै, शिम्बि अवरैयिलै, मुद्ग - इयरिलै[[??]], तुम्बी-दल - काय् नीण्डशुरै यिलै।

[[163]]

शृङ्गाट-नालीक-सुनिषण्णक-तण्डुलीय-शिग्रु-गृञ्जन-रक्त-बाष्प अगस्त्य-भूस्तृण-लशुन-द्रोण-पत्र-सुरस-लिङ्ग-ग्राम-पुष्प-त्रिकर्णिकादीनि त्याज्यानि।

द्राविड-टिप्पनी

शृङ्गाट - नेरिञ्जिलिलै, नालीक - वेळ्ळै शिरुकाञ्जोरि, सुनिषण्ण- आरै, तण्डुलीय- शिरुक्कीरै, शिग्रु - वेळ्ळैमुरुङ्गै, गृञ्जनं - शेम्मुरुुङ्गै मुदलान वै, रक्त-बाष्प- शिवन्दकीर्ते, अगस्त्य - शिवन्दात्ति, भूस्तृण - पेरुण्डेक्कु, द्रोण-पत्र- तुम्बैयिलै, सुरनोच्चिल्।

कदली-जाति-भेद-कूश्माण्डोर्वारुक-बृहती-भेद-कारवल्ली-भेदार्द्राच्युत-सिंही-व्याघ्री-व्याघ्र-नखी-कार्कटक-कर्कर्यलाबु-गवाक्षी-त्रपुसादीनि-सहकार-भेदामलक-पनस-द्वय-कर्कन्धु-करवन्त-नारिकेल-तिन्त्रिणी-जम्बीर-कपित्थ-द्राक्षा-राजादन-जम्बू-फल-खर्जूर-वेत्रज-मातुलङ्ग-दाडिमादीनि च ग्राह्याणि

द्राविड-टिप्पनी

कदली-जाति-भेद - पोदेपेयणनवरै मुदलानवै, कूश्मांड - पूषणिक्काय्, उर्वारुक - वेळ्ळरि, बृहती-भेद - कत्तारि, मुळ्ळुकत्तारि, शङ्कत्तारि, कार-वल्लि-भेद- मेदिपाकल् कोल्लुकोम्बुप्पाकल् काट्टुप्पाकल्, आर्द्र - पुडलङ्काय्, अच्युत - शुण्डक्काय्, सिंही - शिरुवल्लुतलै, व्याघ्री - कण्डङ्कत्तारि, व्याघ्र-नखी - पुङ्गै, कार्कोटक - पल्लुप्पाकल्, कर्करि - कक्करिक्काय्, अलाबु - नीण्डशुरैक्काय्, गवाक्षि - तुङ्गतक्काय्, त्रपुस - कत्तारिभेदं, सहकार-भेद - तेमा मञ्जल् मा मलैमा मुदलानवै, पनस-द्वय - पला ईरप्पला, कर्कन्धु - इलन्दै, तुडरिशुडैयुम्; करवन्त - पेरुङ्कलाक्काय्; राजादन - पालै प्पल्लिम्, खर्जूर - पेरीच्चु, मातुलङ्ग - मादलै, दाडिम - कोम्मडिमादलै।

कोशातकी-बिम्बालाबु-पटोलिका-श्वेत-वृन्ताक-कलिङ्ग-श्लेष्मातक-भाण्ड-नारद-फल-हस्ति-तुण्डादीनि अन्यान्य् अपि तिल-पिष्ट-मूलकादीनि त्याज्यानि।

द्राविड-टिप्पनी

कोशातकी - पेरुम्पीर्कङ्काय्, बिम्ब - कोवै, अलाबु - गुण्डुशुरैक्काय्, पटोलिका - पेप्पडल्, श्वेत-वृंताक - वेल्लैक्कत्तारि, वेल्लै शिरुवल्लुतलै, कलिङ्ग - कोम्मट्टि, श्लेष्मातक - शिळ्ळैक्काय्, भाण्ड-नारद - ताल-फलं, श्री-फलं - बिल्वम्, हस्ति-तुण्ड - पान्दाट्टि, तिल-पिष्ट - पुणाक्कं, मूलक - मुल्लङ्गि।

[[164]]

एवम् अन्यान्य् अपि राज-माष-महा-माष-श्यामाकादीनि त्याज्यानि स्मृतिषु द्रष्टव्यानि। ग्राह्येष्व् अप्य् अमेध्य-प्रभव-वल्ली-फलानि त्याज्यानि, वृक्ष-फलानि त्व् अत्याज्यानि। तथा बोधायनः –

अमेध्येषु च ये वृक्षा उप्ताः पक्व-फलोपगाः।
तेषाम् अपि न दूष्यन्ति पुष्पाणि च फलानि च॥

वृक्ष-ग्रहणात् पटोलादि वल्ली-फल-निषेधः।

भृगुः –

त्रि-वर्षातीत-धान्यानि न प्रशस्तानि वैदिके।
तंडुलान् अपि सर्वांश् च मासाद् ऊर्ध्वं विवर्जयेत्॥
मृण्मये तु नवे पात्रे पचनं श्रेष्ठम् उच्यते।
अलाभे लोहपात्रे वा पाचयेत विधानतः॥

पाद्मे –

हविर्-योग्या यज्ञियास् स्युर् धान्य-भेदांस् त्यजेद् इमान्।
नीच-दत्तांस् तथा स्पृष्टान् पतितैः प्रतिलोम-जैः॥
आशौच-वद्भिर् अपरैर् अपक्वाः कलमादयः।
शस्यन्ते चरु-पाकेषु पक्वाश् च तद् अलाभतः॥

शाण्डिल्यः –

गृहिणी-प्रमुखास् सर्वा गायन्त्यः पुरुषोत्तमम्।
बाल-क्रीडादि-चरितैः कर्म कुर्युर् अतन्द्रिताः॥

रत्नाकरे –

यः कुर्याद् वस्त्र-पूतेन सर्व-कर्माणि वारिणा।
स मुनिस् स महा-साधुस् स योगी स हरिं व्रजेत्॥

शाण्डिल्यः –

तण्डुलाम्भः-कणं तद्वद् अन्न-निस्रावम् एव च।
संविभागात् पुरा सर्वम् उपयोगं न चार्हति॥

अन्न-निस्रावम् एव चेत्य् अनेन स्रावि सर्वं परित्यजेद् इत्यस्य पाक्षिको ऽवगम्यते।

द्राविड-टिप्पनी

संविभागो - निवेदनं, तण्डुलाम्भः - कत्तिनीर्, कणं- नेंय्यमुदुपडि।

[[165]]

जीरकाज्य-विमिश्राणि नारिकेल-युतानि च।
स-मरीचानि कार्याणि व्यञ्जनानि रसैस् सह॥
पयो-मिश्राणि शाकानि हिङ्गु-मिश्राणि साधयेत्।
अग्नौ प्रज्वलिते सम्यक् पाचयेद् ओदनादिकम्॥
नोपशाम्योपशाम्याग्निं न मन्दं नापि सत्वरम्।
नावतार्यावतार्याधो नान्य-बुद्धिः पचेद् अपि॥
आसुरं स्याद् विदग्धन् तु अपक्वं रौद्रम् उच्यते।
दैवं शृणु तमेवातः शृणु च तद्-हविः॥
केश-कीटादिभिर् जुष्टं विदग्धं अशृतञ् च यत्।
शाकोदनादिकं सर्वं सर्वदा परिवर्जयेत्॥

भक्ष्याभक्ष्य-नियामन्तरम्

अथान्यदपि भक्ष्याभक्ष्य-विषयं किञ्चिद् उच्यते; स्मृति-माधवीये –

विविधं गर्हितं प्राहुर् नित्यम् अन्नं मनीषिणः।
जातितो गर्हितं चैव तथैवाश्रय-गर्हितम्॥
लशुनादिकम् अन्नं यत् तत् ज्ञेयं जाति-गर्हितम्॥
अभोज्यान्नं द्विजातीनां अन्नम् आश्रय-गर्हितम्।
जाति-दुष्टं क्रिया-दुष्टं कालाश्रय विगर्हितम्॥
संसर्गाश्रय-दुष्टञ् च सुहृल्-लेख्यं परित्यजेत्।
नभक्षयेत् क्रिया-दुष्टं यद् दुष्टं पतितैः पृथक्॥
काल-दुष्टन् तु तत् ज्ञेयं अस्तुतञ् च रसं स्थितम्॥

अस्तुतं - अस्नेहाक्तं,

सुरा-लशुन-संस्पृष्टं भाव-दुष्टं पराशरः।
संसर्गाद् दुष्यते तद् धि शूद्रोच्छिष्टवद् आचरेत्॥
विचिकित्सा तु हृदये अन्ने यस्मिन् प्रजायते।
सुहृल्-लेख्यन् तु तत् ज्ञेयं पीयूषन् तु स्वभावतः॥

इदम् एव क्रिया-दुष्टं भाव-दुष्टञ् च। पराशरः –

लशुनं गृञ्जनञ् चैव पलाण्डु-कवकानि च।
वार्ताक-नालिकालाबून् जानीयाज् जाति-दूषितान्॥

निमित्त-दुष्टम् आह देवलः –

विशुद्धमपि चाहारं मक्षिका-क्रिमि-जन्तुभिः।
केश-रोम-नखैर् वापि दूषितं परिवर्जयेत्॥
अवलीढं श्व-काकाद्यैर् ध्वांक्ष-कुक्कुट-मूषकैः।
भोजने नोपयुञ्जीत तद्-अमेध्यं हि सर्वदा॥

[[166]]

संवर्तः –

घ्राणेन सूकरो हन्ति पक्ष-वातेन कुक्कुटः।
श्वा तु दृष्टि-निपातेन स्पर्शेनावर-वर्ण-जः॥

[[??]] आपदि तु पराशरः –

गो-घ्राते ऽन्ने तथा कीट-मक्षिका-केश-दूषिते। सलिलं भस्म-मृद्वापि प्रक्षेपव्यं विशुद्धये॥
बालैर् नकुल-मार्जारैर् अन्नम् उच्छिष्टं यदा।
तिल-दर्भोदकैः प्रोक्ष्य शुध्यते नात्र संशयः॥

काल-दुष्टम् उक्तम् अपरार्के –

दिवा-कपित्थ-फलकं रात्रौ दधि-मधूनि च।
धात्री-फलं च सप्तम्यां अलक्ष्मीर् वसते सदा॥

भुञ्जानस्येति शेषः।

भानु-वारे दिवा-रात्रं सप्तम्याञ् च तथा दिवा।
धात्री-फलं नरस् स्वाद्य ह्य् अ-लक्ष्मीको भवेत् सदा ॥ वीर्य-हानिर् यशो-हानिः प्रजा-हानिस् तथैव च। भवेद् यस्मात् ततो रात्रौ धात्रीं यत्नेन वर्जयेत्॥

धात्री - नेल्लिक्काय्, मनुः –

धानाः खादेन् न च दिवा दधि-सक्तूंस् तथा निशि।
सर्वञ् च तिल-सम्बन्धं नाद्याद् अस्तमयं प्रति॥
तिक्तार्द्रक-दधि-श्राणा-तिल-शाकानि [[??]]दन्।
त्यज्यते रूपवान् श्रीभिः [[??]]णि दूरतो यथा॥

द्राविड-टिप्पनी

धानाः - पोरि, सक्तु - पोरिपिंडि, तिक्त - कशित्तवै, आर्द्रक - इञ्जि, श्राणा - कुकरै,

अपि प्रस्थान-समये रात्रौ दधि न भक्षयेत्[[??]]।
मधु-पर्क-प्रदानन् तु वर्जयित्वा विशेषतः।

समन्तुः –

कूश्माण्डं बृहतीञ् चैव तरुणी मूलकं तथा।
श्री-फलञ् च कलिङ्गञ् च धात्रीं प्रतिपदादिषु॥
शिरः कपालम् आन्त्रञ् च नख-चर्म-तिलानि च।
आम्लम् आमलकं चैव अष्टम्यादिषु वर्जयेत्॥

द्राविड-टिप्पनी

तरुणी - ताल्लिंपुष्पं, मूलकं - मुल्लङ्गि, श्री-फलं - कूवलाङ्गाय्, कालिङ् - कोम्मटि, शिरः - तेङ्गाय्, कपालं - शुरैक्काय्, आन्त्रं - पुडलङ्गाय्, नख-चर्म - कुरुञ्जिल्, आम्ल - पिन्निक्काय्,

अत्र निषिद्धानाम् अपि तिथि-निबंधनत्वेन निषेध आहिताग्न्य्-अनृत-निषेधवद्-दोषाधिक्य-प्रदर्शन-परः।

[[167]]

भोधायनः –

ओदनन् तु पुनः पक्वं नारिकेल-रसं तथा।
तथा तोयम् अभूमिष्ठं ब्राह्मणो नैव भक्षयेत्॥

मनुः –

दधि-भक्ष्यञ् च शुक्तेषु सर्वञ् च दधि-सम्भवम्।
यानि चैवाभीषूयन्ते पुष्प-मूल-फलैश् शुभैः॥
यत् किञ्चित् स्नेह-संयुक्तं भक्ष्य-भोज्यम् अगर्हितम्।
तत्-पर्युषितम् अप्य् अद्यं हविश्-शेषञ् च यद् भवेत्॥

यानि पक्वानि पुष्पमूलफलैः अभिषूयन्ते शुक्तानि द्वित्रापि भवन्ति, तानि दधि दधि-सम्भवं तक्रादि, स्नेह-युक्तं भक्ष्य-भोज्याधिकम् अप्य् अगर्हितं - ग्राह्यम् इत्य् अर्थः, पर्युषितत्व-दोषाभावात्; शूक्तानि स्वयम् एवाम्ल-भूतान्य् अपि

नापणीयम् अन्नम् अश्नीयात् तथा रसानाम् आम-मांस-मधु-लवणानीति परिहाप्य तैल-सर्पिषी तूपयोजयेद् उदके ऽवधाय कृतान्नं पर्युषितम् अखाद्यापेयानाद्यं, शूक्तञ् च फाणित-पृथुक-तण्डुल-करम्भ-भरुज-सक्तु-शाक-मांस-पिष्ट-क्षीर-विकारौषधि-वनस्पति-मूल-फल-वर्जम्

इति। अस्यार्थः = आपणीयं - विक्रय-वीथी-स्थं[[??]], सर्वम् अन्नं नाद्यात्, रसानां मध्ये आम-मांसादि-ग्राह्यम्। तथा तैल-सर्पिषी आपणीये सर्वदोपयोजयेत्, तथा कृतान्नं पक्वान्नं पर्युषितं रात्र्य्-अन्तरितं रात्रौ जले निहितम् उपयोजयेत्, उदके निक्षिप्तस्य पर्युषितत्वं नास्तीत्य् अर्थः।

स्मृत्यन्तरे –

एकं पुनश् शृतं वह्नौ जले क्षिप्तं तथोदनम्।
तीर्थं पर्युषितं भोज्यं यच् चान्यत् स्नेह-संयुतम्॥

अतो जले निक्षिप्तान्न-भोजने शिष्ट-गर्हा मध्याह्न-कृत्याकरण-निबन्धनैव, न हि प्रातर् वैश्व-देव-पञ्च-महा-यज्ञानुष्ठानं संभवति, अकालत्वात्; प्रकृतम् आख्यायते - शूक्तं पर्युषितञ् च न भक्ष्यम्, फाणितादि-भक्ष्यम् एव,

फाणितम् - वेल्लप्पाकु, पृथुक - अवल्, तण्डुल - पुल्लिङ्गलमुदुपडि,

हरिद्रा गो-रसं चूर्णं लवणं धान्यम् औषधम्।
नत्व् एषां पाक-दोषो ऽस्ति क्रमुकस्य गुडस्य च

इति स्मृतेः।

[[168]]

द्राविड-टिप्पनी

करम्भः - दधि-सक्तु-समाहारः, भरुजः पोरि, वरुत्त अनरै मुदलारवै, क्षीर-विकाराः - तयिर् मोर् नेय् मुदलानवै, मूल-फलं - माकळिक्कि अङ्गं इञ्जि नार्त्तङ्गाय् मुदलान ऊरकाय् माळ्।

याञ्जवल्क्यः –

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिर-संस्थितम्।
अस्नेहा अपि गो-धूम–यव–गो-रस-विक्रियाः॥

यमः –

शाकं मांसम् अपूपञ् च सूपङ् कृसरम् एव च।
यवागूः पायसं चैव यच् चान्यत् स्नेह-संयुतम्॥

सर्वं पर्युषितं भोज्यं स्नेहाक्तं चिर-संस्थितम्॥

कृसरो - गुड-मिश्र-तिलः पराशरः –

अपूपाश् च करम्भाश् च धाना-वटक-सक्तवः।
शाकं मांसं फलं मूलं सूपञ् च कृसरं यवाः॥
पृथुकाः पायसञ् चैव पर्युष्यन्ति न तु क्वचित्

इति। वटक-शब्दो ऽत्र माष-कृत-वटक-वचनः,

द्राविड-टिप्पनी

वटक - अप्पलां उलुन्दुवटकं मुतलानवै,

रत्नाकरे –

मण्डूक-पर्णी जीवन्ती कुबेराक्षी च पिप्पलि।
आगस्ती वैष्णवी-शाकी विष्णु-भक्ति-विवर्धिनी॥
गौळी भाञ्जी च मत्स्याक्षी मुद्ग-शिम्बाभ्र-तुम्बिकाः।
निर्लतो पोतकी चैव कालङ्गालर्क-नाशिनी॥

द्राविड-टिप्पनी

मण्डूक-पर्णी - वल्लारै, जीवन्ती - पालै, कुबेराक्षी - गौळीवशिरि, भाञ्जी - मुळुट्टै, मत्स्याक्षी - पोन्नाङ्गाणि, निर्लतो पोतकी - गोत्तुवशळै, कालङ्ग - कारै, अलर्क - तूदुवळै,

चन्द्रिकायाम् –

वृन्ताकतक[[??]] -कालिङ्ग-बिल्वोदुम्बर-भिस्सटाः।
उदरे यस्य वर्तन्ते तस्य दूरतरो हरिः॥

भिस्सटाः - कान्दल्,

नारिकेलं कांस्य-पात्रे ताम्र-पात्रे स्थितं मधु।
गव्यञ् च ताम्र-पात्रस्थं मद्य-तुल्यं घृतं विना॥

[[169]]

वृद्ध-हारीतः –

ताम्र-पात्र-युतं गव्यं क्षीरञ् च लक्षणान्वितम्।
घृतं लवण-संयुक्तं सुरा-कल्पं विवर्जयेत्॥
फथे जलं पर्ण-पृष्ठं प्रत्यक्ष-लवणं तथा।
तर्जन्या-दन्त-काष्ठ[[??]] च तुल्यं गो-मांस-भक्षणम्॥

प्रत्यक्ष-लवणं चक्षुर्-ग्राह्यम् एवाभोज्यम्, ओदनाद्य्-अन्तर्हितन् तु भोज्यम् एव।

अथ क्षीर-विषयम् - गो-ऽजा-महिषी-व्यतिरिक्त-सर्वासां क्षीरं तद्-विकारांश् च वर्जयेत्। अत्र अजा-ग्रहणाद् आविकं त्याज्यम्। आविक - मैलकम्। शम्मनियाट्टुप्पाल्, गो-ऽजा-महिषीषु अनिर्दशाहा सन्धिनी विवत्सा यम-सूः स्यन्दिनी लशुन-पलाण्डु-गृञ्जन-भक्षामेध्य-भक्षा[[??]]ज्ञा[[??]]हिता भद्र-काली रुद्रादि-व्यपदेशिनी रुद्र-तद्-आयुधाद्य्-अङ्किता, द्विस्तनीया तस्याः क्षीरं तद्-विकारांश् च वर्जयेत्। अनिर्दशाहा - अनति-क्रान्त-दशाहा, सन्धिनी - या वृषेण सन्धीयते या वेलाम् अति क्रम्य दुह्यते या च वत्सान्तरेण सन्धीयते सा च। विवत्सा - मृत-वत्सा, यम-सूः - यम[[??]] प्रसनिती[[??]], स्यन्दिनी - सदा स्रवत्-क्षीरा। अत्र ब्राह्मण-व्यतिरिक्तस्य कपिला-पान-निषेधम् आह व्यासः –

क्षत्रियश् चापि वृत्त-स्थो वैश्यश् शूद्रो ऽथवा पुनः।
यः पिबेत् कपिला-क्षीरं न ततो ऽन्यो ऽस्ति पातकात्॥

चन्द्रिकायाम् –

कापिलं यत् पिबेच् छूद्रो नरके स च पच्यते।
हुत-शेषं पिबेद् विप्रो विप्रस् स्याद् अन्यथा पशुः॥

अन्यथा – अहुत-शेष-पयः पाने।