पोष्य-वर्ग-विचारः
दक्षः –
तृतीये तु तथाभागे पोष्य-वर्गार्थ-चिन्तनम्। द्रव्यं हि निर्वपेत् तेषां विद्यमान[[??]]नो गृही॥
मनुः –
माता पिता गुरुर् भ्राता प्रजादीनस् समाश्रितः।[[??]]
अभ्यागतो ऽविधिश्वाग्निः[[??]] पोष्य-वर्गे[[??]] उदाहृतः॥ [[??]]
ब्राह्मणादि-वृत्तयः
नारदीये –
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा।
सत्यानृताभ्याम् अपि वा न श्व-वृत्त्या कथं च न॥
ऋतम् उञ्छ-शिलं ज्ञेयम् अमृतं स्याद् अयाचितम्।
मृतं तु याचितं भैक्ष्यं प्रमृतं कर्षणं स्मृतम्॥
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते।
सेवा श्व-वृत्तिर् आख्याता तस्मात् तां परिवर्जयेत्॥
शाण्डिल्यः –
आयाचितं शिलोञ्छैश् च शिष्य-दत्तैः क्रमागतैः।
जीवेत् कर्म-विशुद्धेभ्यः प्रतिगृह्यापि वा ऽशनम्॥
याचितेनापि वर्तेत दैन्यं हित्वा शमे स्थितः।
स्तोका नानेन वा नित्यं प्रतिगेहम् अतन्द्रितः॥
दधि-क्षीर-घृतादीनां लवणस्य पशोस् तथा।
विक्रयिभ्यो ऽपि नादद्याद् अश्व-विक्रयिणस् तथा॥
नाचरन्ति यथोक्तं ये तेभ्यो ऽपि भृतकार्चकात्।
बलि-प्रहारिणश् चैव बलीवष्टस्य[[??]] साक्षिणः॥
भगवन्तं तथा विप्रान् पञ्च-काल-परायणान्।
भगवन्-मन्दिरञ् चैव पुण्य-तीर्थानि सर्वदा॥
द्विषतश् चैव नादद्यान् निक्षेपस्यापहारिणः॥
प्रतिलोम्याच् च जातेभ्यः तथा चानृत-जीविनः।
कौसीदकात् तथा भोक्तुः श्राद्धस्य सततं तथा॥
कौसीदकः - वार्धुषिकः,
न ग्राम-याजकेभ्यश् च नागम्या-गामिनस् तथा।
वणिग्भिश् च तथा शूद्राद् विसृष्टाग्नेश् च नाहरेत्॥
बिम्ब-प्रस्थापकाच् छैव तथा शिल्पोपजीविनः। [[??]] परिस्रस्ताच्छनष्टाच् च शूद्र-शिष्याच्छ नाहरेत्॥ [[??]] उद्यतश् चापि नादद्याद् अन्य-देवावलम्बिनः।
क्रमागतैर् धनैर्व वा ऽपि स्व-क्षेत्राराम-सम्भवैः॥
भगवद्-भक्ति-पूतेभ्यो विप्रेभ्यो याचितैस् तु वा।
श्रोत्रियाध्यापको भूत्वा वृत्तिं वा लभते द्विजः॥
[[159]]
स्तोकादाने पात्र-लक्षणम् आह हारीतः –
वैष्णवो वेत्र-पात्रेण फलस्यामलकस्यवत्[[??]]। पञ्च-विंशति-वादेन प्रमाणन् तु शिव-त्रयम्॥
अत्र पराशरः –
अतः परं गृहस्थस्य
कर्माचारं कलौ युगे।कर्म-साधारणं शक्त्या
चातुर्वर्ण्याश्रमागतम्॥
सम्प्रवक्ष्याम्य् अहं पूर्वं
पराशर-वचो यथा।षट्-कर्म-निरतो विप्रः
कृषि-कर्म च कारयेत्॥
स्वयङ् कृष्टे तथा क्षेत्रे
धान्यैश् च स्वयमार्जितैः।
निर्वपेत् पञ्च-यज्ञांश् च
क्रतु-दीक्षाश् च कारयेत्॥क्षत्रियो ऽपि कृषिं कुर्याद्
द्विजान् देवांश् च पूजयेत्।
वैश्यश् शूद्रस् तथा कुर्यात्
कृषिं वाणिज्य-शिल्पकम्॥विकर्म कुर्वते शूद्रा
द्विज-शुश्रूषयोज्झिताः।
भवन्त्य् अल्पायुषस् ते वै
निरयं यान्त्य् असंशयम्॥चतुर्णाम् अपि वर्णानाम्
एष धर्मस् सनातनः॥
बोधायनः –
वेदः कृषि-विनाशाय कृषिर् वेद-विनाशिनी।
शक्तिमान् उभयं कुर्याद् अशक्तस् तु कृषिन् त्यजेत्॥
सन्ध्या-स्नानं जपो होमो देवतानाञ् च पूजनम्।
वैश्वदेवातिथेयञ् च षट्-कर्माणि दिने दिने॥
राज्ञे दद्यात् तु षड्-भागं देवानाञ् चैक-विंशकम्।
विप्राणां विंशकं भागं (त्रिंशद्-भागं ब्राह्मणानां) ततः पापैः प्रमुच्यते॥
मनुः –
सद्यः पतति मांसेन लाक्षया लवणेन च।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीर-विक्रयात्॥
एका गौर् न प्रतिग्राह्या द्वितीया न कदाचन।
सा चेद् विक्रयम् आपन्-नाद-हत्या सप्तमं कुलम्॥
क्रीताः प्रतिगृहीताश् च न विक्रेयास् तिलाः स्मृताः॥
मनुः –
वृद्धौ च माता-पितरौ साध्वी भार्या सुतश् शिशुः।
अप्य् अकार्य-शतं कृत्वा भर्तव्या मनुर् अब्रवीत्॥
[[160]]
चतुर्-विंशति-मते –
सीदंश् च प्रतिगृह्णीयाद् ब्राह्मणेभ्यस् ततो नृपात्।
ततश् च वैश्य-शूद्रेभ्यश् शङ्खस्य वचनं यथा॥
हेमाद्रौ –
असत्-प्रतिग्रहः[[??]] प्रोक्तो देशतः कालतस् तथा।
स्व-रूपतो जातितश् च कर्मतश् चेति पञ्चधा॥
देशः - गया-गङ्गा-सेत्व्-आदिः[[??]], कालः - ग्रहणादिः, स्व-रूपं मेषी-कृष्णाजिनादि, कर्म - पतनीय-वृत्तिः। रत्नाकरे –
प्रतिग्रह-रुचिर् न स्याद् यात्रार्थन् तु समाहरेत्।
स्थित्य्-अर्थाद् अधिकं गृह्णन् ब्राह्मणो यात्य् अधोगतिम्॥
अतस् स्थित्य्-अर्थ-मात्रे सत्-प्रतिग्रहे न दोषः।
अभ्युष्णात् सघृताद् अन्नाद् अच्छिद्राच् चैव वाससः। [[??]] अपर-प्रेष्य-भावाच् च भूय इच्छन् पतत्य् अधः॥
न्यायार्जितस्य वित्तस्य द्वाव् अनर्थौ प्रकीर्तितौ।
आपात्रे प्रतिपत्तिश् च पात्रे चाप्रतिपादनम्॥
सुमन्तुः –
दूरस्थम् अपि सत्-पात्रं मनसा चिन्त्य विष्णुवत्।
भूमौ निक्षिप्य तोयं तद् द्रव्यं तत्र प्रदापयेत्॥
शातातपः –
वेदाक्षराणि यावन्ति नियुञ्ज्याद् अर्थ-कारणात्।
तावतीं ब्रह्म-हत्यां वै वेद-विक्रय्य् अवाप्नुयात्॥
मनुः –
प्रख्यापनं प्राध्ययनं प्रश्न-पूर्व-प्रतिग्रहः।
याजनाध्यापने वादष् षड्-विधो वेद-विक्रयः॥
मनुः –
शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणिं दधि।
मत्स्यं धानाः पयो मांसं शाकञ् चैव न निर्नुदेत्॥
अयाचितानि देयानि सर्व-दानानि यत्नतः।
अन्नं विद्या च कन्या च ह्य् अनर्थिभ्यो न दीयते॥
[[161]]