दक्षः – द्वितीये तु तथाभागे वेदाभ्यासो विधीयते। वेद-स्वीकरणं पूर्वं विचारो ऽभ्यसनं जपः॥ तद्-दानञ् चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा॥ मनुः – यो ऽनधीत्य द्विजो वेदान् अन्यत्र कुरुते श्रमम्। स जीवन् एव शूद्रत्वम् आशु गच्छति सान्वयः॥ [[158]]