०७ वेदाभ्यासः

दक्षः –

द्वितीये तु तथाभागे वेदाभ्यासो विधीयते।
वेद-स्वीकरणं पूर्वं विचारो ऽभ्यसनं जपः॥
तद्-दानञ् चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा॥

मनुः –

यो ऽनधीत्य द्विजो वेदान् अन्यत्र कुरुते श्रमम्।
स जीवन् एव शूद्रत्वम् आशु गच्छति सान्वयः॥

[[158]]