अत्र श्रुतिः –
प्रसृतो मावै यज्ञोपवतिनो यज्ञो प्रसृतो ऽनुपवीतिनो यत् किञ्च ब्राह्मणो यज्ञोपवीत्यधीते यजत एव तत् तस्माद्यज्ञोपवीत्येवाधी[[??]] याजयेद्यजेत वा यज्ञस्य प्रसृत्या अजिनं वासो वा दक्षिणत उपवीयदक्षिणं बाहुमुद्धरते[[??]] ऽवधत्ते सव्यमिति यज्ञोपवीतमेतदेव विपरीतं प्राचीनावीति[[??]] संवीतं मानुषम् [[TODO: परिष्कार्यम्]]
इति। गृह्यरत्ने –
एकोपवीतं धार्यं स्याद् आद्यन्ताश्रमिणोर्ध्वयोः।
गृह-स्थानां वन-स्थानाम् उपवीत-द्वयं स्मृतम्॥
एकोपवीतं धार्यं स्याद् आद्यन्ताश्रमिणोर्द्वयोः।
दशाष्टौ वा गृहस्थस्य चत्वारि वनवासिनः
इति। भरद्वाजो “बहून्य् आयुष्कामस्ये”त्यादि काम्यं प्रचक्षते।
एकम् एव यतेस् सूत्रं साजिनं ब्रह्म-चारिणः।
गृहस्थानां वनस्थानाम् उपवीत-त्रयं स्मृतम्॥
इदम् उत्तरीयालाभ-विषयम्। तथा भरद्वाजो ऽपि –
यज्ञोपवीते द्वेधार्ये श्रौते स्मार्ते च कर्मणि।
तृतीयम् उत्तरीयार्थं वस्त्राभावे तद् इष्यते॥
इदं यज्ञोपवीतं ब्राह्मणैः प्रतिष्ठितम् एव धार्यम् अन्यैर् अप्रतिष्ठितम् इति विवेकः। तथा गृह्यरत्ने –
सुसंस्कृतम् इदं धार्यं ब्राह्मणैर् वेद-पारगैः।
अन्यैर् असंस्कृतं धार्यं जाति-ज्ञानाय केवलम्॥
[[155]]
यज्ञोपवीत-प्रतिष्ठा
स्वाध्याय-दिनसे शुक्ल-पक्षे पूर्वाह्णे प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य देवागारे नदीतीरे गोष्ठेषु वा शुचौ देशे सुस्नातः प्रयतो धृतोर्ध्व-पुण्ड्रोत्तरीयो द्विर् आचान्तो दर्भासने प्राङ्-मुख उदङ्-मुखो वा समुपविश्य प्राणानायम्य शुचिभिर् निर्मितं कार्पास-सूत्रम् आदाय प्रणवेनाभिमन्त्र्य “आपो वा इद”मित्य् अद्भिर् अभिषिच्य सप्त-प्रणव-पूर्व-व्याहृति-त्रयं जपित्वा चतुर्-अङ्गुल-मानेन दक्षिण-हस्तेन षण्णवति-सङ्ख्यया तत्-सूत्रम् अच्छिन्नं त्रिगुणी-कृत्य प्रणव-व्याहृतिभिः प्रक्षाल्य कूर्चोपरि निधाय “आपोहिष्ठा॥ हिरण्य-वर्णाः॥ पवमानस्सुवर्” इत्य् एतैस् तत्-सूत्रं दर्भैर् मार्जयित्वा शुचिना प्रत्यङ्-मुखेन गृहीत-मध्यं गृहीताग्रौ प्राङ्-मुखौ द्वौ विप्रौ स्थित्वा प्रदक्षिण-हस्तोर्ध्व-पाणिभ्यां प्रणव-व्याहृतिभिर् अनुवर्त्य - तत्-सूत्रं सारवित्र्या[[??]] सावित्र्या वा त्रिगुणीकृत्य “प्राणानां ग्रन्थिरसी"ति सूत्राग्रेण पार्श्वयोर् मध्ये च अवेष्ट्य श्लिष्टं कृत्वा प्राक् प्रत्यङ्-मुखौ स्थित्वा वाम-हस्तोर्ध्वं “भूरग्निञ्चे"त्य् अनुवाकेन आचारात्[[??]] “भूर्भुवस्सुव"रित्य् अनुवाकेन च पाणिभ्याम् अनुवर्त्य दर्भैर् घृष्ट्वा शुचौ देशे दर्भास्तृते प्रसार्य द्वौ दर्भौ दत्वा त्रिः कर-ध्वनिं कृत्वा तत्-सूत्र-भ्रमं नावेक्षेत। अनन्तरं तद् आदाय
अश्वत्थादि-याज्ञीय-वृक्षे पितृभ्यो नम
इति बद्ध्वा ऽऽदाय सूत्रं कण्टिलं[[??]] प्रणवेन व्याहृतिभिश् च ऋजू-कृत्य त्रि-वलयं सूत्रं कृत्वा ऽग्रेण मध्यमावेष्ट्य अग्राभ्यां सूत्र-द्वयं परिवेष्ट्य “प्राणानां ग्रन्थिर् असी”ति ग्रन्थिं कृत्वा ऽश्वत्थादि-याज्ञीय-शाखाम् आदाय प्रणव-व्याहृतिभिस् तस्यां सूत्रं निक्षिप्य शुचौ देशे व्रीहि-स्थण्डिलोपरि सकूर्चे सूत्र-युतां तां शाखां निक्षिप्य तस्मिन् वरुणम् आवाह्य प्रणव-व्याहृतिभिर् गन्धादिभिर् अभ्यर्च्य त्रिः प्राणानायम्य “यज्ञोपवीत-प्रतिष्ठां करिष्य” इति सङ्कल्प्य दक्षिण-हस्तेनोपवीतं स्पृशन्
ॐ भूः यज्ञोपवीतं प्रतिष्ठापयामि ॐ भुवः यज्ञोपवीतं प्रतिष्ठापयामि ओँ सुवः यज्ञोपवीतं प्रतिष्ठापयामि ॐ भूर् भुवस् सुवः यज्ञोपवीतं प्रतिष्ठापयामि
इति प्रतिष्ठापयेत्।
अथ “भूर् अग्निञ् चे”ति दक्षिणावर्तिं “भुवो वायुञ् चे”ति मध्यमावर्तिं “सुवर् आदित्यञ् चे” ति उत्तरावर्तिम् अनुमन्त्रयेद्
इति भोधायनः।
[[156]]
अथ नव-तन्तु-देवताः ग्रन्थि-त्रय-देवताः यज्ञोपवीताधिदेवताश् चावाह्य गन्धादिभिर् अभ्यर्चयेत्।
भूर् वारि-तेजो वायुः खं प्राण आत्म-त्रयं तथा।
क्रमाद् भवन्ति तन्तूनां नवानाम् अधिदेवताः॥
ग्रन्थि-त्रयस्याधिपाश् च पितामह-हरीश्वराः।
यज्ञोपवीताकारस्य परं ब्रह्माधि-दैवतम्
इति भरद्वाजः।
ॐकारः प्रथमस् तुन्तर् द्वितीयो ऽग्निस् तथैव च।
तृतीयो नाग-दैवत्यश् चतुर्थस् सोम-दैवतः॥
पञ्चमः पितृ-दैवत्यः सूर्यश् चाष्टम एव च।
नवमस् सर्व-दैवत्य इत्य् एते नव तन्तव
इति देवता-भेदं व्याचष्टे। तद् एवं प्रतिष्ठितं यज्ञोपवीतम् आदाय “आसत्येने”ति चतुर्भिस् सवित्रे प्रदर्श्य पूर्ववन् निधाय उपवीतं स्पृशन् अष्टोत्तर-शतं गायत्रीं जपित्वा तद्- ब्रह्म-सूत्रं धारणार्थं निक्षिपेद् धारयेद् वा
यज्ञोपवीत-धारण-क्रमः
अथ धारण-क्रमः – पादौ प्रक्षाल्य द्विर् आचम्य प्राङ्-मुख उदङ्-मुखो वा दर्भासन उपविश्य प्राणानायम्य स्पृशन् उपवीतं त्रियम्बकं सकृज् जप्त्वा सर्षि-छन्दो-दैवतं “यज्ञोपवीत”मिति मन्त्रम् उच्चार्य दक्षिणं बाहुम् उद्धृत्य शिरसा सह कण्ठे सव्ये निक्षिपेत्। सूत्रान्तराले दक्षिणं बाहुं कुर्यात्। गृहस्थस्य प्रत्य् उपवीतं मन्त्रोच्चारणाचमने भवतः। न तिष्ठन् उपवीतं धारयेत् - कार्पास-तन्तु-गोवाल-कुशमयं वोपवीतालाभे धारयेत् परिमण्डलितं वस्त्रं वा। विच्छिन्नैक-तुन्तुं भुक्त्वा निर्मितं त्रिभिर् ब्राह्मणैर् विना कृतम् उपयुक्तम् अनुवर्तमान-मनुष्य-मार्जालादिभिर् अथोगतं पूय-शोणित-विण्-मूत्र-श्लेष्मोच्छिष्ट-दूषितम् अनर्ह-स्पृष्टम् अशुचि-क्षेत्रज-कार्पास-निर्मितञ् च परित्यजेत्। विस्मृत्योपवीतं यदि विण्-मूत्रम् उत्सृजेद् अन्त्यैस् सह वा सम्भाषेत तद्-उपवीतं त्यजेत्। चण्डालान्त्यजाति-सम्भाषणे विण्-मूत्रोत्सर्जनवत्-कण्ठे निक्षिपेत्।
[[157]]
मन्त्र-पूतं स्थितं काये नोद्धरेद् उपवीतकम्।
सकृद् उद्धरणाद् विप्रः प्रायश्चित्तीयते यतः॥
नाभेर् ऊर्ध्वम् अनायुष्यम् अधस्तात् तु तपः क्षयः।
तस्मान् नाभि-समं धार्यम् उपवीतं द्विजोत्तमैः॥
यज्ञोपवीत-मन्त्रस्य गौतमात्रेय-वसिष्ठा ऋषयः गायत्र्य्-उष्णिग्-अनुष्टुभश् छन्दाँसि वेदास् त्रयो देवता यज्ञोपवीत-धारणार्थे विनियोगः॥
यज्ञोपवीतं परमं अङ्गुष्ठाभ्यां नमः पवित्रं प्रजापतेर् यत् सहजं पुरस्तात् तर्जनीभ्यां नमः आयुष्यम् अग्र्यं मध्यमाभ्यां नमः प्रतिमुञ्चशुभ्रं यज्ञोपवीतं कनिष्ठिकाभ्यां नमः बलम् अस्तु तेजः कर-तल-कर-पृष्ठाभ्यां नमः
एवम् अङ्ग-न्यासङ् कृत्वा। ध्यानं –
तम् अक्षरं ब्रह्म-परावरेशम् अव्यक्तम् आध्यात्मिकम् आदिसञ्ज्ञम्।
अतीन्द्रियं सूक्ष्मम् इवातिदूरम् अनन्त-माद्यं परिपूर्णम् ईडे॥