०५ क्षौर-विधिः

अथ क्षौर-विधिः।

अत्र श्रुतिः॥

देवा वै यद् यज्ञे ऽकुर्वत। तदसुरा अकुर्वत। ते ऽसुरा ऊर्ध्वं पृष्ठेभ्यो नापश्यन्। ते केशानग्रे वपन्त। अथ श्मश्रूणि। अथोपपक्षौ। ततस्ते वाञ्चआयन्। पराभवन्। यस्यैवं वपन्ति। अवाङेति । अथोपरैव भवति। अथ देवा ऊर्ध्वं पृष्टेभ्यो ऽपश्यन्। त उपपक्षावग्रे ऽवपन्त। अथ श्मश्रूणि। अथ केशान्। ततस्ते ऽभवन्। सुवर्गं लोकमायन्। यस्यैवं वपन्ति। भवत्यात्मना। अथो सुवर्गं लोकमेति। अथै तन्मनुर्वप्त्रे मिथुननुपश्यत्। स श्मश्रूण्यग्रे ऽवपत। अथोपपक्षा। अथ केशान्। ततो वै स प्राजायत प्रजया पशुभिः। यस्यैवं वपन्ति। प्रजया पशुभिर्मिथुनैर्जायते॥ [[TODO: परिष्कार्यम्]]

पराशर-संहितायाम् –

मासि मासि गृहस्थानां पक्षे पक्षे च यज्वनाम्।
ऋताव् ऋतौ यतीनां तु वपनं मुनि-सत्तम॥
बालानां ब्रह्म-चारिणां मासे मासे विधीयते॥

[[152]]

शाण्डिल्यः –

कृत्त-केश-नख-श्मश्रुस् त्रि-पक्षे तु गृही भवेत्।

इदम् अनाहिताग्नि-विषयम्। आहिताग्निस् तु पर्वणि पर्वणि वपेत्। नास्य तिथि-वारादि-दोषः, कर्माङ्गत्वात्; पितृ-मेध-सारे –

पित्रोर् मृताब्दे गर्भाब्दे सदा पर्वणि पर्वणि।
आहिताग्निर् वपेत् केशान् न वपेद् इतरस् तयोः॥

सर्वत्रैवम्। अनाहिताग्निः प्रशस्त-दिवसे कुर्यात्। कन्या-कर्कट-कुम्भ-चापाख्य-मासान् विना ऽन्ये ऽष्टौ मासाः प्रशस्ताः। ज्योतिश्शास्त्रे –

शन्य्-अर्क-भौम-निशि[[??]] -पर्वणि सन्निपात[[??]]-
ब्रह्मोत्तराग्नि-पितृ-मैत्रदिनेषु षष्ठ्याम्।
भुक्त्वा च रिक्त-तिथिषु व्रत-पैतृकेषु
क्षौरं त्यजेद् धनुषि कर्कट-कन्य-कुम्भान्॥
कुम्भ-कर्कट-कन्यासु धनुर्-मास-चतुष्टये।
रोम-खण्डं गृहस्थस्य पितॄन् प्राशयते यमः॥

ज्योतिषार्णवे –

आदित्य-तिष्य-वसु-वैष्णव-पौष्ण-सौम्य-
त्वाष्ट्राश्वि-चण्ड-किरणेषु दिवा प्रशस्तम्।
स्वाती-विधातृ-वरुणोत्तरभानि मध्यान्य्
आहुर् निशास्व् अपि न च क्षुर-कर्म कार्यम्॥
षष्ठ्य्-अष्टमी-प्रतिपदस् तिथयश् च रिक्ता
वर्ज्याश् शशाङ्क-गुरु-सोमज-भार्गवानाम्। वाराशङ्कोदय-विलोकनम् इष्टम् आहुः
क्षौरे तु कर्मणि न शौचम् उशन्ति शावे॥

हारीतः –

भ्रू-प्रकोष्ठ-शिखा-वर्ज-वपनं श्रुति-चोदितम्।
कामतश् च प्रकुर्याच् चेत् स विप्रो नरकं व्रजेत्॥

व्रतोपवास-श्राद्ध-दिनेषु धृति-पातादि-योगेषु च क्षौर-कर्म न कार्यम्।

यस्य द्वि-भार्ये गर्भिण्यौ स पूर्वस्यां प्रसूतायां क्षौर-कर्म न कुर्यात् किन्तु द्वितीयायाम् एव कुर्यात्। भार्या प्रसूतौ दशमे ऽहनि वृद्ध-ज्ञाति-मरणे च क्षौर-कर्म कार्यम्; नात्र वारादि-दोषः पितृ-ज्येष्ठ-भातृ-मातृ-मातुल-मातामहादि-व्यतिरिक्त-मरणे क्षौरं न कुर्यात्।

[[153]]

अत्र सुधी-विलोचने –

मातुर् दीक्षान्तरे यस्य पिता मरणम् आप्नुयात्।
दहनादि-क्रियाः कुर्याद् वपनं नैव कारयेत्॥

वसिष्ठः –

षष्ठाब्दे षोडशाब्दे च विवाहाब्दे च तथैव च।
माता-पित्रोर् मृताब्दे च वपनं नैव कारयेत्॥

अङ्गिराः –

षण्-मासास्व् अर्जयेत् क्षौरं तैल-ताम्बूल-योषितः।
ज्येष्ठादीनां मृति-प्राप्तौ माता-पित्रोस् तु वत्सरम्॥

“माता-पित्रोस् तु वत्सरम्” इति सामान्येनोक्तत्वात् सर्वैः पुत्रैर् अपि वत्सरं केश-धारणादिकं कार्यम्। विवाहे ऋतु्-त्रयानन्तरं क्षौर-विधानं संवत्सर-भिन्न-विषयम्। गङ्गादि-सप्त-स्थानेषु[[??]] कृतोद्वाहो ऽपि[[??]] क्षौरं कुर्यात्।

गङ्गायां भास्कर-क्षेत्रे माता-पित्रोर् गुरोर् मृतौ।
आधान-काले सोमे च क्षौरं सप्तसु च स्मृतम्॥

“विवाहे यज्ञ-दीक्षयाम्” इत्यादि वचनेभ्यः द्वितीय-विवाहे ऽपि क्षौर-कर्म-वत्सरं केश-धारणञ् च कर्तव्यम्। एवं वैदिक-सार्व-भौमैस् सम्यक् प्रतिपादितं सुधी-विलोचन-दश-निर्णयादिषु।

विधवायाः केश-धारण निषेधः

व्यासः –

विधवा-कबरी-बन्धो भर्तृ-बन्धाय जायते।
शिरसो मुण्डनं तस्मात् कार्यं विधवया सदा॥

शेष-धर्मे –

हरि-सेवा-विहीना या विधवा केश-धारिणी।
उपवास-विहीना या व्रत-हीना विदुःखिता॥

नारदीये पुराणे रुक्माङ्गद-चरिते धर्माङ्गद-वाक्यम् –

न कञ्चुक-विहीना तु गच्छेन् नारी स-भर्तृका[[??]]।
गृहान् निष्क्रमणं स्त्रीणां मा भूद् राज्ये तु मामके॥
मास-केशा तु विधवा विकेशा वा स-भर्तृका।
मा ऽव्रती स्यात् सदा केशी मा ऽरण्ये नगराश्रयः॥ [[??]] मा धनी चाप्रदाता मे राज्ये वसतु निर्घृणः॥

इति।

[[154]]