०४ पवित्र-विधिः

चन्द्रिकायाम् –

यज्ञोपवीते मौञ्ज्याञ् च तथा कुश-पवित्रके।
ब्रह्म-ग्रन्थिं विजानीयाद् अन्यत्र तु यथा-रुचि॥

यमः –

सन्त्यज्य वैष्टरं[[??]] (वैष्णवं) मार्गं ब्रह्म-मार्ग विनिस्स्मृतम्।[[??]]
सकृत् प्रदक्षिणी-कृत्य पवित्रम् अभिधीयते॥
चतुर्-अङ्गुलम् अग्रं स्याद् ग्रन्थिर् एकाङ्गुलो भवेत्।
द्व्य्-अङ्गुलं रज्जु-वलयं पवित्रस्य तु लक्षणम्॥
त्रिभिर् दर्भैश् शान्ति-कर्म पञ्चभिः पौष्टिकं तथा।
चतुर्भिश् चाभिचारन् तु कुर्वन् कुर्यात् पवित्रकम्॥
देव-कार्ये त्रिभिर् दर्भैर् एकेन पितृ-कर्मणि।
द्वाभ्यां मनुष्य-कार्ये तु पवित्रं कारयेद् द्विजः॥

भरद्वाजः –

कूर्चेन वा पवित्रेण येन कर्माणि कारयेत्।
तस्य ग्रन्थिं विसृज्यैव कर्मान्ते तु ततस् त्यजेत्॥
पवित्र-कूर्चयोस् त्यागे सग्रन्थ्योस् तु प्रमादतः। उपवासञ् चरेद् एकम् उपवास-त्रयं तु वा॥

धी-पूर्वे उपवास-त्रतयम्।

अङ्गुल्य्-अग्रे स्थितो दर्भस् तपो वृद्धि-करो हि सः।
मध्ये चैव प्रजा-कामो मूले सर्वार्थ-साधनः॥
यैः कृतः पिण्ड-निर्वापः श्राद्धं वा पितृ-तर्पणम्।
विण्-मूत्रादिषु ये दर्भास् तेषां त्यागो विधीयते॥
अपूत-लूना ये दर्भा ये च छिन्ना नखैस् तथा।
क्वथितान् अग्नि-दग्धांश् च कुशान् यत्नेन वर्जयेत्॥

हारीतः –

पृथिदर्भाश्[[??]] चितौ दर्भा ये दर्भा यज्ञ-भूमिषु।
वरणासन-पीठार्था षट्-कुशान् परिवर्जतेत्॥
ब्रह्म-यज्ञे च ये दर्भा ये दर्भाः पितृ-तर्पणे।
अमेध्य-लिप्ता ये दर्भास् तेषां त्यागो विधीयते॥

अमेध्यानि - वसादीनि द्वादश-मलानि॥

चन्द्रिकायाम् –

पवित्रं कर-शाखास्थं दक्षिणे श्रवणे न्यसेत्।
नान्यत्र निक्षिपेद् देहे निक्षिप्तं यदि तत् त्यजेत्॥

कालम् आह हारीतः –

मासे नभस्य् अमावास्या तस्यां दर्भोच्चयो मतः। अयातयामास् ते दर्भा नियोज्यास् स्युः पुनः पुनः॥

[[150]]

शूद्र-विषये रत्नाकरे –

देव-ब्राह्मण-कार्येषु (पा॥ शूद्रश् चेद् भक्तिमान् भवेत्।) शक्तश् चेद् वृषलः खलु।
स्वर्णाङ्गुलीयकं धृत्वा तेन कर्माणि कारयेत्॥

पवित्रं ग्रन्थि-युक्तम् एव शूद्रादेस् त्याज्यम्। तथा चन्द्रिकायाम् –

सप्तभिर् दर्भ-पुञ्जीलैः कुर्याद् ब्राह्मं पवित्रकम्।
पञ्चभिः क्षत्रियस्योक्तं चतुर्भिश् च तथा विशः॥
द्वाभ्यां शूद्रस्य विहितम् (पा॥ मास्तराणां तथैव च)[[??]] इतरेषां तथैव च॥
वज्रं यथा महेन्द्रस्य शूलं हस्ते पिनाकिनः।
सुदर्शनं यथा विष्णोस् तथा विप्र-करे कुशः॥
प्रादेश-मात्रं दर्भाणां द्विप्रादेशः कुशः स्मृतः।
त्रि-प्रादेशस् तु बर्हिस् स्याद् अत ऊर्ध्वं तृणं भवेत्॥
कुशैश् च सन्ध्या-करणं दर्भैश् च पितृ-कर्मणि।
बर्हिषा यज्ञ-कर्माणि शेषैस् तु गृह-गोपनम्[[??]]॥
कुश-काश-यवा-दूर्वा-गोधूमाश् चेति कुन्दुराः[[??]]।
उशीरा व्रिहयो मौञ्जा दश दर्भाश् च बल्बजाः॥

भरद्वाजः –

समित्-पुष्प-हविस्-तोय-पात्रोपनयनादिषु।
अवैष्णवान् विशेषेण न कर्मसु नियोजयेत्॥

हारीतः –

वैष्णवान् एव विप्रांस् तु सर्व-कर्मसु योजयेत्।
सर्वत्रावैष्णवान् विप्रान् पतितान् इव सन्त्यजेत्॥

वसिष्ठः –

तस्माद् अवैष्णवांस् तत्र न कर्मनु नियोजयेत्।

कौशिकः –

गवां वाल-पवित्रेण धार्यमाणेन नित्यशः।
न स्पृशन्ती ह पापानि श्रीश् च गात्रेषु तिष्ठति॥
गवां वाल-पवित्रस्य सौवर्णव्य तथैव च।
न ब्रह्म-ग्रन्थि-नियमो धारयेत् तु यथा तथम्॥
गवां वाल-पवित्रेण सन्ध्योपास्तिं करोति यः।
जप-होमादि-कार्याणि तस्याक्षयफलं भवेत्॥
गवां वाल-पवित्रेण सन्ध्योपास्तिं करोति यः।
स वै द्वादश-वर्षाणि कृत-सन्ध्यो भवेन्नरः॥

[[151]]

विष्णुः –

गोवालञ्च कुशाग्रञ्च पवित्रं रुक्म-संयुतम्॥

धारयेद् इति शेषः। आहरण-मन्त्रः –

त्वं रुद्रमातर् वसुधे सुधा [[??]]भे ऽंशुमत्-सुते।
सर्व-देवात्मके गौस् त्वां नौम्यहं त्वं प्रसीद मे ॥

अथातस् सर्व-दर्वी-होमानाम् अष्टोत्तर-शतं दर्भाः द्वे हस्त-पवित्रे, द्वे आसनं, प्राग्-उदीचीनाग्रैः षोडश-परिस्तरणं, दक्षिणतः प्राग्-अग्रैः सप्त-दश, पश्चाद्-उदीचीनाग्रैर् अष्टादश, उत्तरतः प्राग्-अग्रैः सप्त-दश, पात्राणां पञ्च, सप्त-दश ब्रह्मासनं, प्रणीतासनं द्वे, द्वे आज्य-पवित्रे, द्वे अभिद्योतने, द्वे दर्भाग्रे, द्वे पर्यग्नि-करणे, स्रुक्-सम्मार्जनं चतुर्भिः

इत्य् आह भगवान् बोधायनः।