शौनकः –
शुचौ देशे शुचिर् भूत्वा स्थित्वा पूर्वोत्तरामुखः।
ॐ (हुं) कारेणैव मन्त्रेण कुशाः स्पृश्या द्विजोत्तमैः॥
हारीतः –
देवार्थान् पाङ् मुखो दर्भान् पित्रर्थान् दक्षिणा-मुखः।
छित्वोपवीती प्राचीना-वीती तान् निक्षिपेत् पृथक्॥
मनुः –
स-मूलश् च भवेद् दर्भः पितॄणां श्राद्ध-कर्मणि।
मूलेन लोकान् जयति शक्रस्य सुमहात्मनः॥
एति देशोद्दिष्ट-श्राद्ध-विषयम्। यतस् स एवाह –
एकोद्दिष्ट-कुशा ग्राह्यास् समूला यज्ञ-कर्मणि।
बहिर् लूनास् सकृल्-लूनास् सर्वत्र पितृ-कर्मणि
इति। बहिर् लूनाः - उपमूल-लूनाः, ततश् च
उपमूले तथा लूनाः श्राद्धार्थे तु कुशाः स्मृताः।
तथा श्यामक-नीवारौ दूर्वा च समुदाहृता
इति॥ ब्रह्माण्डादि-वचनम् अनेकोद्दिष्ट-श्राद्धादि-विषयम् इत्य् अवगन्तव्यम् [[??]]। शातातपः –
जपे होमे तथा दाने स्वाध्याये पितृ-तर्पणे।
अशून्यन् तु करं कुर्यात् सुवर्ण-रजतैः कुशैः॥
नारदः –
न रूप्यं केवलं धार्यं दैवे पित्र्ये च कर्मणि।
अनामिका-धृतं हेम तर्जन्यां धारयेत् तु तम्॥
कुशा-हरण-मन्त्रः-
विरिञ्चेन सहोत्पन्न परमेष्ठि-निसर्ग-ज।
नुद सर्वाणि पापानि दर्भ स्वस्ति-करो भव॥
वृद्ध-वसिष्ठः –
काशस् तु रौद्रो विख्यातो कुशो ब्राह्मस् तथा स्मृतः।
आर्षो दर्भस् तु विख्यातो विश्वामित्रस् तु वैष्णवः॥
श्रुति-स्मृतिषु मित्रत्वाद् विप्राणां विश्व-कर्मणाम्।
विश्वांहसाम् अमित्रत्वाद् विश्वामित्र उदाहृतः॥
स्मृति-रत्ने –
अहन्य् अहनि कर्मार्थं कुशोद्धारः प्रशस्यते।
स-पूर्वेषूद्धृत-कुशा योग्याश् चैवौत्तरेषु च॥
भिन्न-मूला गृहीतव्याः प्रस्तरार्थं कुशोत्तमाः।
अग्नि-कार्ये च यागे च समूलान् परिवर्जयेत्॥
[[149]]