०२ तुलस्य्-आद्य्-आहरणम्

अथ तुलस्याद्य्-आहरणम्; संवर्तः –

समित्-पुष्प-कुशादीनि श्रोत्रियः स्वयम् आहरेत्।
शूद्राहृतैः क्रय-क्रीतैः कर्म कुर्वन् पतत्य् अधः॥

विष्णु-मन्दिरे –

त्याज्यं पर्युषितं जन्तु-दूषितं पाद-लङ्घितम्।
म्लानं स्पृष्टं तथा ऽस्पृश्य नीतञ् च प्रतिलोम-जैः॥

तुलसी-माहात्म्ये –

उत्तमं स्वार्जितं पुष्पं मध्यमं वन्यम् उच्यते।
अधमं तु क्रय-क्रीतं पारक्यन् त्व् अधमाधमम्॥
हस्तानीतं पटानीतं स्वयं पतितम् एव वा।
देवारामोद्भवं पुष्पं गृह-देवाय नार्चयेत्॥

आश्वमेधिके –

अर्क-पुष्पाणि चान्यानि अर्क-पत्र-स्थितानि च।
निर्गन्धानि च पुष्पाणि सर्वाण्य् एतानि वर्जयेत्॥

श्री-पाञ्च-रात्र-रक्षायाम् –

न गृहे कर-वीरोत्थैः कुसुमैर् अर्चनं हितम्।
विशेषतस् स-कामस्य सिद्धि-भूति-युतस्य च॥

स्कान्दे –

स्त्रीभिर् वा यदि वा शूद्रैर् आनीतैस् तुलसी-दलैः।
ये ऽर्चयन्ति नरा विष्णुं ते वै निरय-गामिनः॥
स्त्री-शूद्रानुपनीता वा उच्छिष्टा शौचिनो ऽपि वा।
ये ऽपचिन्वन्ति तुलसीं ते वै निरय-गामिनः॥

तुलसी-माहात्म्ये –

शुष्कं पर्युषितं चार्द्रं काष्ठं वा तुलसी-दलम्।
अर्चने वासुदेवस्य लक्ष-कोटि-गुणम् भवेत्॥
संवत्सरन् तु तुलसीं षण्-मासं बिल्वम् एव च।
पलाशं मासम् एकन् तु कपित्थं पक्षम् एव च॥
सप्त-वारन् तु पद्मं स्यात् कर-वीरं त्रिभिर् दिनैः॥

कर्ण-मूले तु तुलसीं यस् तु धारयते नरः।
अहो-रात्र-कृतं पापं तस्य नश्यति तत्-क्षणात्॥ शुष्कैः पर्युषितैर् वा ऽपि काष्ठ-मूल-मृदादिभिः।
अर्चनान् मम बिम्बस्य सदा शुद्धिर् भविष्यति॥

[[147]]

ग्रहण-मन्त्रः –

तुलस्य्-अमृत-सम्भूते सदा त्वं केशव-प्रिये।
केशवार्थं लुनामि त्वां वरदा भव शोभने॥
प्रसीद मम देवेशि प्रसीद हरि-वल्लभे।
क्षीरोद-मथनोद्भूते तुलसि त्वं प्रसीद मे॥
मोक्षैक-हेतोर् धरणी-तल-स्थे विष्णोस् समस्तस्य गुरोः प्रिये ते।
आराधनार्थं पुरुषोत्तमस्य लुनामि पत्रं तुलसि क्षमस्व॥

मौद्गल्यः –

नाक्षतैर् अर्चयेद् विष्णुं न शम्भुं शङ्ख-वारिणा।
नार्चयेद् दूर्वया दुर्गां न तुलस्या सुरान्तरम्॥

सङ्ग्रहे –

चतुर्दश्य्-अष्टमी-पर्व-नन्दासु द्वादशीषु च।
सङ्क्रान्तिषु व्यतीपाते मन्वादिषु युगादिषु॥
भौमार्क-भृगु-वारेषु तथा श्राद्ध-दिनेषु च।
आधाने वैष्णवे ऋक्षे मध्याह्नात् परतस् तथा॥
तुलसी-कृन्तनं यत् तद्-विष्णोश् शिरसि कृन्तनम्॥

आधानर्क्षं - स्व-जन्मे नक्षत्राद् एकोनविंश-नक्षत्रम्। अत्र कुश-पुष्पादि-हरणे न प्रत्यवायः। जाबालिः –

कुशान् काशञ् च पुष्पाणि गवार्थञ् च तृणादिकम्।
निषिद्धे वा ऽपि गृह्णीयाद् अमावास्याऽऽहनि द्विजः॥

मन्वादिः, युगादिः

काल-प्रकाशिकायाम् –

आश्वयुक्-छुक्ल-नवमी कार्तिकी द्वादशी सिता।
तृतीया चैत्र-मासस्य तथा भाद्र-पदस्य च॥
फाल्गुनस्याप्य् अमावास्या पुष्यस्यैकादशी सिता।
आषाढस्यापि दशमी माघ-मासस्य सप्तमी॥
श्रावणस्याष्टमी-कृष्णा अषाढस्यापि पूर्णिमा।
कार्तिकी-फाल्गुनी-ज्यैष्ठा-चैत्री पञ्चशी तिथिः॥
चतुर्दशैता मुनिभि प्रोक्ता मन्वन्तरादयः॥

यागादीन् आह तत्रैव -

शुक्ला तृतीया वैशाखी नवमी कार्तिकी सिता।
माघी चामा तथा प्रोष्ठपदी कृष्णा त्रयोदशी॥
एताश् चतस्रस् तिथयो युगाद्याः परिकीर्तिताः॥

[[148]]