अथ पूर्वोक्त-प्रकारेण प्रदक्षिण-नमस्कारादिकं कृत्वा
मित-गद्यम् अनुसन्धाय
स्वाराध्यम् अर्घ्यादिभिर् यथा-विध्य् अभ्यर्च्य
तद्-अशक्तो मनसा वा ऽभ्यर्च्य
तद्-अन्तिके प्राङ्-मुख उदङ्-मुखो वा अजिनाद्य्-आसन उपविश्य अष्टाक्षरादि-मन्त्र-जपं यथा-शक्ति कुर्यात्।
अथाष्टाक्षरः
पूर्वं दक्षिण-नासया तूष्णीं वायुम् विसृज्य
वाम-नासया चतुर्-दश-वारं मूल-मन्त्रं जपन् वायुम् आपूर्य
हृत्-पद्मे सश्रीकं स्वाराध्यं ध्यायन्
अष्टाविंशति-वारं जपन् कुम्भकं कृत्वा
पुनर् दक्षिण-नासया सप्त-वारं जपन् रेचयेत्।
एवं प्राणायाम-त्रयं कृत्वा
अथ मूल-मन्त्रं मन्त्र-रत्न–वासु-देव-द्वादशाक्षर–विष्णु-मन्त्रादिकं च यथा-शक्ति जपित्वा
ऽथ चरम-श्लोक-द्वयादिकञ् च जप्त्वा अभिगमनं समापयेत्।
अस्य श्रीमद्-अष्टाक्षर-महा-मन्त्रस्य
बदरिकाश्रम-वासी श्रीमन्-नारायण ऋषिः, अन्तर्यामी वा;
देवी गायत्री-छन्दः
परमात्मा भगवान् नारायणो देवता
श्रीर् अधिष्ठान-देवता
अं बीजम्, ओम् इति वा;
आय शक्तिः[[??]]
मं कीलकं
श्रीं कवचं
ह्रीं अस्त्रं
शुक्लो वर्णः
उदात्तादिस् स्वरः
बुद्धिस् तत्वं
श्री-वैकुण्ठ-क्षेत्रं भगवत्-प्रीत्य्-अर्थे जपे विनियोगः।
ॐ नमः परायाक्षर-प्रदात्रे ऽस्मद् गुरवे नमः, ॐ नमः परेभ्यो ऽष्टाक्षर-प्रदातृभ्यो ऽस्मत् परम-गुरुभ्यो नमः, ॐ नमः परेभ्यः श्रीमद् अष्टाक्षर-प्रदातृभ्यो ऽस्मत् सर्व-गुरुभ्यो नमः
इति शिरसि।
ॐ नमः परायाष्टाक्षरात्मने मन्त्र-राजाय नम
इति मुखे।
ॐ नमः पराय श्रीमद् अष्टाक्षर-ऋषये बदरिकाश्रम-वासिने अन्तर्यामिणे श्रीमते नारायणाय नम
इति शिरसि।
ॐ नमः परायै श्रीमद् अष्टाक्षर-छन्दसे देव्यै गायत्र्यै नम
इति मुखे।
ॐ नमः परायै श्रीमद् अष्टाक्षर-देवताये परमात्मने नारायणाय नम
इति हृदि।
ॐ नमः पराय श्रीमद् अष्टाक्षर-बीज-भूतायाकाराद् उत्थिताय प्रणवाय नम इति
गुह्ये।
ॐ नमः पराय श्रीमद् अष्टाक्षर-शक्ति-गर्भाय श्रीमते नारायणाय नम
इति पादयोश् चाञ्जलिं विन्यस्य॥
[[141]]
मध्यमाङ्गुलीम् आरभ्याऽऽकूर्परम् अङ्गुल्य्-अग्र-पर्यन्तं पर्यायेण मूल-मन्त्रेण कर-द्वये ऽन्तर् बाह्ये पार्श्वयोश् च कर-तल-कर-पृष्ठ-पार्श्वयोश् च त्रिः परामृश्य कर-तल-मध्ययोः मध्यमाङ्गुलिभ्यां प्रत्येकं मूल-मन्त्रं न्यसेत्। कर-द्वये ऽपि दक्षिणम् आरभ्य तर्जन्य्-आदि-तर्जन्य्-अन्तम् अङ्गुलीषु सबिन्दुकानि पर्वसु प्रणव-सम्पुटितानि मन्त्राक्षराण्य् अष्टौ क्रमेणाङ्गुष्ठेन न्यसेत्। अयं सृष्टि-न्यासो ब्रह्म-चारिणः; कर-द्वये ऽपि दक्षिणाद् आरभ्य तर्जन्य्-आदि तर्जन्य्-अन्तम् अङ्गुलीषु तत्-तत्-कनिष्ठिकान्तं न्यासः स्थिति-न्यासो गृहस्थस्य; वामम् आरभ्य तर्जन्य्-आदि तर्जन्य्-अन्त-न्यासस् संहारो वन-स्थ-यत्योः। कर-द्वये ऽप्य् उभयाङ्गुष्ठम् आरभ्य तत्-तत्-कनिष्ठिकान्त-न्यासस्य व्यापकत्वेन।
ॐ ॐ ज्ञानाय हृदयाय नमः ॐ नं ऐश्वर्याय शिरसे स्वाहा ॐ मों शक्त्यै शिखायै वौषट् ॐ नां बलाय कवचाय हुं ॐ रां वीर्यायास्त्राय फट् कर-तल-कर-पृष्ठयोः ॐ यं तेजसे नेत्राभ्यां वौषट् उभय-नखेषु ॐ णां तेजसे उदराय नमः ॐ यं तेजसे पृष्ठाभ्यां नमः ॐ यं तेजसे बाहुभ्यां नमः ॐ यं तेजसे ऊरुभ्यां नमः ॐ यं तेजसे जानुभ्यां नमः नख-समूहयोः ॐ यं तेजसे पादाभ्यां नमः॥
दक्षिण-करतले पद्माय नमः वाम-कर-तले पाञ्चजन्याय शङ्खाधिपतये नमः।
दक्षिणाङ्गुष्ठम् आरभ्य
ॐ किरीटाय नमः श्री-वत्साय श्री-कौस्तुभाय नमः वैजयन्त्यै वन-मालायै नमः श्रीं श्रियै नमः वामाङ्गुष्ठादि ह्रीं पुष्ट्यै नमः ॐ पं सरस्वत्यै नम, ॐ द्रां निद्रायै नमः ॐ क्लीं कान्त्यै नमः ॐ कं पृथिव्यै नमः कर-तलयोः ॐ गं गरुडाय नमः॥
[[142]]
अथ देह-न्यासः नासादि ना[[??]] पर्यन्तं मूल-मन्त्रेण व्यापकत्वेन त्रिः परामृशेत्। अयम् अपि सर्वेषां समानः। अथ मूर्धादि-पादान्तेषु स्थानेषु सबिन्दुकानि प्रणव-सम्पुटितान्य् अष्टाक्षराणि क्रमेण न्यसेत्, अयं सृष्टि-न्यासो ब्रह्म-चारिणः। एवं नाभ्यादि-हृद्-अन्तेषु स्थिति-न्यासो गृहस्थस्य, पादादि-मूर्धान्त-न्यासस् संहार-न्यासो वन-स्थ-यत्योः। मूर्ध्नि मध्यमया तर्जनी-मध्यमाभ्यां नेत्रयोः अनामिकाङ्गुष्ठाभ्यां मुख-मध्ये अङ्गुष्ठ-तर्जनीभ्यां हृदये नाभौ कनिष्ठिकाङ्गुष्ठाभ्यां गुह्ये जान्वोश् च अङ्गुष्ठ-रहिताभिर् अङ्गुलीभिः पादयोः अङ्गुष्ठ-सहिताभिश् शिरसि।
अथ ज्ञानादि-द्वादशाङ्ग-न्यासः - तत्र ज्ञानं अङ्गुष्ठ-तर्जनीभ्यां हृदये, ऐश्वर्यम् अङ्गुष्ठ-सहिताभिर् अङ्गुलीभिश् शिरसि, शक्तिं स-मुष्टि केनाङ्गुष्ठेन शिखायां, बलं कवच-बन्धानुकारिणा कर-द्वयेन कण्ठादि-कट्यन्ते स्थाने, वीर्यं स-मुष्टिकाङ्गुष्ठ-तर्जनीभ्यां सच्चटाभ्यां शुभाग्रयोस् तेजस् तर्जनी-मध्यमाभ्यां नेत्रयोः उदर-पृष्ठ-बाहूरु-जानुषु अङ्गुष्ठ-सहिताभिः ताभिर् अङ्गुलीभिस् सर्वाभिर् अङ्गुलीभिः पादयोर् अयम् अपि सर्वेषां समानः, अस्त्र-मन्त्रेण दश-दिग्-बन्धः। अथवा स-बिन्दुकैर् मन्त्राक्षरैर् अष्ट-दिग्-बन्धः प्रणवेन ऊर्ध्वाधो दिग्-बन्धः॥
अथ कर-द्वयेनाष्टाक्षरं चक्रङ् कृत्वा आत्मनः प्रादक्षिण्येन “सुदर्शनाय हेति-राजाय नम” इति त्रिर् भ्रामयित्वा चक्र-मुद्रया रक्षां कुर्यात्। दक्षिणेतर-भुजयोः पर्यायेण पद्म-गदा-चक्र-शङ्खानां प्रणवादि-नमोऽन्त-न्यासः। किरीटं शिरसि श्री-वत्सं दक्षिणोरसि कौस्तुभ-मु[[??]] मध्ये वन-मालां पार्श्वयोः॥
[[143]]
“ॐ श्रीं श्रीयै नमः” दक्षिण-पार्श्वे “ॐ ह्रीं पुष्ट्यै नमः” वाम-पार्श्वे। “ॐ सरस्वत्यै नमः” मुखे। “ॐ द्रां निद्रायै नमः” पश्चाद्-भागे॥ “ॐ क्लीं कान्त्यै नमः” ऊर्ध्व-देहे। “ॐ कं पृथ्व्यै नमः” पादयोः। “ॐ गं गरुडाय नमः” ऊर्वोः।
ध्यानम् –
सव्यं पादं प्रसार्य श्रित-दुरित-हरं दक्षिणं कुञ्चयित्वा
जानुन्य् आधाय सव्येतरम् इतर-भुजं नाग-भोगे निधाय।
पश्चाद् बाहु-द्वयेन प्रतिभट-शमने धारयन् शङ्ख-चक्रे
देवी-भूषादि-जुष्टो जनयतु जगतां शर्म वैकुण्ठ-नाथः॥
इति ध्यात्वा यथा-शक्ति मन्त्र-जपं कुर्यात्।
द्वय-मन्त्रः
अथ द्वय-न्यासः - द्वयेन प्राणायाम-त्रयं कृत्वा। अत्र पराशरः –
कुर्वीत मन्त्र-रत्नेन प्राणायामान् विधानतः।
अष्टाविंशति-वारन् तु प्राणायामे जपेन् मनुम्॥
पूरके कुम्भके चैव रेचके तु विशेषतः।
प्राणायामम् इमं प्राहुर् उत्तमं योगि-सत्तमाः॥
मध्यमं मुनिभिः प्रोक्तं जपेद् द्वादश-सङ्ख्यया।
षड्-वारन् तु कनिष्ठं स्याद् अधमन् तु त्रिभिस् सृतम्॥
ॐ शरणागति-मन्त्रस्य जीव-रूपि-विराड्-आत्मा-ऋषिः देवी गायत्री-छन्दः परमात्मा श्रीमन्-नारायणो देवता। श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं परम-सत्वं तत्त्वं परम-प्रकाशो वर्णः उदात्तादिस् स्वरः श्रीर् देवता ॐ श्रीमन्-नारायण-प्रीत्य्-अर्थे जपे विनियोगः।
[[144]]
अथ न्यासः पराशरः –
षट्-पदैर् अङ्गुलि-न्यासं षड्-अङ्गञ् च तथैव च।
मूर्ध्नि-फाले नेत्र-नासा श्रवणे च वरानने॥
भुजयोर् हृत्-प्रदेशे च स्तनयोर् नाभि-मण्डले।
पृष्ठे च जघने कट्योर् ऊर्वोर् जान्वोश् च पादयोः॥
मन्त्र-रत्नाक्षराण्य् अत्र क्रमेणाङ्गेषु विन्यसेत्॥
ध्यानम् –
श्री-क्षीराम्भो निधि-रत्न-मण्टप-महा-सौवर्ण-सिंहासने
वामाङ्क-स्थितया प्रसन्न-वदनं श्री-कान्तया आलिङ्गितम्।
दोर् दण्डाङ्कित-शङ्ख-पङ्कज-गदा चक्रेर् उदार-श्रियम्
त्वां नित्यं कलयामि जन्म-विमुखो लक्ष्मीश-नारायण॥
इति ध्यात्वा यथा-शक्ति मन्त्र-जपं कुर्यात्
द्वादशाक्षरः
अथ द्वादशाक्षर-न्यासः -
अस्य श्री-द्वादशाक्षर-महा-मन्त्रस्य ब्रह्मा ऋषिः सङ्कर्षणो वा गायत्री-छन्दः परमात्मा देवता श्री-वासुदेवो वा; ॐ बीजं नमश् शक्तिः आय-शक्तिर् इति वा; भगवत्-प्रीत्य्-अर्थे जपे विनियोगः॥ ॐ ॐ हृदयाय नमः। ॐ नमः शिरसे स्वाहा। ॐ भगवते शिखायै वौषट्। ॐ वासुदेवाय कवचाय हुम्॥ समस्त-मन्त्रेण अस्त्राय फट्। अथवा ॐ नमो भगवते विष्णु-मूर्तये वासुदेवाय हृदयाय नमः। ॐ नमो भगवते विष्णु-मूर्तये वासुदेवाय सङ्कर्षणाय शिरसे स्वाहा, ॐ नमो भगवते विष्णु-मूर्तये प्रद्युम्नाय शिखायै वौषट्। ॐ नमो भगवते विष्णु-मूर्तये अनिरुद्धाय कवचाय हुम्। ॐ नमो भगवते विष्णु-मूर्तये यज्ञात्मने नेत्राभ्यां वौषट्। ॐ नमो भगवते विष्णु-मूर्तये सुदर्शन-रूपाय अस्त्राय फट्।
इति षड्-अङ्ग-न्यासः॥
[[145]]
स्व-पदाज् जानु-युगल-लिङ्ग-नाभ्य्-उदरेषु च।
हृद्-दोर्-गलास्य-दृङ्-मस्त-शिखास्वक्षरकान् न्यसेत्॥
शिरो-ललाट-नेत्रास्य गलदोर् हृदयेष्व् अपि।
स-कुक्षि नाभि-लिङ्गाख्य-जानु-पादेषु विन्यसेत्॥
हृत्-कुक्षि-नाभिषु तथा गुह्य-जानु-पदेष्व् अथ।
कर-कण्ठास्य-दृङ्-मस्त-शिखासूर्ध्वञ् च विन्यसेत्॥
संहृतेर् दोष-संहारः सृष्टेश् च शुभ[[??]]पुष्टयः।
स्थितेश् च शान्ति-विन्यासस् तस्मात् कार्यस् त्रिधा मतः॥
अथ ध्यानम् –
हरिम् उज्ज्वल-चक्र-दराब्ज-गदायुध-दोः-परिघं सित-पद्म-गतम्।
वलयाङ्गदहां किरीट-युतं नव-कुन्द-रुचं प्रणमामि सदा।
इति ध्यात्वा यथा-शक्ति मन्त्र-जपं कुर्यात्।
षड्-अक्षरः
अथ षड्-अक्षर-मन्त्र न्यासः –
ॐ अस्य श्री-विष्णु-षडक्षरी महा-मन्त्रस्य ब्रह्माद्यास् सनकाद्याश् च ऋषयः देवी-गायत्री-छन्दः विष्णुर् देवता। ॐ बीजं नमश् शक्तिः विष्णु-षड्-अक्षरी मन्त्र-जपे विनियोगः। ॐ ॐ हृदयाय नमः शिरसि। श्री-विष्णवे शिखायै वौषट्। ॐ कवचाय हुम्। नमः नेत्राय वौषट्। विष्णवे अस्त्राय फट्॥
अथ ध्यानम् –
विष्णुं भास्वत्-किरीटाङ्गद-वलय-गला-कल्प-हारोदराङ्घ्रि-
श्रोणी-भूषा-सुवक्षो-मणि-मकर-महा-कुण्डलैर् मण्डिताङ्घ्रिम्। हस्तोद्यच्-छङ्ख-चक्राम्बुज-गदम् अमलं पीत-कौशेयम् आशा-
विद्योतद्[[??]]-भासम् उद्यद्-दिन-कर-सदृशं पद्म-संस्थं नमामि॥
इति ध्यात्वा यथा-शक्ति मन्त्र-जपङ् कुर्यात्।
समाप्तिः
अथ चरम-श्लोक-द्वयादिकञ् च जप्त्वा अभिगमनं समापयेत्।
ॐ भगवान् एव स्व-नियाम्य स्व-रूप-स्थिति प्रवृत्ति-स्व-शेषतैक-रसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः करणैः स्वस्मै स्व-प्रीतये स्वयम् एव अभिगमनं मया कारितवान्। कृतञ् च करिष्यामि भगव + अभिगमनेन भगवत्-कर्मणा भगवान् प्रीयतां वासु-देवः।
इति श्री-भारद्वाज-कुल-तिलक-वङ्गीशान्वय-सञ्जातस्य श्री-सुन्दरार्य-पुत्रस्य वैकुण्ठ-नाथस्य कृतिषु प्रपन्न-धर्म-सार-समुच्चये अभिगमन-प्रयोगो नाम द्वितीयः परिच्छेदः।
[[140]]