१८ भगवत्-सेवा

प्रदक्षिण-क्रमः

एवं ब्रह्म-यज्ञं कृत्वा महा-भारतोक्त-प्रकारेण विष्ण्व् आयतनं च नमस् कुर्यात् भगवन्-मन्दिर-प्रवेश-वेलायां दिङ्-मात्रं कर्तव्यस्य दर्शितम्

श्री-सात्वते –

प्रासादं देव-देवीयं वैष्णवं पाञ्च-कालिकम्।
अश्वत्थञ् च वटं धेनुं सत्-समूहं गुरोर् गृहम्॥
दूरात् प्रदक्षिणं कुर्यान् निकटात् प्रतिमां विभोः।
दण्डवत्-प्रणिपातैस् तु नमस् कुर्याच् चतुर्-दिशम्॥
प्रदक्षिणं प्रणामांश् च युग्मान् कुर्यात् समाहितः।
एक-त्रि-पञ्च-सप्तादि-गणना विषमं हि यत्॥

अत्र शाण्डिल्यः –

अभिगच्छेच् च देवेशं सुस्नातस् सोर्ध्व-पुण्ड्रकः।
सुप्रक्षालित-पादश् च स्वाचान्तस् संयतेन्द्रियः॥
सन्ध्ययोर् उभयोर् नित्यं यावद् अर्कर्क्ष-दर्शनम्।
ध्यायन् ब्रह्मा जपे स्नानं ततो ऽभिगमन-क्रिया॥
नैक-वस्त्रो न भिन्नश् च न क्रुद्धो विमनाश् च वा।
नाक्षालिताङ्घ्रिर् नाभक्तो नातुरो नावदन् बहु॥
न रक्तं मलिनं कृष्णं वासो ऽपि परिधाय च।
न च शून्य-करश् शस्त्री न यायाद् भगवद्-गृहम्॥

[[132]]

प्रदक्षिण-सङ्ख्या

प्रणम्य दण्डवद् भूमाव् उत्थायोत्थाय तन्-मनाः।
स्वाध्याय-वदनं कुर्याद् अष्टाङ्गेन नमस् क्रियाम्॥
नमस् कुर्वन् प्रतिदिनं वाग्यतो ध्यान-तत्-परः।
असंसक्त-करः कैश् चिन् मन्दं कुर्यात् प्रदक्षिणम्॥
द्वि-चतुष्-षड्-दशाष्टाद्यैः कुर्याद् एव प्रदक्षिणम्।
देवस्य निकटे कार्यं सम्यग् जानु-प्रदक्षिणम्॥
चक्रवद् भ्रामयेन् नाङ्गं पृष्ठ-भागं न दर्शयेत्।
सन्निधौ देव-देवस्य न चोच्चैः प्रलपेत् तदा॥

श्री-पाञ्च-रात्रे परमेश्वरे –

प्रदक्षिणं नमस् कारं नाम-सङ्कीर्तनं च मे।
युग्मान्य् एव ततः कुर्याद् अयुग्मादि-शिवादिनाम्॥

स्मृति-सङ्ग्रहे –

स्तुत्वा स्तोत्रैर् नमस् कुर्यात् साष्टाङ्गं भक्तितो ऽसकृत्॥

तथैव श्री-भाष्य-कारैर् अपि नित्ये प्रतिपादितम्। प्रपञ्च-सारे दीक्षा-प्रकरणे –

मन्त्रैश् च वैष्णवैस् स्तोत्रैस् स्तुत्वा देवं जनार्दनम्।
प्रणमेद् द्विश् चतुर् वा ऽपि अन्यथा किल्बिषी भवेत्॥
एक-हस्तेन तीर्थञ् च एकञ् चापि प्रदक्षिणम्।
एकम् एव नमस्-कारं त्रि-विधं नरकाहवम्॥

श्री-पाञ्च-रात्र-रक्षायां प्रदक्षिण-सङ्ख्या ऽभिहिता

एकं विनायके कुर्याद् द्वे सूर्ये त्रिणि शङ्करे।
चत्वारि माधवे कुर्यात् सप्ताश्वत्थे प्रदक्षिणम्

इति। तत्-प्रकारः श्री-गारुडे श्री-रङ्ग-माहात्म्ये पञ्च-चत्वारिंशे ऽध्याये।

अथ ये वैष्णवीं छायां लङ्घयेयुर् अबुद्धयः।
नष्टात्मानश् च ते शक्र जायन्ते क्रिमयो भुवि॥
पङ्गवः पाद-हीनाश् च कुणिनो भुवि ये नराः।
विष्णु-छाया-ध्रुवं तैश् च लङ्घिता स्याच्छतक्रतो॥
यदा च भगवद्धाम्नश् छायाम् आक्रमते च यः।
धरण्यां जायते पङ्गुस् सद्यो रोगादि-पीडितः॥
तत्-प्रदक्षिणम् आकाङ्क्षन् पुरुषस् तु शची-पते।
त्रिधा कृत्य तु तच्-छायां पूर्व-भागेन सो व्रजेत् [[??]]॥ प्रदक्षिण-विधानेन विधिर् एष न चान्यथा।
अभ्येत्य भगवद्-धाम यो गच्छेत् सर्वतो नरः॥
मार्ग-लाभाय यो गच्छेत् सव्यतो नारिकी भवेत्।
क्षीण-पुण्यश् च नष्टश् च स वै यात्य् अधमां गतिम्॥
तत्-प्रदक्षिण-मार्गेण व्रजन् सर्वत्र सर्वदा।
कृच्छ्रे ऽपि नान्यथा यायाद् एकाकी सत्व-संस्थितः॥

[[133]]

श्री-पाञ्च-रात्र-रक्षायाम् –

प्रवेशे निर्गमे चैव विष्वक्सेन-नतिञ् चरेद्

इति। विधानाद् विष्वक्सेनं ततः द्वार-पालांश् च प्रणम्य अनुज्ञाप्य तत्र प्रविशेत्।

चक्रवद्-भ्रामयेन् नाङ्गं पृष्ठ-भागं न दर्शयेत्।
पश्चाद् भागेन निर्गच्छेद् देवता-सन्निधौ सुधीर्

इति। श्री-पाञ्च-रात्रे –

अग्रे पृष्टे वाम-भागे समीपे अर्ध-मण्टपे।
जप-पूजा-नमस्कारं न कुर्यात् केशवालये॥
उदक्-प्रत्यङ्-मुखे देवे जप-पूजादि-वामतः।
अन्यत्र दक्षिणे पार्श्वे विपरीतन् तु मृत्युदम्॥

अवैष्णव-स्थापित-प्रतिमा-दर्शन-निषेधः

अस्य क्वचिद् अपवादः - वसिष्ठः –

अवैष्णव-स्थापितानां प्रतिमानाञ् च वन्दनम्।
यः करोति स मूढात्मा रौरवं नरकं व्रजेत्॥

खग-प्रश्न-संहितायाम् –

अन्यालये हरिं दृष्ट्वा देवतान्तर-सन्निधौ।
नार्चयेन् न प्रणामेच् तीर्थं सेवां च वर्जयेत्॥
अन्यालये हरिं दृष्ट्वा ये नमस्यन्ति ते जनाः।
मम द्वार-बहिष्टाश् च मच्छासन-पराङ्-मुखाः॥

स्त्री-शूद्राराधित-भगवद्वन्दन-निषेधः

स्त्री-शूद्र-पूजितं लिङ्गं
विष्णुं वा ऽपि नमेद् यदि।
कोटि-जन्मनि शूद्रत्वम्
अन्ते चण्डालतां व्रजेत्॥

[[134]]

वाराहे –

शूद्रार्चितं शिवं विष्णुं
नमस् कुर्याद् यदि द्विजः।
रौरवं नरकं प्राप्य
चण्डालो जायते भुवि॥

शेष-धर्मे –

स्त्री-शूद्र-पूजितं लिङ्गं
विष्णुं वा प्रणतस्य च।
सद्-गतिं नैव पश्यामि
शास्त्राणाम् एष निश्चयः॥

नारदः –

स्त्री-शूद्र-पूजितं लिङ्गं
विष्णुं वा ऽपि नमेत् तु यः।
त्रि-सप्त-कुल-संयुक्तो
नरकं प्रतिपद्यते॥

श्री-पाञ्च-रात्रे –

स्त्री-शूद्रैर् अर्चितं स्पृष्टं
लिङ्गं वा विष्णुम् एव वा।
नार्चयेन् न नमस् कुर्याद्
द्वि-जातिस् तु कदाचन॥
तत्-तीर्थं सुरया तुल्यं
तद्-अन्नं मांसम् उच्यते।
द्वि-जातीनाम् अयं दोष
इतरेषां न विद्यते॥

अतः स्त्री-शूद्र-पूजितं तन् निवेदितादिकञ् च स्त्री-शूद्रयोर् एवार्हं न वैदिकानाम्। पराशर-संहितायाम् –

शुचिर् विप्रस् सदा कुर्याद् विष्णु-देवालयादिषु।
श्रिया सहैव तद्-विष्णु-पूजाम् आगम-सात्विकैः॥
गृहे तु क्षत्रियादीनां विष्णु-पूजा-विधिर् भवेत्।
क्षत्रियादि-स्पर्शने च विप्रार्चित-हरेस् सदा॥
सम्प्रोक्षणं तदा कृत्वा पश्चाद् विप्रस् तु पूजयेत्॥

हारीतः –

अवैष्णवेन विप्रेण स्थापिते मधु-सूदने।
तद्-राष्ट्रं भू-पतिर् वा ऽपि विनाशम् उपयास्यति॥
कुर्वीत वासु-देवेष्टिं तत्-पाप-प्रशमाय तु।
महा-भागवतेनैव पुनस् संस्कारम् आचरेत्॥

अत एवम् उक्त-दोष-व्यतिरिक्तं भगवन्तम् अष्टाङ्गेन तद्-देश-काल-शक्येन मस्तिष्क-सम्पुट-प्रह्वाङ्ग-पञ्चाङ्ग-दण्डाङ्गादिष्व् अन्यतमेन वा प्रणमेत्।

[[135]]

अष्टाङ्गादि प्रणाम-विशेषः

तत्राष्टाङ्ग-प्रणामः

मनो-बुध्य्-अभिमानेन सह न्यस्य-धरातले।
कूर्मवच् चतुरः पादान् शिरस् तत्रैव पञ्चमम्

इति सात्वतोक्तः। भाष्य-कारैश् च। मस्तिष्कादि पञ्चकन्तु वैखानसे पठितम् –

न मस्तिष्क-प्रणामस् स्याद् अञ्जलिं मस्तके न्यसेत्।
प्रणामस् सम्पुटस् स्याद्धृदये ऽञ्जलिम् अर्पयेत्॥
प्रह्वाङ्गस् सम्पुटं कुर्यात् सा प्रह्वाङ्ग-नमस्क्रिया।
पादाङ्गुलिभ्यां जानुभ्यां शिरसा चावनिं स्पृशेत्॥
बद्धाञ्जलिर् नमस् कुर्यात् स पञ्चाङ्ग उदीर्यते॥
पादौ हस्तौ प्रसार्यैव शेते भूमौ च दण्डवत्।
न दण्डाङ्ग-प्रणामस् स्यात् प्रणामान् एव आचरेद्

इति।

सङ्कर्षण-संहितायाम् - सुकृत-प्रणाम-प्रकरणे त्व् एवं प्रणाम उक्तः –

ललाटोदर-जान्व्-अङ्घ्रि-युगाग्रान् ऊर्ध्वगौ करौ।
भूमौ सन्धाय मनसा वासु-देवम् अनुस्मरन्

इति। एवञ् चाष्टाङ्ग-प्रणामः स्मर्यते –

उरसा शिरसा वाचा मनसा च कपोलतः।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामो ऽष्टाङ्ग उच्यते॥

रहस्याम्नाय-ब्राह्मणे च नमस्कार-प्रकरणे –

जानुभ्यां पाणिभ्यां शिरसा च नन्तव्यं भवतीत्य्-आदिना पूर्ण-नमस्कार-स्वरूपादिकम् उपदिश्य तत्-फलञ् चोक्तम् -

सर्वैः करणैर् नमन् - समग्रो नमति समग्रो नमन्न् आप्त-कारी भवति आप्त-कारी भगवन्तम् आप्नोति

इति। अत्र शाण्डिल्यः –

निधाय दण्डवद् देहं प्रसार्य चरणौ करौ।
बध्वा मुकुलवत् पाणी प्रणामो दण्ड-संज्ञितः॥
पादौ शिरस् तथा हस्तौ निकुञ्च्य मुकुलाकृतिः।
मनो बुद्ध्य्-अभिमानैश् च प्रणामो ऽष्टाङ्ग-सञ्ज्ञितः॥
मस्तिष्कं सम्पुटञ् चैव पञ्चाङ्गञ् च त्रयम् बुधैः।
कृतयोर् अनयोः कार्यम् अन्यथा विकलो भवेत्॥
सर्वत्र दृष्ट्वा देवेशं जितन्त इति मन्त्रकम्।
द्वादशार्णं जपेन् मन्त्रं भीतवत्-पूर्वमानतः॥
मत्कृतानि च कर्माणि मदीयम् अहम् अप्य् उत। तथैव न ममेतीष्टं नमो भगवतैर् इह॥
प्रदक्षिण-नमस्कार-जप-ध्यानार्चन-स्तुतिः।
तत्-कर्म-तद्-गुणो दोषैः विना नात्रान्यद् आचरेत्॥

[[136]]

एक-हस्त-प्रणाम-निषेधः क्वचित् तद्-अनुज्ञा च

श्री-पाञ्च-रात्र-रक्षायाम्॥
भागवते –

एकेन पाणिना यस् तु
प्रणमेत् पुरुषोत्तमम्।
न्याय्यस् तस्य कर-च्छेद
इति धर्म-विदो विदुः॥

सङ्ग्रहे –

छत्र-चामर-हस्ता ये
व्यापृतेतर-पाणयः।
एक-हस्तानतिस् तेषां
न दोषाय कदाचन॥

भगवद्-आचार्य-नाम-श्रवणे चाञ्जलि-बन्धः कार्यः - सम्भव-पर्वणि व्यास-प्रस्तावे –

महर्षेः कीर्तनात् तस्य
भीष्मः प्राञ्जलिर् अब्रवीत्॥

एवं यथार्हं प्रणम्य तद्-दक्षिणे समासीनो गुरु-परम्परानुसन्धान-पूर्वकं भगवन्तं शरणम् उपगम्य स्तोत्रैः स्तुत्वा …

फलम्

एवं भगवद्-अर्चावतार-दर्शने फलम् उक्तं पौष्करे –

सन्दर्शनाद् अकस्माच् च पुंसां संमूढ-चेतसाम्।
कु-वासना कु-बुद्धिश् च कु-तर्क-निचयश् च यः॥
कुहेतुश् च कुभावश् च नास्तिकत्वं लयं व्रजेद्

इति। शाण्डिल्यः –

आपीठामौलि-पर्यन्तं पश्यतः पुरुषोत्तमम्।
पातकान्य् आशु नश्यन्ति किम् पुनस् तूपपातकम्॥

भगवत्-तीर्थ-प्रसाद-महिमा

तत्र भगवत्-तीर्थं स्वीकृत्य।

अत्र पञ्च-रात्रे –

गोकर्णाकृति-हस्तेन विष्णु-पादोदकं महत्।
तुलसी-दल-सम्मिश्रं माष-मग्न-जलं पिबेत्॥
प्रथमं काय-शुद्ध्य्-अर्थं द्वितीयं धर्म-साधनम्।
तृतीयं मोक्ष-दं सिद्धं त्रिः पिबेत् तीर्थम् उत्तमम्॥
विष्णु-पादोदकं पीत्वा कोटि-जन्माघ-नाशनम्।
तद् एवाष्ट गुणं पापं भूमौ बिन्दु-निपातने॥
पादोदकं भगवतो लब्ध्वा भागवतस्य वा।
तिष्ठन्न् एवाथ आसीनो पिबेच्छुद्धिश् च नापरा॥
विष्णु-तद्-भक्त-तीर्थं वा पीत्वा धृत्वोर्ध्व-पुण्ड्रकम्।
न क्षालयेत् करं विद्वान् नैवेद्य-प्राशने ऽपि च।
विष्णोर् नैवेद्य-शेषस्य तीर्थ-पात्रोदकस्य च।
पुरोडाशस्य सोमस्य शेष-दोषो नविद्यते॥
विष्णोर् नैवेद्य-शेषन् तु मुनिभिर् भोज्यम् उच्यते।
न तत्राचमनं कुर्यात् स वैष्णव-बहिष्कृतः॥

[[137]]

सङ्ग्रहे –

आम्रेक्षु-खण्ड-ताम्बूल-चर्वणे सोम-पानके।
विष्ण्व्-अङ्घ्रि-तोय-पानेषु नाद्यन्ताचमनं स्मृतम्॥

तन्-मूला आथर्वणिक-श्रुतिः -

भगवान् पवित्रं वासुदेवः पवित्रं तत्-पादौ पवित्रं तत्-पादोदकं पवित्रं न तत्राचमनं यथा हि सोम [[TODO: परिष्कार्यम्]]

इति। अथ यथा-शक्ति-मूल-मन्त्रादिकं जपित्वा द्वा-त्रिंशद्-अपचारान् परिहृत्य॥

भगवद्-अपचाराः

वाराहे –

अपचारास् तथा विष्णोः द्वा-त्रिंशत्-परिकीर्तिताः।
यानैर् वा पादुकैर् वा ऽपि गमनं भगवद्-गृहे॥
देवोत्सवाद्य सेवा च अप्रणामस् तद्-अग्रतः।
एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम्॥
उच्छिष्टे वा ऽपि वा ऽऽशौचे भगवद्-वंदनादिकम्।
पाद-प्रसारणञ् चाग्रे तथा पर्यङ्क-बन्धनम्॥
शयनं भोजनञ् चैव मिथ्या-भाषणम् एव च।
उच्चैर् हासो वृथा जल्पो रोदनानि च विग्रहः॥
निग्रहो ऽनुग्रहश् चैव स्त्रीषु साकूत-भाषणम्।
कम्बलावरणञ् चैव पर-निन्दा पर-स्तुतिः॥
अश्लील-कथनञ् चैव अधो वायु-विमोक्षणम्।
तत्-तत्-कालोद्भवानाञ् च फलादीनाम् अनर्पणम्।
विनियुक्तावशिष्टस्य प्रदानं व्यंजनादिषु।
पृष्ठीकृत्यासनञ् चैव परेषाम् अभिवादनम्॥
गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा।
शक्तौ गौणोपचारश् च अनिवेदितभक्षणम्॥
द्वा-त्रिंशद्-अपचारेण रौरवं नरकं व्रजेत्॥

अत्र सङ्ग्रहे विशेषः –

वैष्णवो ऽवैष्णवो वा ऽपि राजानो गुरवस् तथा॥
नोपचर्या हरेः स्थाने सन्निधौ तु विशेषतः॥
एकान्तिनो महा-भागा विष्णुम् एव समाश्रिताः।
तान् एव प्रणमेत् प्राज्ञो विष्णु-क्षेत्रे विनेतरान्॥

[[138]]

एवम् अन्यत्रापचाराः प्रकारान्तरेण पर्यन्ते तत्र चात्र च उक्तानुक्त-समुच्चयः कार्यः।

प्रमादाद् अपि कीलालं यः स्पृशेद् वैष्णवो नरः।
उपचार-शतेनापि[[??]] न क्षमामि वसुन्धरे॥
यो विष्णोः प्रतिमाकारे लोह-भावं करोति च।
यो गुरौ मानुषं भावम् उभौ नरक-गामिनौ॥
वस्त्रेणाच्छाद्य देहन् तु यो नरः प्रणमेत् तु माम्।
श्वित्री च जायते मूर्खः त्रीणि-जन्मानि भामिनि॥
श्मशान-मध्यं गत्वा तु यो नरो माम् अथार्चयेत्।
सप्त-जन्म-कृतात् पुण्यात् तत्-क्षणाद् एवम् उच्यते॥
सार्गालीं योनिम् आसाद्य वसेज् जन्म-त्रयं शुभे।
भक्त्या श्राद्धं मृहा-भागे मनुजो माम् अथार्चयेत्॥
चटकत्वम् अनुप्राप्य ततो गोधा-वपुर् भवेत्।
अन्यद् एव गृहङ् गत्वा ह्य् अस्ना त्वा यो व्रजेद् गृहम्॥
ममैव वसुधे तस्य फलं पापस्य वै शृणु।
गृहाद् गृहम् अथो गत्वा भिक्षार्थी क्षुधितस् स्वयम्॥
भिक्षाम् अलब्ध्वा तत्रापि दरिद्रो जायते नरः।
कृष्ण-कम्बल-संवीतो यो नरः प्रणमेत् तु माम्॥
चण्डाल-योनितां याति जन्मानि नव पञ्च च॥

इत्यादि वाराहे पञ्च-चत्वारिंशे ऽध्याये

एवं भगवन्-मन्दिरे सावधानः परिहृतापचारः प्रणम्य विष्वक्सेनादीन् अनुज्ञाप्य स्व-देवाधिष्ठितम् आश्रम-गृहादिकम् आगत्य स्वाराध्यम् अभिगच्छेत्। अत्र वङ्गीश्वरः –

ततः प्रक्षाल्य चरणौ स्वाचान्तस् सुसमाहितः।
ब्रह्म-चारी गृहस्थो वान-प्रस्थो ऽथवा मुनिः॥
स्व-वर्ण-स्वाश्रमार्हेण विधिना श्रद्धया ऽन्वितः।
समिद्-आज्यादिभिर् द्रव्यैर् मन्त्रैर् अपि यथोदितैः॥
हुत्वा ऽग्नीन् अग्नि-होत्रादाव् उक्तं कालम् अपि क्षिपन्।
पराराधन-रूपेण कृतेनैव स्व-कर्मणा॥
कृते निष्कल्मषे शुद्धे स्वस्मिन् मनसि सुस्थिते।
लब्धाधिकारो देवस्य ध्यानार्चन-जपादिषु॥
विनिष्क्रम्याग्नि-शालायाः गत्वा देव-गृह-स्वकम्।
अर्चयित्वा परात्मानं देश-कालाद्य्-अपेक्षया॥
पत्रैः पुष्पैः फलैर् वा ऽपि पूर्व-कालोक्त-वर्त्मना।
केवलाञ्जलिना वा ऽपि विहितेन यथा तथा॥

इति।

[[139]]

अत्र जयाख्य-संहितायाम् –

सोनुसूर्यान्तरस्थञ्च गत्वा ऽश्वत्थादि-मध्यगम्।
भावयेद् भगवद्-विष्णुं गुरु-विप्र-शरीरगम्

इति। अतस् तत्र तत्र प्रवृत्तेष्व् अपि न देवतान्तर-भजनत्व-प्रसङ्गः तथा स्मृत्य्-अन्तरे –

ये यजन्ति पितॄन् देवान् ब्राह्मणान् स-हुताशनान्।
सर्व-भूतान्तरात्मानं विष्णुम् एव यजन्ति ते।