अत्र श्रुतिः
ब्रह्म-यज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामादच्छदिर्दश-उदीच्यां प्रागुदीच्यां वोदित आदित्य [[TODO: परिष्कार्यम्]]
इति। उदित आदित्य इति - होमानन्तरम् इत्य् अर्थः।
[[129]]
पश्चाद् वा प्रातर् आहुतेः॥
सन्ध्या-कर्मावसाने तु स्वयं होमो विधीयत
इत्यादि-स्मृतेः।अत्र कथञ् चित् प्रातर् ब्रह्म-यज्ञासम्भवे मनुष्य-यज्ञानन्तरं कार्यम्।
कौर्मे –
यदि स्यात् तर्पणाद् अर्वाक् ब्रह्म-यज्ञः कृतो न हि।
कृत्वा मनुष्य-यज्ञं वै ततस् स्वाध्यायम् आरभेत्॥
शौनकः –
यश् च श्रुति-जपः प्रोक्तो ब्रह्म-यज्ञस् स उच्यते॥
पैठीनसिः –
स्व-शाखाद्ध्ययनं यत् तत् ब्रह्म-यज्ञं प्रचक्षते॥
अतो ऽधीतेनापि वेदान्तरं ब्रह्म-यज्ञेनाध्येतव्यम्। ब्रह्म-यज्ञस्यापि महा-यज्ञत्वात् विद्युद्-वृष्टी भवतः ;
अत्र श्रुतिः
अथो आहुस् सर्वेषु यज्ञ-क्रतुष्व् इति होष्यन् अप उपस्पृशेत् - विद्युद् असि विद्यम् एवात्मानम् [[TODO: परिष्कार्यम्]]
इति।
“ब्रह्म-यज्ञेन यक्ष्य” इति सङ्कल्प्य विद्युत् - पाणि-पादौ प्रक्षाल्य त्रिः प्राश्य द्विर् उन्मृज्य दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश् च प्रोक्ष्य शिरश् चक्षुषी नासिके श्रोत्रे हृदयञ् च विधिवत् स्पृष्ट्वा दर्भास्तृते शुचौ देशे उपस्थं कृत्वा प्राग् आसीनः त्रिः प्राणानायम्य सपवित्रौ दक्षिणोत्तरौ करौ कृत्वा तत्-सवितुर् इति पच्छोर्धर्चशस् तत्-सर्वां व्याहृतीर् विहृताः पादादिष्व् अन्तेषु वा तथार्धर्चयोर् उत्तमां कृत्स्नायाम् इति ब्रह्मोपदेशोक्त-क्रमेण सप्रणवम् उच्चार्य “हरिर् ओम्” इति निर्दिश्य स्वाध्यायम् अधीयीत।
रत्नावल्याम् –
सव्यस्य पाणेर् अङ्गुष्ट-प्रदेशिन्योस् तु मध्यतः।
दक्षिणस्याङ्गुलीर् न्यस्य चतस्रो ऽङ्गुष्ठ-वर्जिताः॥
तथा सव्य-कराङ्गुष्ठं दक्षिणाङ्गुष्ठ-वेष्टितम्।
प्रणवं व्याहृतीश् चैव गायत्रीं च जपेत् क्रमात्॥
पच्छोऽर्ध-र्चश उच्छ्वासाद् वेदादींश् चतुरो जपेत्॥
[[130]]
नित्यम् प्रश्नः, अनध्यायाभावः
एवं नित्यं प्रश्नम् एकं पद-क्रमानुषङ्ग-रहितं वाच्यैवाधीत्य “नमो ब्रह्मण” इति परिधानीयां त्रिर् उच्चार्य ततो “वृष्टिः”, अप उपस्पृश्य, गृहान् एति ततो यत् किञ्चिद् ददाति सा दक्षिणा, एवं प्रश्नाध्यायासामर्थ्ये यथा-शक्ति वा वेदं क्रमाद् अधीयीत। अत्र पक्षे -
ॐ भूर् भुवस् सुवः - सत्यं तपश् श्रद्धायां जुहोमि [[TODO: परिष्कार्यम्]]
इत्य् उक्ता परिधानीयां त्रिर् जपेत्। अयं नित्यः -
अग्नि-कार्य-परिभ्रष्टाः पतिताः परिकीर्तिताः।
ब्रह्म-यज्ञ-विहीनाश् च ब्रह्म-घ्नाः कीर्तिता बुधैः
इति प्रत्यवाय-स्मृतेः। श्री-विष्णु-धर्मोत्तरे
ब्रह्म-यज्ञे जपेत् सूक्तं पौरुषं चिन्तयन् हरिम्।
स सर्वान् जपतो वेदान् साङ्गोपाङ्गान् विधानतः॥
अतो नियमेन पुरुषु-सूक्तम् अधीयीत। अनधीतो ऽशक्तो वा ब्रह्म-यज्ञे पुरुष-सूक्तं जपेद् गायत्रीं वा। तथा मनुः –
गायत्रीम् अप्य् अधीयीत गत्वा ऽरण्यं यथा-विधि॥
सङ्ग्रहे –
वेद-वाक्य-पुराणानि नेतिहासानि शक्तितः।
ब्रह्म-यज्ञ-प्रसिद्ध्य्-अर्थं विद्याञ् चाध्यात्मिकां जपेत्॥
अकृत-प्रातराश उदकान्तं गत्वेति आपस्तम्बोक्तेः भुक्तस्य ब्रह्म-यज्ञे नाधिकारः। तथा अस्पृश्य-स्पर्शाशौच-दुष्टस्य अदुष्टस्याप्यमेध्य-शव-शूद्रान्त्य-पतितान्तिके देशे नाध्यायः -
तस्य वा एतस्य यज्ञस्य द्वाव् अनध्यायाव् [[TODO: परिष्कार्यम्]]
इति श्रुतेः, नित्यं प्रश्नाध्यायिनो ऽनाध्याय-गन्धो नास्ति; अनियत-प्रश्नाध्यायिनस् तु
अल्पं जपेद् अनध्याये ऽल्पतरञ् जपेद्
इत्य् उक्तम्। तथा मनुः –
नैमित्तिके नानध्यायो ब्रह्म-सूत्रं हि ततो स्मृतम्।
ब्रह्माहुति हुतं पुण्यं स्वाध्यायम् अवषट्-कृतम्॥
एवं पुरुष-सूक्तादि-वैदिक-मन्त्राणां सर्वेषाम् अपि नित्यम् “अहं जपिष्यामि"ति सङ्कल्पिते नाध्यायः।
[[131]]
विधुरस्य ब्रह्म-यज्ञाद्य्-अनधिकारः
किञ्च –
अयज्ञो वा एषः, योऽ पत्नीकः॥ पाणिग्रहाणादधि गृहमेधिनोर्व्रतम् [[TODO: परिष्कार्यम्]]
इत्यादिभिः पञ्च-महा-यज्ञानां गृह-मेधि-विषयत्वावगमाद् अपत्नीकस्यायज्ञार्हत्व-श्रुतेश् च विधुरस्य न ब्रह्म-यज्ञादि-पञ्च-महा-यज्ञ-प्रसङ्गः।
ब्रह्म-चारिणा ब्रह्म-यज्ञाधिकारः
ब्रह्म-चारिभिस् तु ब्रह्म-यज्ञः कर्तव्य एव। तथा नारदीये –
सायं प्रातर् अग्नि-कार्यं यथा-कालं जितेन्द्रियः।
कुर्यात् प्रति-दिनं वर्णी ब्रह्म-यज्ञञ् च तर्पणम्॥
तन्त्र-त्रयं काठकञ् च वैश्वदेव-मनून् पठेत्।
मन्त्र-प्रश्नौ पुनश् चैवं ब्रह्म-यज्ञे क्रमं विदुः॥
वसिष्ठः
ऋक्-सामाथर्व-वेदोक्तान् जपेन् मन्त्रान् यजूंषि च।
जपित्वैवं ततः कुर्याद् देवर्षि-पितृ-तर्पणम्॥
तर्पणे तु यथा स्व-शाखं व्यवस्था ऽनुसन्धया।