१६ होम-विधिः

दक्षः –

सन्ध्या-कर्मावसाने तु स्वयं होमो विधीयते।
स्वयं होमे फलं यत् स्यान् न तद् अन्येन लभ्यते॥
हूयमानं तथा ऽन्येन फलम् अर्थं प्रपद्यते।
ऋत्विक् पुत्रो गुरुर् भ्राता भागिनेयो ऽथ विट्-पतिः॥ एतैर् अपि हुतं यत् स्यात् तद्धुतं स्वयम् एव तु॥

विट्-पतिर् जामाता,

ऋत्विक् पुत्रो ऽथ पत्नी वा शिष्यो वा ऽथ सहोदरः। प्राप्यानुज्ञां विशेषेण जुहुयुर्व वा यथा-विधि॥

वसिष्ठः –

स्वयम् एव तु होतव्यं पत्नी वा पुत्र एव वा।
अन्तेवासी कुलीनो वा ऋत्विग् वा शुभ-लक्षणः॥

भर्तुर् विप्र-वासे ऋत्विग् आद्य् अभावे गोभिलः –

कामं गृह्ये ऽग्नौ पत्नी जुहुयात् सायं प्रातर् होमाव्

इति। मनुः –

अग्नि-होत्रस्य शुश्रूषां सन्ध्यौपासनम् एव च।
कार्यं पत्न्या प्रतिदिनं बलि-कर्म च नैत्यकम्॥

सन्ध्यौपासनं - सायम् प्रातर् होमः। विष्णुः –

स्वयम् अहुत्वा न परं याजयेद्

इति। चन्द्रिकायाम् –

असमक्षन् तु दम्पत्योर् होतव्यं नर्त्विगादिना।
उभयोर् असमक्षन् तु भवेद्धुतम् अनर्थकम्।

मनुः –

नैव कन्या न युवतिर् नाल्प-विद्यो न बालिशः।
होता स्याद् अग्नि-होत्रस्य नार्तो नासंस्कृतो ऽशुचिः॥

बृहस्पतिः –

सूतके मृतके चैव अशक्तौ श्रद्ध-भोजने।
प्रवासा (प्रसवा) दि निमित्तेषु हावयेन् न तु हावयेत्॥

होम-काल-निर्णयः

मनुः –

उदिते ऽनुदिते चैव समयाध्युषिते तथा।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः॥
ग्रह-र्क्ष-युक्तो ऽनुदितो नक्षत्रार्क विवर्जितः।
समयाध्युषितस् सार्क उदितस् त्रिषु होमयेत्॥

उशनाः –

अर्ध-मण्डल सम्प्राप्ते भानाव् अनुदिते हुतम्।
तस्मिन्नस्तङ्गते होमो भवेद् उदित-होमिनः॥

[[125]]

सायम् अर्ध-मण्डलं प्राप्ते ऽर्के ऽनुदित होमपक्षे, हुतं - होमः, कार्यः, उदित-होम-पक्षे, तस्मिन्नस्तङ्गते होमो भवेद् इत्य् अर्थः।

एकेतूदित-होमाः स्युर् अन्ये ऽनुदित-होमिनः।
अन्ये भोजन-होमाश् च पक्ष-होमास् तथापरे॥

पक्ष होमा इत्यादि श्रौत-होम-विषयम्। आश्वलायनः –

प्रदोषान्तो होम-कालस् सायं सङ्गवान्तः प्रातर्

इति। अयं मुख्य-कालः। गौण-कालम् आह - गोभिलः –

अथ यदि गृह्ये ऽग्नौ सायं प्रातर् होमयोर् दर्श-पूर्ण-मासयोर् वा हव्यं होतारं वा नाधिगच्छेत् तत् कथं कुर्याद् आसायम् आहुतेः प्रातर् आहुतिर् नात्येति। आप्रातर् आहुतेस् सायम् आहुतिर् नात्येति, अमावास्यायाः सौर्णमासी नात्येति, आपौर्णमास्या ऽमावास्या नात्येति

इति।

हविष्य-निर्णयः

कात्यायनः –

कृतम् ओदन-सक्त्व्-आदि तण्डुलादि कृताकृतम्।
व्रीह्य्-आदि चाकृतं प्रोक्तम् इति हव्यं त्रिधा बुधैः॥

बृहस्पतिः –

प्रस्थ-धान्यं चतुष् षष्टेर् आहुतेः परिकीर्तितम्।
तिलानान् तु तद्-अर्धं स्यात् तद्-अर्धं स्याद् घृतस्य तु॥

समिद्-इध्म-निर्णयः

पलाश-खदिर-शमी-रोहिताश्वत्थार्क-वेतसाद्यास् समिधो ग्राह्याः, नाङ्गुष्ठाद् अधिक-स्थूला अत्वचाः प्रदेशिन्याधिका ग्राह्याः, कोविदार-विभीतक-कपित्थामलक-नीप-निम्ब-कुरञ्ज-तिलक-शाल्मलि-श्लेष्मातकाद्या वर्ज्याः॥

पक्ष-शुद्धास् तु पालाशा औदुम्बर-दिन-त्रयम्।
त्रि-दिनं पिप्पलानान् तु अपामार्गन् तु तद्-दिनम्॥
खदिरार्क-शमी-दूर्वा कुशास्तालिकीस्[[??]] स्मृताः॥

[[126]]

स्कान्दे –

तुलसी-काष्ठ-युक्ते ऽग्नौ जुह्वताम् अक्षयं फलम्।
हविस् तेनैव यत् पक्वं विष्णोर् आनन्त्यम् अश्नुते॥

वृद्ध-हारीतः –

देवानां तर्पणं होमं बलि-कर्म च भोजनम्।
अर्चनं मार्जनं कुर्याद् देव-तीर्थेन सर्वदा॥

विष्णुः –

अप्रबुद्धे सधूमे वा जुहुयाद् यो हुताशने।
यजमानो भवेद् अन्धस् सो ऽमुत्रेति च नश् श्रुतम्।

श्रौत-पूर्वत्वादि विधिः

भरद्वाजः –

होमं वैतानिकं कृत्वा
स्मार्तं कुर्याद् विचक्षणः॥

वैतानिकं - श्रौतम्, गार्ग्यः -

कृतदारो न वै तिष्ठेत्
क्षणम् अप्य् अग्निना विना।
तिष्ठेत चेद् द्विजो व्रात्यस्
त्यक्त्वा तु पतितो भवेत्॥

पात्र-तोय-स्पर्श-विधिः

होमे पर्युक्षणे श्राद्धे सन्ध्या-कर्मसु मार्जने।
आचामे भोजने पात्रं तोयं वामेन संस्पृशेत्॥

पुनराधान-निमित्तम्

कात्यायनः –

विवाहाग्नीन् सभार्यश् चेत् सीमाम् उल्लङ्घ्य गच्छति।
होम-काल-व्यपेतस्य पुनर् आधानम् इष्यते॥

शौनकः –

अग्नाव् अनुगते यत्र होम-काल-द्वयं व्रजेत्।
उभयोर् विप्रवासे तु लौकिको ऽग्निर् विधीयते॥

अनुगते - वर्तमाने, एतच् च होम-काल-द्वयात्यये पुनर् आधान-विधानं समीद्-आत्म-समारूढाग्नि-विषयम्॥

धार्यमाण श्चतूरात्र महूयमानो ऽग्निर् लौकिकस् सम्पद्यत इति आपस्तम्बेन विशेष-स्मरणात् ;

[[127]]

अर्वाक् त्रि-रात्राज्जुहुयाद् अयाश् च आसप्त-रात्रात् तु वनस्पतींश् च। एकादशाहे सह तन्तु-मत्या स्याद् द्वादशाहे पुनर् आदधीत॥

इदं बोधायनादि-विषयम्॥ शौनकः –

यदा सन्धीयते वह्निः प्रायश्चित्त-पुरस्सरम्।
तदा सायं विजानीयात् प्रातर् होमं तत,परम्[[??]]॥
प्रतिपत्-पर्व-सन्धानं कर्म-कर्तृ-विनाशनम्।
सन्धाय त्रि-दिनं हुत्वा स्थाली-पाकं समाचरेत्॥

बोधायनः –

एकाग्नेस् त्रि-विधं समारोपणम् आत्मन्य् अरण्योर् वा समित्सु; समिधश् चात्र पलाशाश्वत्थ-खदिरोदुम्बराः।

आत्मारूढो ऽप्सु मज्जेद् वा वदेद् वा पतितादिभिः।
अथवा योषितं गच्छेद् अनृतौ काम-मोहितः॥
वदन्त्य् एषु निमित्तेषु पुनर् अग्नि-विनाशनम्।
आपस्तम्बस्य तन्नेष्टम् आत्मारूढस् सदा शुचिः॥

स एव -

अथाग्नेर् विपत्तिं व्याख्यास्यामो ऽमेध्या-शुचि-चण्डाल-शूद्र-वायस-पतित-रजस्वलाश्वभिश् च संस्पर्शे ऽरण्योर् विनाश इति पुनर् अग्निं समिध्यादेवं सर्वेष्व् अग्न्य्-उपघातेष्व्

इति।

औपासनाग्नि-द्वय-संसर्गः

रत्नाकरे –

औपासनाग्नि-द्वय-सङ्गतिश् चेद्
अग्निं समारोपणतो विभज्य।
पूर्वस्य होतुर्विविचिञ् च हुत्वा
पश्चाच् च होतुः पथिकृच् च सो ऽपि॥

अस्यार्थः - द्वयोर् औपासनाग्न्योस् संसर्गे - संसृष्टौ, अग्निं समारोपणार्थं विभज्य ममायम् अंशो ममायम् अंश इति प्रत्येकम् अभिमानी कृत्य स्वांशे पूर्व-होता “अग्नये विविचये स्वाहे"ति हुत्वा प्रायश्चित्ताहुतीर् जुहुयात्; पश्चाद्धोता तु - “अग्नये पथिकृते स्वाहा” “अग्नये विविचये स्वाहे"ति हुत्वा ततः प्रायश्चित्ताहुतीश् च जुहुयात्।

[[128]]

ततस् ताव् उभौ सहैव समारोपयेताम् इति। एवं लौकिकाग्नि-सम्पर्के विविचिं पाहि पञ्चकञ् च जुहुयात्।

ब्रह्म-चारी यदा त्व् अग्नौ न दध्यात् समिधः क्वचित्।
गृह्णीयात् तं तदा मृत्युर् आदध्यात् समिधस् ततः॥

अग्नेर् भगवत अगस्त्य-भगवान् ऋषिः अनुष्टुप्-छन्दः हुताशनो देवता औपासने विनियोगः॥ रं बीजं स्वाहा शक्तिः अं शुक्ल-वर्णः सर्व-होम-सिध्य् अर्थे विनियोगः स्वस्ति पूर्ण-मुखाय हृदयाय नमः, तेजोराशिने शिरसे स्वाहा,सूत्राक्षाय शिखायै वौषट्,धनुर्-धराय कवचाय हुं सहस्त्रात्मने नेत्र-त्रयायै वौषट्,सर्वात्मने अस्त्राय फट् भूर् भुवस् सुवर् ओम् इति दिग्-बन्धः।

अग्नेर् ध्यानं प्रवक्ष्यामि सर्व-होमार्थ-सिद्धये।
द्विमुखं चैक-हृदयं चतुश् श्रोतं द्वि-नासिकम्॥
अन्य-द्वयञ् च षण्णेत्रं सप्त-हस्तैस् समन्वितम्।
मेषा-रूढं चतुश् शृङ्गं त्रि-पदञ् च जटाननम्॥
शक्तिम् अन्नं दधानञ् च स्रुक्-स्रुवौ दक्षिणे करे।
तोमरञ् च धनुर् बाणं घृत-पात्रं तु वामके॥
स्वाहां तु दक्षिणे देवीं स्वधा देवीञ् च वामतः।
आत्माभिमुखम् आसीनम् एवं रूपं हुताशनम्॥
(ध्यायेद् इति शेषः) ध्यात्वा होमं प्रकुर्वीत विष्णोः प्रिय-करं भवेत्।
पूर्वं प्रादेशिकां दत्वा ततो होमो विधीयते॥
द्वितीया पृष्ठतो देया ततो ऽअग्निम् उपतिष्ठते।

उत्ताने…(ग्रन्थ-पातः??)